भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.242

6.242.1

इति नृत्यति सा देवी दीर्घैर् दोर्दण्डमण्डलैः ।
परिस्पन्दात्मकैर् व्योम कुर्वाणा घनकाननम् ॥

6.242.2

क्रियासौ नृत्यति तथा चितिशक्तिर् अनामया ।
अस्या विभूषणं शूर्पकुणालपटलादिकम् ॥

6.242.3

शरशक्तिगदाप्रासमुसुलासिशिलादि च ।
भावाभावपदार्थौघकलाकालक्रमादि च ॥

6.242.4

चित्स्पन्दो ऽन्तर् जगद् धत्ते कल्पनेव पुरं हृदि ।
सैव वा जगद् इत्य् एव कल्पनैव यथा पुरं ॥

6.242.5

पवनस्य यथा स्पन्दस् तथैवेच्छा शिवस्य सा ।
यथास्पन्दो ऽनिलश् शान्तḫ प्रशान्तेच्छस् तथा शिवः ॥

6.242.6

अमूर्तो मूर्तम् आकाशे शब्दाडम्बरम् आनिलः ।
यथा स्पन्दस् तनोत्य् एवं शिवेच्छा कुरुते जगत् ॥

6.242.7

नृत्यन्त्याथ यदा तत्र तया तस्मिन् पराम्बरे ।
काकतालीययोगेन संरम्भवशतस् स्वयम् ॥

6.242.8

निकटस्थश् शिवस् स्पृष्टस् स मनाङ्मात्रम् अन्तिकात् ।
वाडवो ऽग्निस् स्वनाशाय वहन्त्येवाम्बुलेखया ॥

6.242.9

स्पृष्टमात्रे शिवे तस्मिंस् ततḫ परमकारणे ।
प्रवृत्ता प्रकृतिर् गन्तुं सा शनैस् तनुतां तदा ॥

6.242.10

अनन्ताकारतां त्यक्त्वा सम्पन्ना गिरिमात्रिका ।
ततो नगरमात्रासौ ततश् च द्रुमसुन्दरी ॥

6.242.11

ततो व्योमसमाकारा शिवस्यैवाकृतिं ततः ।
सा प्रविष्टा सरिच् छान्तसंरम्भेव महार्णवम् ॥

6.242.12

एक एवाभवद् अथो शिवया परिवर्जितः ।
शिव एव शिवे शान्ते आकाशे शमशोभितः ॥

6.242.13

भगवञ् शिवसंस्पृष्टा सा शिवा परमेश्वरी ।
किमर्थम् आगता शान्तिम् इति मे ब्रूहि तत्त्वतः ॥

6.242.14

सा राम प्रकृतिḫ प्रोक्ता शिवेच्छा परमेश्वरी ।
जगन्मायेति विख्याता स्पन्दशक्तिर् अकृत्रिमा ॥

6.242.15

स परḫ प्रकृतेḫ प्रोक्तḫ पुरुषḫ पावनाकृतिः ।
शिवरूपधरश् शान्तḫ परमाकाशशक्तिमान् ॥

6.242.16

भ्रमति प्रकृतिस् तावत् संसारे भ्रमरूपिणी ।
स्पन्दमात्रात्मिका सेच्छा चिच्छक्तिḫ परमेश्वरी ॥

6.242.17

यावन् न पश्यति शिवं नित्यतृप्तम् अनामयम् ।
अजडं पदम् आद्यन्तवर्जितं तर्जितद्वयम् ॥

6.242.18

संविन्मात्रैकधर्मत्वात् काकतालीययोगतः ।
संविद्देवी शिवं स्पृष्ट्वा तन्मय्य् एव भवत्य् अलम् ॥

6.242.19

प्रकृतिḫ पुरुषं स्पृष्ट्वा प्रकृतित्वं समुज्झति ।
तदन्तर् एकतां गत्वा नदी रूपम् इवार्णवे ॥

6.242.20

आपगा हि पयोमात्रा सङ्गतार्णव एव सा ।
यदा तदा तम् एवाशु प्राप्य तत्रैव लीयते ॥

6.242.21

चितिश् शिवेच्छा सा देवं तम् एवासाद्य शाम्यति ।
जन्मस्थानं शिलां प्राप्य तीक्ष्णा धारा यथायसी ॥

6.242.22

पुंसश् छाया निजा छायां प्रविष्टस्य शरीरकम् ।
यथाशु प्रविशत्य् एव प्रकृतिḫ पुरुषं तथा ॥

6.242.23

चेतित्वा चिन् निजं भावं पुरुषाख्यं सनातनम् ।
भूयो भ्रमति संसारे नेह तत्तां प्रयाति हि ॥

6.242.24

साधुर् वसति चौरौघे तावद् यावद् असौ न तम् ।
परिजानाति विज्ञाय न तत्र रमते पुनः ॥

6.242.25

द्वैते तावद् असद्रूपे रमते ऽनुमते चितिः ।
परं पश्यति नो यावत् तं दृष्ट्वा तन्मयी भवेत् ॥

6.242.26

चिति निर्वाणरूपं तत् प्रकृतिḫ परमं पदम् ।
प्राप्य तत्ताम् अवाप्नोति सरिद् अब्धाव् इवाब्धिताम् ॥

6.242.27

तावद् विमोहवशतश् चितिर् आकुलेषु सर्गेषु संसरति जन्मदशाश्रितेषु ।
यावन् न पश्यति परं तम् अथाशु दृष्ट्वा तत्रैव मज्जति घनं मधुनीव भृङ्गी ॥

6.242.28

सम्प्राप्य कस् त्यजति नाम तद् आत्मतत्त्वं प्राप्यानुभूय च जहाति रसायनं कः ।
शाम्यन्ति येन सकलानि निरन्तराणि दुẖखानि जन्ममृतिमोहमयानि राम ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc