भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.245

6.245.1

भूपीठेन सता तत्र मया तदनु मानद ।
अनुभूतं नदनदीनादिनेदं दिने दिने ॥

6.245.2

क्वचिन् मरणसाक्रन्दनारीकरुणवेदनम् ।
क्वचिद् उत्ताण्डवस्त्रैणमहोत्सवमहासुखम् ॥

6.245.3

क्वचिद् दुर्वारदुर्भिक्षदुराक्रन्ददुरीहितम् ।
क्वचित् सकलसस्यौघसम्पन्नघनसौहृदम् ॥

6.245.4

क्वचिद् अग्निमहादाहदग्धदेशोग्ररोदनम् ।
क्वचिज् जलप्लवालूनपुरपत्तनखण्डकम् ॥

6.245.5

क्वचिच् चपलसामन्तकृतलुण्ठनमण्डलम् ।
क्वचिद् उद्दामदौरात्म्यरक्षḫपैशाचमण्डलम् ॥

6.245.6

क्वचिज् जलाशयोल्लासवेल्लनोत्पुलकाङ्गकम् ।
कन्दरोदरनिष्क्रान्तवातवेल्लितवारिदम् ॥

6.245.7

संविद्बोधोन्नमत्स्वाङ्गकोशोत्थाङ्कुरलोमकम् ।
वारिवारणविक्षोभनतोन्नतलसत्तलम् ॥

6.245.8

सशृङ्गभैरवश्वभ्रपुराद्रिवनझम्पनम् ।
सन्धिमण्डलसञ्चाललेखाङ्कमृदुकम्पनम् ॥

6.245.9

क्वचित् सामन्तसङ्क्षुब्धसैन्यसंहरणं रणे ।
क्वचित् सोम्यसुखासीनसर्वसामन्तमण्डलम् ॥

6.245.10

अरण्यं क्वचिद् आशून्यम् उल्लसद्वातभाङ्कृति ।
जङ्गलं क्वचिद् आलूनव्युप्तसम्पन्नसस्यकम् ॥

6.245.11

हंसकारण्डवाकीर्णसरḫ फुल्लाम्बुजं क्वचित् ।
क्वचिन् मरुस्थलं स्थूलस्तम्भाभार्जुनमारुतम् ॥

6.245.12

क्वचिद् ध्रदनदीवाहहेलानिकषघर्घरम् ।
क्वचिद् अङ्कुरकार्यङ्गसिक्तबीजास्यजृम्भणम् ॥

6.245.13

क्वचिद् अन्तस्स्थकीटास्यमृदुस्पन्दनवेदनम् ।
मां त्वम् एवाशु बुद्ध्वेह त्रायस्वेतीव बोधनम् ॥

6.245.14

शाखापरिकराभोगमृद्भागाङ्गनिपीडनैः ।
मूलजालम् अवष्टभ्य क्वचिद् विटपिधारणम् ॥

6.245.15

अन्योऽन्यम् अलम् आक्रम्य दिक्तटाङ्गनिपीडनैः ।
क्वचिद् अद्र्यस्थिनिबिडैर् अर्णवोल्लासवेल्लितम् ॥

6.245.16

शुष्कपल्लवसङ्कोचनिबिडाङ्गनिपीडनम् ।
अमर्षणैẖ करैर् आर्कैस् स्वरसाकर्षणं क्वचित् ॥

6.245.17

शृङ्गमन्दिरमातङ्गप्रहाराशनिभूरुहाम् ।
निबिडाङ्गोत्कटस्थैर्यपरुषं पतनं क्वचित् ॥

6.245.18

निमीलितेक्षणामन्दतनून्नामसमक्रमम् ।
क्वचित् सूक्ष्मरसोल्लेखम् अङ्कुरोल्लसनं नवम् ॥

6.245.19

मक्षिकायौकमषकनिकाषसदृशं क्वचित् ।
कुद्दालशङ्कुतुङ्गारिहलहेलानिकर्षणम् ॥

6.245.20

शीतं शीतविशीर्णाङ्गजर्जरत्वग्विकीर्णमृत् ।
पाषाणीभूतसलिलं क्वचित् परुषमारुतम् ॥

6.245.21

उद्गालीभूतमृद्वङ्गमज्जदन्तẖक्रिमिव्रजम् ।
क्वचिद् उद्भवदब्जादिमूलं जलनिमज्जनम् ॥

6.245.22

शनैर् अन्तर्निलीनाम्बुकृताह्लादं बहिẖखरम् ।
सोन्नामाङ्कुररोमौघं क्वचिद् धर्षविजृम्भितम् ॥

6.245.23

तनुतरपवनविकम्पितकोमलनलिनीदलास्तरणैः ।
विरहिण इव मे विहितं सरोभिर् अङ्गेषु निर्वाणम् ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc