मोक्षोपाय · अध्याय 6.241
अनन्तरं मुने ब्रूहि काली किम् इव नृत्यति ।
किं शूर्पहलकुद्दालमुसुलादिस्रजां धृतिः ॥
स भैरवश् चिदाकाशश् शिव इत्य् अभिधीयते ।
अनन्यां तस्य तां विद्धि स्पन्दशक्तिम् अनामयाम् ॥
यथैकं पवनस्पन्दाव् एकम् औष्ण्यानलौ यथा ।
चिन्मात्रं स्पन्दशक्तिश् च तथैवैकात्म सर्वदा ॥
स्पन्देन लक्ष्यते वायुर् वह्निर् औष्ण्येन लक्ष्यते ।
तत् स्पन्दमय्या शक्त्यैवं लक्ष्यते नान्यथा किल ॥
शिवं ब्रह्म विदुश् शान्तम् अवाच्यं वाग्विदाम् अपि ।
स्पन्दशक्तिस् तदिच्छेदं दृश्याभासं तनोति सा ॥
साकारस्य नरस्येच्छा यथा वा कल्पनापुरम् ।
करोत्य् एवं शिवस्येच्छा करोतीदम् अनाकृतेः ॥
सैषा चितिर् इति प्रोक्ता चेत्योन्मुखतयोदिता ।
सैषोक्ता वासनानाम्नी वासनाद् दृश्यसंविदः ॥
सैषा जीवकला प्रोक्ता जीवनाज् जीवनैषणा ।
प्रकृतित्वेन सर्गस्य स्वयं प्रकृतितां गता ॥
दृश्याभासानुभूतीनां करणात् प्रोच्यते क्रिया ।
वाडवाग्निशिखाकारा शोषाच् छुष्केति कथ्यते ॥
चण्डित्वाच् चण्डिका प्रोक्ता सोत्पलोत्पलवर्णतः ।
जया जयैकनिष्ठत्वात् सिद्धा सिद्धिसमाश्रयात् ॥
जयन्ती च जयात् प्रोक्ता विजया विजयाश्रयात् ।
प्रोक्तापराजिता वीर्याद् दुर्गा दुर्ग्रहरूपतः ॥
ओङ्कारसारशक्तित्वाद् सारेति परिकीर्तिता ।
गायत्री गायनात्मत्वात् सावित्री प्रसवस्थितेः ॥
सरणात् सर्वदृष्टीनां कथितैषा सरस्वती ।
गौरी गौराङ्गदेहत्वाद् भवदेहानुषङ्गिणी ॥
सुप्तानाम् अथ बुद्धानाम् अम्मात्रोच्चारणाद् धृदि ।
नित्यं त्रैलोक्यभूतानाम् अमेतीन्दुकलोच्यते ॥
शिवयोर् व्योमरूपत्वाद् असितं लक्ष्यते वपुः ।
नभो हि मांसम् एताभ्यां दृष्टिकृष्टं विलोक्यते ॥
आस्ते नभो नभस्य् एव तेन तौ नभसि स्थितौ ।
नभोनिभाव् अभूताङ्गाव् अच्छौ व्योम्न इवाग्रजौ ॥
हस्तपादांसमूर्ध्नां यद् बहुत्वाल्पत्वभेदतः ।
नानात्वं हलशूर्पादिस्रग्धरत्वं च तच् छृणु ॥
सा हि क्रिया भगवती परिस्पन्दैकरूपिणी ।
दद्यात् स्नायाच् च जुहुयाद् इत्याद्युग्रशरीरिणी ॥
चितिशक्तिर् अनाद्यन्ता तथाभातात्मनात्मनि ।
साकाशरूपिणी शान्ता दृश्यश्रीस् स्पन्दरूपिणी ॥
देव्यास् तस्या हि याẖ काल्या नानाभिनयवर्तनाः ।
ता इमा ब्रह्मणस् सर्गजरामरणरीतयः ॥
क्रियासौ ग्रामनगरद्वीपमण्डलमालिकाः ।
स्पन्दात् करोति धत्ते ऽन्तẖ कल्पितावयवात्मिकाः ॥
काली कमलिनी काली क्रिया ब्रह्माण्डकालिका ।
धत्ते स्वावयवीभूतां दृश्यलक्ष्मीम् इमां हृदि ॥
न कदाचन चिद्देवी निर्दृश्यावयवा क्वचित् ।
शिवत्वव्यतिरेकेण शिवतैव विदृश्यता ॥
यथाङ्गं शून्यता व्योम्नस् स्पन्दनं मातरिश्वनः ।
ज्योत्स्नायाश् शैत्यम् अङ्गं हि दृश्यम् एवं चितेẖ क्रिया ॥
शिवं शान्तम् अनायासम् अवाच्यं विद्धि निर्मलम् ।
न मनाग् अपि तत्रास्ति स्तैमित्यात् स्पन्दधर्मता ॥
सा क्रियैव तथारूपा सती बोधवशाद् यदा ।
व्यावृत्त्यैव तथैवास्ते शिव इत्य् उच्यते तदा ॥
चितिशक्तेẖ क्रियादेव्याḫ प्रतिष्ठानं यदात्मनि ।
तथाभूतस्थितेर् एव तदैव शिव उच्यते ॥
देव्याẖ क्रियायाश् चिच्छक्तेẖ खरूपिण्या महाकृतेः ।
कल्पिताकारधारिण्या अनन्यावयवा इमे ॥
सर्गास् सजनतावर्गा लोका आलोकभासुराः ।
सद्वीपसागराḫ पृथ्व्यस् सवनावनयो ऽद्रयः ॥
साङ्गोपाङ्गास् त्रयो वेदास् सविद्यास्थानगीतयः ।
सविधिप्रतिषेधार्थास् सशुभाशुभकल्पनाः ॥
सदक्षिणाग्नयो यज्ञाḫ पुरोडाशाज्यशंसिनः ।
कुणालोलूखलबृसीशूर्पयूपादिसंयुताः ॥
सङ्ग्रामास् सायुधग्रामास् सशूलशरशक्तयः ।
सभुसुण्डिगदाप्रासहयेभभटभासुराः ॥
जातयो भूतसङ्घानां चतुर्दश सुरादिकाः ।
चतुर्दशाब्धिद्वीपोर्व्यस् तथा लोकाश् चतुर्दश ॥
चितेẖ कालीशरीरिण्यास् सर्गा ये ऽङ्गे स्थितास् तथा ।
ते किम् आत्मनि सत्यास् स्युर् उतासत्या वदेति मे ॥
रामासौ किल चिच्छक्तिस् तया यच् चोदितं तथा ।
तत् प्रचेतितम् एवान्तस् सत्यं चेदम् इवाखिलम् ॥
न तत् प्रबिम्बितं बाह्यान् मकुरप्रतिबिम्बवत् ।
सत्यं तद् अन्तर् एवास्ति चितेर् नासत्यम् अर्थतः ॥
चिद्रूपस्य तथाप्य् अन्तस् सत् सङ्कल्पपुरं भवेत् ।
दृढध्यानाद् विशुद्धायाश् चितेर् भवतु मा कथम् ॥
आदर्शे ऽस्त्व् अथ वा स्वप्ने सर्गस् सङ्कल्पने ऽस्तु वा ।
स आत्मन्य् अर्थकारित्वात् सत्य इत्य् एव मे मतिः ॥
मम नार्थाय स इति वक्षि चेत् तत् कथं न ते ।
देशान्तरगतास् सर्वे भवन्त्य् अर्थाय सम्प्रति ॥
यथा देशान्तरग्रामस् तद्गतस्यार्थकृद् भवेत् ।
सर्वे तथैते तद्भावं गतस्यार्थाय निश्चयात् ॥
यद् यथाभूतसर्वार्थक्रियाकारि प्रदृश्यते ।
तत् सत्यम् आत्मनो ऽन्यस्य नैव तत्ताम् उपेयुषः ॥
तस्माच् चिच्छक्तिकोशस्थास् सर्वास् सर्गपरम्पराः ।
सत्या आत्मनि तद्भावं गतस्यान्यस्य नाखिलाः ॥
भूतभव्यभविष्यत्स्थास् सङ्कल्पस्वप्नपूर्गणाः ।
सर्वे सत्याḫ परं तत्त्वं सर्वात्म कथम् अन्यथा ॥
चालितस्य यथा गाढनिद्रस्य स्वप्नपत्तनम् ।
न लुठत्य् एव लुठितम् इत्य् अप्य् अनुमितं स्फुटम् ॥
तथा चलन्त्या लुठितं तस्या देहगतं जगत् ।
न लुठत्य् एव मकुरप्रतिबिम्बम् इव स्थितं ॥
स त्रैलोक्यमहारम्भस् सत्यो ऽपि भ्रान्तिमात्रकम् ।
भ्रान्तिमात्रस्य के नाम लुठनालुठने वद ॥
कदा स्वप्नपुरं सत्यं कदा स्वप्नपुरं मुधा ।
कदा स्वप्नपुरं भग्नं कदा स्वप्नपुरं स्थितं ॥
भ्रान्तिर् न केवलं सैव दृश्यश्रीर् यावद् अग्रगाम् ।
त्वं विद्धीमाम् अपि भ्रान्तिं जगल्लक्ष्मीम् अवास्तवीम् ॥
सङ्कल्पने मनोराज्ये स्वप्ने सङ्कथने भ्रमे ।
यथा पुरानुभवनं त्रैलोक्यानुभवस् तथा ॥
अहम् इति जगद् इति स्वान्तर् भ्रान्तिर् इयं प्रकचतीव चितेः ।
परमाकाशकृशाङ्ग्याश् शाम्यति निपुणं परिज्ञाता ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0