मोक्षोपाय · अध्याय 6.247
अनन्तरं वद ब्रह्मञ् जगन्ति भवता तदा ।
भूमण्डलानां हृदये कच्चित् दृष्टानि वा न वा ॥
परात्मजाग्रत्स्वप्नोर्वीमण्डलौघात्मना मया ।
ततो ऽनुभूतं हृदये दृष्टं च परया दृशा ॥
यावत् तथैव सर्वत्र जगज्जालम् अवस्थितम् ।
सर्वं दृश्यमयं शान्तम् अपि द्वैतमयात्मकम् ॥
जगन्ति सन्ति सर्वत्र सर्वत्र ब्रह्म संस्थितम् ।
सर्वं शून्यं परं शान्तं सर्वम् आरम्भमन्थरम् ॥
सर्वत्रैवास्ति पृथ्व्यादि स्थूलं तच् च न किञ्चन ।
चिद्व्योमैव यथा स्वप्नपुरं परम् अजं न तत् ॥
नेहानानास्ति नो नाना न नास्तित्वं न चास्तिता ।
अहम् इत्य् एव नैवास्ति यत्र तत्र कुतो ऽस्तु किम् ॥
अनुभूतम् अपीदं सद् अहमित्यादिदृश्यकम् ।
नास्त्य् एव यदि वाप्य् अस्ति तद् ब्रह्माजम् अनामकम् ॥
यत् स्वप्नपुरम् एवेदं सर्गादाव् एव विन्नभः ।
अस्तितानास्तिते तत्र कीदृशे क्व कुतस् स्थिते ॥
यथाहं दृष्टवांस् तानि जगन्त्य् अवनिरूपधृत् ।
तथा मया जलीभूय दृष्टं तादृशम् एव तत् ॥
वारिधारणया वारि भूत्वा जडम् इवाजडम् ।
समुद्रमन्दिरेष्व् अन्तश् चिरं गुलगुलायितम् ॥
तृणवृक्षलतागुल्मवल्लीनां स्तम्भनाडिषु ।
मृद्व् अलक्षितम् आरूढं तवाङ्गेष्व् इव यूकया ॥
सर्वोत्थानोपमा स्तम्भे तच्छेदे वलयोपमा ।
मृद्व्या कर्णाहिगत्येव रचनाभ्रे कृतोदरे ॥
वल्लीतमालतालादिपल्लवेषु फलेषु च ।
विश्रम्य पुष्टयाकृत्या रेखाविरचनं कृतम् ॥
मुखेनाविश्य हृदयम् ऋतुवैधुर्यधारिणा ।
वृता विधुरिता भुक्ता लूना देहेषु धातवः ॥
सुप्तं पल्लवतल्पेषु प्रालेयकणरूपिणा ।
तुल्यकालम् अशेषेषु दिक्षु सर्वास्व् अखेदिना ॥
नानाह्रदनदीगेहगामिनाविरताध्वना ।
विश्रान्तं सेतुसुहृदḫ प्रसादेन क्वचित् क्वचित् ॥
विदा विदनुसन्धानाज् जडेन तदनाश्रयात् ।
जलाशयेषूल्लसितं जलेनावर्तवृत्तिना ॥
मया दुष्कृतिनेवोर्ध्वाच् छिलास्तम्भेन भूभृताम् ।
सावर्तवृत्तिना श्वभ्रपातेषु शतधा गतम् ॥
धूमरूपेण निर्गत्य दारुभ्यो गगनार्णवे ।
कणरत्नेन नीलर्क्षमणाव् आवर्तिना स्थितम् ॥
विश्रान्तम् अभ्रपीठेषु विद्युद्वनितया सह ।
भिन्नेन्द्रनीलनीलेन शेषाङ्गेष्व् इव शौरिणा ॥
परमाणुमये सर्गे पिण्डरूपेष्व् अलक्षितम् ।
स्थितम् अन्तḫ पदार्थेषु ब्रह्मणेवाबिलात्मना ॥
प्राप्य जिह्वाणुभिस् सङ्गम् अनुभूतिẖ कृतोत्तमा ।
या नात्मनो न देहस्य मन्ये ज्ञानस्य केवलम् ॥
न मया न च देहेन नान्येनास्वादितात्म यत् ।
तद् अन्तर् विधृतं शैत्यम् अज्ञानाय तद् अप्य् असत् ॥
सर्वर्तुरसरूपेण नानामोदानि दिक्ष्व् अलम् ।
भुक्तानि पुष्पजालानि प्रोच्छिष्टं ददतालये ॥
चतुर्दशप्रकाराणां भूतानाम् अङ्गसन्धिषु ।
उषितं चेतनेनेव जडेनाप्य् अजडात्मना ॥
शीकरोत्कररूपेण रथम् आरुह्य मारुतम् ।
आमोदेनेव विहृतं विमलव्योमवीथिषु ॥
राम तस्याम् अवस्थायां परमाणुकणं प्रति ।
अनुभूतम् अशेषेण यथास्थितम् इदं जगत् ॥
अजडेन जडेनेव मया जलतया तया ।
अन्तस् सर्वपदार्थानां ज्ञाताज्ञातेन संस्थितम् ॥
जगतां तत्र लक्षाणि नाशोत्पादशतानि च ।
मया दृष्टानि रूढानि कदलीदलपीठवत् ॥
एवं जगच् चाजगद् वा साकारं वा निराकृति ।
चिन्मात्रगगनं सर्वम् आकाशाधिकनिर्मलम् ॥
न कश्चन त्वं न च किञ्चनेदं शुद्धḫ परो बोध इदं विभाति ।
स चापि नो किञ्चन नापि शून्यम् आकाशम् एवासि विशङ्कम् आस्स्व ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0