भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.244

6.244.1

ततश् चिदाकाशवपुर् व्याप्य् अनन्तो निरामयः ।
दत्तावधानो वपुषि तदापश्यम् अहं क्वचित् ॥

6.244.2

यावद् अन्तर्गतस् सर्गस् संस्थितो ऽङ्कुरितो मम ।
कुसूलस्थस्य बीजस्य सिक्तस्येवाङ्कुरो हृदि ॥

6.244.3

उद्बुभूषुर् इवास्ते ऽन्तस् सेकाद् बीजे यथाङ्कुरः ।
आकारवत्य् अनाकारश् चित्त्वाच् चित्ते तथा जगत् ॥

6.244.4

यथोन्मिषति दृश्यश्रीस् सुषुप्ताद् बोधम् एयुषः ।
जाग्रद् वा विगते स्वप्ने चिन्मात्रस्य स्वचेतनात् ॥

6.244.5

तथैवात्मनि सर्गादाव् अनुभूतẖ खरूपिणि ।
हृदि सर्गोदयो ऽनन्यरूपस् स्वाकाररूपतः ॥

6.244.6

आकाशरूप आकाशे परमाकाश कथ्यताम् ।
भूयो निपुणबोधाय कथं सर्गḫ प्रवर्तते ॥

6.244.7

शृणु राम यथा तत्र स्वयम्भूत्वं मया तदा ।
अनुभूतम् असत् सद्वद् इदं स्वप्ननरोपमम् ॥

6.244.8

तम् आलोक्य महाकल्पसंरम्भं व्योमरूपिणा ।
भागे ऽन्यत्र शरीरस्य संविद् उन्मेषिता मया ॥

6.244.9

यदैव सामला संवित् किञ्चिद् उन्मेषिता स्थिता ।
तदैवाहं क्वचित् तत्र पश्याम्य् आश्यानताम् इव ॥

6.244.10

गतस् स्वभावं चिद्व्योम यथा त्वं राम निद्रया ।
जाग्रद् वा स्वप्नलोकं वा विशन् वेत्सि मनाग् घनम् ॥

6.244.11

चिन्मात्राकाशम् एवादौ ततो ऽस्मीत्य् एव वेदनम् ।
तद् घनं कथ्यते बुद्धिः सा घना मन उच्यते ॥

6.244.12

तद् वेत्ति शब्दतन्मात्रं तन्मात्राणीतराण्य् अथ ।
पञ्चेन्द्रियाणि तत्स्थौल्याद् इतीन्द्रियगणोदयः ॥

6.244.13

सुषुप्ताद् विशतस् स्वप्नं जगद्दृश्यवनोदयः ।
यथा तथैव सर्गादौ दृश्यं भाति निमेषतः ॥

6.244.14

तुल्यकालम् अनन्ते ऽस्मिन् दृश्यजालावभासने ।
कथयन्ति क्रमं केचित् केचिन् न कथयन्ति च ॥

6.244.15

परमाणुकणं कान्तं सम्पन्नम् अनुभूतवान् ।
अहं चेतनम् आत्मानं वस्तुतो ऽमलम् एव खम् ॥

6.244.16

यथा स्वभावतो व्योम्नि चलत्य् एवानिशं मरुत् ।
तथा स्वभावात् सर्वत्र पश्यत्य् एवं वपुश् चितिः ॥

6.244.17

यादृशं चेतितं रूपं शक्त्या परमयानया ।
तच् छक्नोत्य् अन्यथा कर्तुं नैषा यत्नेन भूयसा ॥

6.244.18

ततḫ पश्याम्य् अहं यावत् सम्पन्नो ऽस्म्य् अणुरूपकः ।
चित्त्वाच् चेतंस् तद् एवाशु तथाभूतो ऽस्मि संस्थितः ॥

6.244.19

ततो ऽहं बुद्धवान् रूपं तनु तेजẖकणाकृति ।
तद् एव भावयन् पश्चाद् गतो ऽहं स्थूलताम् इव ॥

6.244.20

प्रेक्षे तावद् अहं किञ्चिद् इति बोधाल् लघोस् ततः ।
मनाग् आलोकनायेव सम्प्रवृत्तो ऽनुभूतवान् ।
यन् नाम तत्र तत् किञ्चित् तस्येहाद्य रघूद्वह ॥

6.244.21

शृणु नामानि मुख्यानि कल्पितानि भवादृशैः ।
द्रष्टुं प्रवृत्तो रन्ध्रेण येन तच् चक्षुर् उच्यते ॥

6.244.22

यच् च पश्यामि तद् दृश्यं दर्शनं तु फलं ततः ।
यदा पश्यामि कालो ऽसौ यथा पश्यामि स क्रमः ॥

6.244.23

प्रौढा नियतिर् इत्य् अद्य यत्र पश्यामि तन् नभः ।
स्थितो ऽस्मि यत्र देशो ऽसाव् इत्य् आद्यैषा प्रकल्पना ॥

6.244.24

तदा त्व् अहं विदुन्मेषमात्रम् एतस्य कारणम् ।
पश्यामीति ततस् तत्र मनाग् बोधो ममोदभूत् ॥

6.244.25

ततो रन्ध्रद्वयेनाहम् अपश्यं यत् तद् अस्ति खम् ।
याभ्याम् अपश्यं रन्ध्राभ्यां त इमे लोचने स्थिते ॥

6.244.26

ततẖ किञ्चिच् छृणोमीति संविद् अभ्युदिता मम ।
ततẖ किञ्चिन् मनाङ्मात्रझाङ्कारं श्रुतवान् अहम् ॥

6.244.27

आध्मातस्येव शङ्खस्य शब्दं व्योम्नस् स्वभावजम् ।
याभ्याम् अहम् अथाश्रौषं त इमे श्रवणव्रणे ॥

6.244.28

प्रदेशाभ्यां विचरता मरुताविरतस्वनम् ।
स्पर्शसंवेदनं किञ्चिद् अहम् अत्रानुभूतवान् ॥

6.244.29

तत्संवेदनमात्रात्म सो ऽयं वायुर् इति स्मृतः ।
स्पर्शनेन्द्रियतन्मात्रम् असद् एवेति सत् स्थितम् ॥

6.244.30

आस्वादसंविद् याभून् मे तद् आस्वाद्यरसेन्द्रियम् ।
घ्राणान् मे घ्राणतन्मात्रम् उदितं व्योमरूपिणः ।
इत्थं न किञ्चित् सम्पन्नं सर्वं सम्पन्नम् अत्र मे ॥

6.244.31

एवम् इन्द्रियतन्मात्रजालं चेतन्न् अहं स्थितः ।
यावत् तावद् विदḫ पञ्च बलाद् इव ममोदिताः ॥

6.244.32

शब्दरूपरसस्पर्शगन्धमात्रशरीरिकाः ।
अनाकारास् तथानाम्न्यẖ खरूपिण्यो भ्रमात्मिकाः ॥

6.244.33

एवंरूपम् अहं जालं भावयन् यत् तदा स्थितः ।
तद् अहङ्कार इत्य् अद्य कथ्यते त्वादृशैर् जनैः ॥

6.244.34

एष एव घनीभूतो बुद्धिर् इत्य् अभिधीयते ।
साथ बुद्धिर् घनीभूता मन इत्य् अभिधीयते ॥

6.244.35

अन्तẖकरणरूपẖ खम् एव तत्राहम् आस्थितः ।
आतिवाहिकदेहात्मा चिन्मयव्योमरूपवान् ॥

6.244.36

पवनाद् अप्य् अहं शून्यẖ केवलाकाशमात्रकम् ।
सर्वेषाम् एव भावानां शून्याकृतिर् अरोधकः ॥

6.244.37

अथैनं भावयन्न् अहं यदा तत्र स्थिरं स्थितः ।
तदाहं देहवान् पुष्ट इति मे प्रत्ययो ऽभवत् ॥

6.244.38

तेनाहं प्रत्ययेनाथ शब्दं कर्तुं प्रवृत्तवान् ।
शून्य एव यथा सुप्तस् स्वप्नोड्डीनो नरो रवम् ॥

6.244.39

अथ पूर्वं कृतश् शब्दो बालेनेव तद् ओम् इति ।
ततस् स एष ओङ्कार इति नीतḫ पुनḫ प्रथाम् ॥

6.244.40

ततस् स्वप्ने नरेणेव यत् किञ्चिद् गदितं मया ।
तद् एतद् विद्धि वाचं त्वं पश्चान् नीतां प्रथाम् इह ॥

6.244.41

ब्रह्मैव सो ऽस्मि सम्पन्नस् सृष्टेẖ कर्ता जगद्गुरुः ।
ततो मनोमयेनैव कल्पितास् सृष्टयो मया ॥

6.244.42

एवम् अस्मि समुत्पन्नो न तु जातो ऽस्मि किञ्चन ।
दृष्टवान् अस्मि ब्रह्माण्डं तन् न किञ्चन कुत्रचित् ॥

6.244.43

एवं जगति सम्पन्ने ममैतस्मिन् मनोमये ।
न किञ्चित् तत्र सम्पन्नं तच् छून्यं व्योम केवलम् ॥

6.244.44

इत्थं संशून्यम् एवेदं सर्वं वेदनमात्रकम् ।
न मनाग् अपि सन्त्य् एते भावाḫ पृथ्व्यादयẖ किल ॥

6.244.45

जगन्मृगतृडम्बूनि भान्ति संविदि संविदः ।
न बाह्यम् अस्ति नाबाह्यं खे तद् व्योम तथा स्थितम् ॥

6.244.46

मरौ नास्त्य् एव सलिलं संवित् पश्यति तत् तथा ।
निर्मूलम् अन्तस्सन्तप्ता स्वसम्भ्रमवती भ्रमम् ॥

6.244.47

नास्त्य् एव ब्रह्मणि जगत् संवित् पश्यति तत् तथा ।
निर्मूलम् एव संवित्त्वाद् एव भ्रान्तेश् च सम्भ्रमम् ॥

6.244.48

असद् एवेदम् आभाति हृद्य् एव जगद् आततम् ।
सङ्कल्पनमनोराज्यकथास्वप्नपुरादिवत् ॥

6.244.49

पार्श्वसुप्तजनस्वप्नस् तच्चित्तावेशनं विना ।
यथा न किञ्चित् तच्चित्तावेशनात् त्व् अनुभूयते ॥

6.244.50

तथा न किञ्चित् एवेदं चित्तावेशेन वेद्यते ।
आदर्शबिम्बिताकारं दृष्टम् अप्य् अन्यथा त्व् असत् ॥

6.244.51

आधिभौतिकभावेन नेत्रेण यदि लक्ष्यते ।
तत् तन् न दृश्यते किञ्चिद् गिरिर् एवोपदृश्यते ॥

6.244.52

आतिवाहिकदेहेन परबोधदृशा यदि ।
प्रेक्ष्यते दृश्यते सर्गḫ परमात्मैव वामलः ॥

6.244.53

सर्वत्र सर्गनिर्माणं प्रज्ञालोकेन लक्ष्यते ।
ब्रह्मात्मैवान्यथा त्व् एतन् न किञ्चिद् अपि लक्ष्यते ॥

6.244.54

यत् पश्यत्य् अवदाता धीस् सोपपत्तिविचारणा ।
न तन् नेत्रैस् त्रिभिश् शर्वो नेन्द्रो नेत्रशतैर् अपि ॥

6.244.55

यथा खम् आवृतं सर्गैस् तथा भूर् इति बुद्धवान् ।
तदाहम् अभवं ध्याता धराधारणया युतः ॥

6.244.56

तया धराधारणया धरारूपधरो ऽभवम् ।
अत्यजन्न् एव चिद्व्योमवपुस् सम्राड् इवाचिरात् ॥

6.244.57

धराधारणयाश्व् एव धराधातूदरं गतः ।
द्वीपाद्रितृणवृक्षादि देहे ऽहम् अनुभूतवान् ॥

6.244.58

सम्पन्नो ऽस्म्य् अथ भूपीठं नानावनतनूरुहम् ।
नानारत्नावलीव्याप्तं नानानगरभूषणम् ॥

6.244.59

ग्रामगह्वरपर्वाढ्यं पातालसुषिरोदरम् ।
कुलाचलभुजाश्लिष्टद्वीपाब्धिवलयान्वितम् ॥

6.244.60

तृणौघतनुरोमाढ्यं गिरिषण्डकगुल्फकम् ।
दिग्वारणकटव्यूढं धृतं शेषशिरश्शतैः ॥

6.244.61

ह्रियमाणं महीपालैश् शोभमानं तथर्तुभिः ।
प्राणिभिर् भुज्यमानाङ्गं वर्धमानं व्यवस्थया ॥

6.244.62

हिमवद्विन्ध्यसुस्कन्धं सुमेरूदारकन्धरम् ।
गङ्गादिसरिदापूरमुक्ताहाररणत्तनु ॥

6.244.63

गुहागहनकच्छादि सागरादर्शमण्डलम् ।
मरूषरस्थलश्वैत्र्यम् अम्बराम्बरसुन्दरम् ॥

6.244.64

भूतपूरैḫ परापूर्णं परिधूतं महार्णवैः ।
अलङ्कृतं पुष्पवनैस् समालब्धं रजोगणैः ॥

6.244.65

नित्यं कृषीवलैẖ कृष्टं वीजितं शिशिरानिलैः ।
तापितं तपनैस् तप्तैर् उक्षितं प्रावृडम्बुभिः ॥

6.244.66

विपुलाग्रस्थलोरस्कं पद्माकरशतेक्षणम् ।
सितासितघनोष्णीषं दशाशोदरमन्दिरम् ॥

6.244.67

लोकालोकमहाखातवलयोग्रास्यभीषणम् ।
अनन्तभूतसङ्घातपरिस्पन्दैकचेतनम् ॥

6.244.68

व्याप्तम् अन्तर् बहिश् चैव नानाभूतगणैḫ पृथक् ।
देवदानवगन्धर्वैर् बहिर् अन्तस् तु कीटकैः ॥

6.244.69

पातालेन्द्रियरन्ध्रेषु नागासुरक्रिमिव्रजैः ।
सप्तस्व् अर्णवकोशेषु नानाजातिजलेचरैः ॥

6.244.70

व्याप्तं नदीवनसमुद्रदिगन्तशैलद्वीपाब्दजन्तुविजयस्थलजङ्गलौघैः ।
नानावनावलितमण्डलकोट्टषण्डवल्लीसरस्सरिदरातिरणाब्जषण्डैः ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc