भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.243

6.243.1

शृणु राम कथं तत्र महाकाशे तथास्थितः ।
देहभ्रान्तिं तु तां त्यक्त्वा स रुद्रो ऽप्य् उपशाम्यति ॥

6.243.2

स रुद्रस् तौ जगत्खण्डौ तदा चित्र इवार्पिताः ।
निस्स्पन्दा एव तत्रासन् प्रेक्षमाणे स्थिते मयि ॥

6.243.3

ततो मुहूर्तमात्रेण स रुद्रस् तौ नभोऽन्तरे ।
खण्डौ विलोकयाम् आस दृशार्केणेव रोदसी ॥

6.243.4

ततो निमेषमात्रेण घोणाश्वासेन खण्डकौ ।
तौ समानीय चिक्षेप पातालान्तर् इवानने ॥

6.243.5

अतिष्ठद् एक एवासाव् अथ खे खम् इवाखिले ।
भुक्तब्रह्माण्डखण्डोग्रचण्डमण्डकमण्डलः ॥

6.243.6

ततो मुहूर्तमात्रेण लघुस् सो ऽभ्रम् इवाभवत् ।
ततो ऽभवद् द्रुमसमस् ततस् स्तम्भनिभो ऽभवत् ॥

6.243.7

ततो ऽभवद् यष्टिसमस् ततḫ प्रादेशमात्रकः ।
ततẖ काचकणाकारो मया दृष्टस् स तादृशः ॥

6.243.8

ततस् सो ऽणुर् भवन् दृष्टो मया खाद् दिव्यदृष्टिना ।
परमाणुर् अथो भूत्वा तत्रैवान्तर्धिम् आययौ ॥

6.243.9

इत्य् असौ शमम् आयातश् शारदाम्बुदखण्डवत् ।
तादृशो ऽपि महारम्भḫ पुरḫ पश्यत एव मे ॥

6.243.10

इति सावरणे तेन ते ब्रह्माण्डकवाटके ।
विनिगीर्णे क्षुधार्तेन हरिणेनेव पर्णके ॥

6.243.11

अथाभून् निर्मलं व्योम शान्तं ब्रह्मैव केवलम् ।
अनादिमध्यपर्यन्तसंविदाकाशमात्रकम् ॥

6.243.12

इत्य् अहं दृष्टवांस् तत्र कल्पान्तम् उरुविभ्रमम् ।
दर्पणप्रतिबिम्बाभं शिलाशकलकोटरे ॥

6.243.13

अथ ताम् अङ्गनां स्मृत्वा तां शिलां तं च विभ्रमम् ।
राजद्वारगतो ग्राम्य इवाहं विस्मयं गतः ॥

6.243.14

ताम् आलोकितवान् भूयẖ कलधौतशिलाम् अहम् ।
यावत् सर्वत्र सन्त्य् अत्र सर्गाẖ काल्या इवाङ्गके ॥

6.243.15

बुद्धिनेत्रेण दृश्यन्ते दिव्याक्ष्णा वा न ते ऽन्यथा ।
सर्वत्र सर्वदा सर्वं यद् अस्त्य् एव तथा तदा ॥

6.243.16

दूरतḫ प्रेक्ष्यते मांसदृशा यदि च सा शिला ।
दृश्यते तच् छिलैवैका न तु सर्गादि किञ्चन ॥

6.243.17

सावस्थिता शिलैवैकरूपा निबिडमण्डला ।
कलधौतमयी स्फारा सन्ध्याजलदसुन्दरी ॥

6.243.18

ततो ऽहं विस्मयाविष्टḫ प्रविचारितवान् पुनः ।
शिलायाम् अपरं भागं तथैव परया दृशा ॥

6.243.19

यावत् तम् अपि पश्यामि जगदारम्भमन्थरम् ।
तथैव सुषिराकारम् इव नानार्थसुन्दरम् ॥

6.243.20

पुनर् अन्यं तथैवाहं प्रदेशं परिदृष्टवान् ।
सर्गसंरम्भवलितं तावन्तम् अपि तादृशम् ॥

6.243.21

यं यं प्रदेशं पश्यामि शिलायास् तत्र तत्र वै ।
जगत् पश्याम्य् अविकलम् आदर्श इव बिम्बितम् ॥

6.243.22

प्रविश्यामि जगच् चेत् तत् पश्यामीदम् इवाखिलम् ।
दृश्यं न चेद् बहिस्स्थस् तत् पश्याम्य् आदर्शबिम्बितम् ॥

6.243.23

मयातिकौतुकेनाथ सर्वास् तस्य गिरेश् शिलाः ।
अन्विष्टा भूमिभागाश् च तृणगुल्मादयस् तथा ॥

6.243.24

यावत् सर्वत्र तत् तादृग् जगद् अस्ति यथास्थितम् ।
बुद्ध्यैव दृश्यते नाक्ष्णा परया विविधाकृति ॥

6.243.25

क्वचित् प्रथमसर्गात्मजायमानप्रजापति ।
कल्प्यमानर्क्षचन्द्रार्कदिनरात्र्यर्तुवत्सरम् ॥

6.243.26

क्वचित् क्वचिन् महीपीठसम्पन्नजनमण्डलम् ।
क्वचित् किञ्चिद् अखातोग्रचतुस्सागरखातकम् ॥

6.243.27

क्वचित् किञ्चिद् असञ्जातसुरं सञ्जातदानवम् ।
क्वचित् किञ्चित् कृतयुगाचारसज्जनभूतकम् ॥

6.243.28

क्वचित् किञ्चित् कलियुगाचारदुर्जनभूतकम् ।
क्वचित् किञ्चित् कल्पकालमध्यसंस्थितिसुस्थितम् ॥

6.243.29

क्वचित् किञ्चित् पुरव्यूहदैत्यसङ्गरदुस्तरम् ।
क्वचित् किञ्चिन् महाशैलजालनिर्विवरावनि ॥

6.243.30

क्वचित् किञ्चिद् असम्पन्नसर्गम् एकाम्बुजोद्भवम् ।
क्वचित् किञ्चिज् जरामृत्युमुक्तभूतलमानवम् ॥

6.243.31

क्वचित् किञ्चिद् असञ्जातचन्द्रशून्यशिरश्शिवम् ।
अनिर्मथितदुग्धाब्धिमृत्युमत्सुरपूरितम् ॥

6.243.32

असञ्जातामृताश्वेभवैद्यागकमलाविषम् ।
शुक्रामरमहाविद्यानाशनोत्कसुरव्रजम् ॥

6.243.33

क्वचित् किञ्चिच् च गर्भाङ्गकर्तनोत्कसुरेश्वरम् ।
अपरिम्लानधर्मत्वात् स्वप्रकाशाखिलप्रजम् ॥

6.243.34

क्वचित् किञ्चिच् च पूर्वान्यसन्निवेशक्रमस्थिति ।
अपूर्ववेदशास्त्रार्थसमाचारविचारणम् ॥

6.243.35

क्वचित् किञ्चन कल्पान्तसङ्क्षोभाशिवसंस्थिति ।
क्वचित् किञ्चिच् च दैत्यौघविलुण्ठितसुरालयम् ॥

6.243.36

क्वचित् किञ्चित् सुरोद्यानगायद्गन्धर्वकिन्नरम् ।
क्वचित् किञ्चित् समारब्धगीर्वाणासुरसौहृदम् ॥

6.243.37

भूतभव्यभविष्यत्स्थजगदाडम्बरं मया ।
तदानुभूतं वपुषि महाविश्वगणात्मनि ॥

6.243.38

एकत्र कल्पविक्षुब्धपुष्करावर्तमन्थरम् ।
एकत्र सोम्यसकलभूतसन्ततिसुस्थितम् ॥

6.243.39

एकत्र समरक्षुब्धसुरासुरनरेश्वरम् ।
एकत्रासम्भवद्भानुनित्याभिन्नतमोघनम् ॥

6.243.40

एकत्रासम्भवद्ध्वान्तं कान्तज्वालोदरोपमम् ।
एकत्र नलिनीनालनिलीनमधुकैटभम् ॥

6.243.41

एकत्र पद्ममञ्जूषासुप्तबालनवाब्जजम् ।
एकत्रैकार्णवोदग्रवृक्षविश्रान्तमाधवम् ॥

6.243.42

एकत्र कल्परजनीनिश्शून्यतिमिराकुलम् ।
शिलाजठरनिस्स्पन्दं व्योमेव वितताकृति ॥

6.243.43

सुषुप्तजठराकारम् अप्रज्ञातम् अलक्षणम् ।
अप्रतर्क्यम् अविज्ञेयं सुषुप्तम् इव सर्वतः ॥

6.243.44

एकत्र पक्षविक्षुब्धशैलकाकाकुलाम्बरम् ।
एकत्र वज्रनिष्पेषद्रवद्भूधरभासुरम् ॥

6.243.45

एकत्रोद्वृत्तमत्ताब्धिह्रियमाणधराचलम् ।
एकत्र सुरवृत्रान्धबडिसङ्गरसङ्कुलम् ॥

6.243.46

एकत्र मत्तपातालगजकम्पिवसुन्धरम् ।
एकत्र शेषशिरसẖ कल्पान्तलुठितावनि ॥

6.243.47

क्वचिद् अन्येन रामेण हतरावणराक्षसम् ।
रक्षसा रावणेनैव क्वचिन् निहतराघवम् ॥

6.243.48

भूस्थपादेन देवाद्रिशिरस्स्थशिरसा परम् ।
पश्यता पारम् आक्रान्तं क्वचिद् वै कालनेमिना ॥

6.243.49

क्वचिच् चापसुरैर् नित्यं दानवैर् एव पालितम् ।
क्वचिच् चामृष्टदनुजैर् अमरैर् एव पालितम् ॥

6.243.50

जिष्णुयुक्तेन गुप्तेन विष्णुपाण्डवकौरवैः ।
क्वचिद् भारतयूथेन निहताक्षौहिणीगणम् ॥

6.243.51

क्वचिच् च दाशरथिना त्वयैव हतरावणम् ।
रामेण रणमत्तेन निश्शेषीकृतराक्षसम् ॥

6.243.52

किम् अहं भगवन् पूर्वम् अभवं कथयेति मे ।
अभवं चेद् अनेनैव सन्निवेशेन तत् कथम् ॥

6.243.53

सर्व एव विवर्तन्ते राम भावाḫ पुनḫ पुनः ।
पूयमाना यथा माषाẖ क्रमेणान्येन तेन च ॥

6.243.54

सर्वक्रमसमाẖ केचित् त एवान्ये ऽथ वा मिथः ।
स्फुरन्त्य् अर्धसमा भावाẖ केचिद् अब्धितरङ्गवत् ॥

6.243.55

पुनस् त्वं पुनर् एवाहं पुनḫ पुनर् इमे जनाः ।
न कदाचन नैवान्ये सम्भवत्य् अखिलं परे ॥

6.243.56

त एवान्ये ऽथ वाम्भोधौ तरङ्गा इति निर्णयः ।
यद्वन् न जायते तद्वद् भूतानां भ्रमतां भवे ॥

6.243.57

आयान्ति यान्त्य् अनन्तानि भूतानीह भवभ्रमैः ।
तान्य् एवान्यानि चान्यानि समानि विषमाणि च ॥

6.243.58

आवृत्तिमन्ति तान्य् एव तथैवान्यानि चाभितः ।
विद्धि शीकरजालानि भूतानि जगदम्बुधेः ॥

6.243.59

वित्तबन्धुवयẖकर्मविद्याविज्ञानचेष्टितैः ।
तैर् एव केचिज् जायन्ते भूयो भूयश् शरीरिणः ॥

6.243.60

अर्धैस् तैस् सदृशाẖ केचित् केचित् पादेन तैस् समाः ।
तज्जीवास् तैर् विसदृशा भवन्त्य् अन्ये शरीरिणः ॥

6.243.61

सर्वैर् एभिस् समाẖ केचित् कालेनैव विलक्षणाः ।
कालेन सदृशाẖ केचित् तैर् एव च विलक्षणाः ॥

6.243.62

कालेनाकुलचेष्टितान्य् अध इतो गच्छन्त्य् अथोर्ध्वं पुनर् देहालेखनखेदितान्य् अगणितान्य् अन्यानि चान्ये न च ।
भूताम्बूनि वहन्ति संसृतिमये यान्य् अम्बुधौ चञ्चले चक्रावृत्तिमयानि सङ्कलयितुं शक्नोति कस् तान्य् अलम् ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc