मोक्षोपाय · अध्याय 6.240
चिन्मात्रपरमाकाश एष यẖ कथितो मया ।
एषो ऽसौ शिव इत्य् उक्तस् तदा रुद्रḫ प्रनृत्यति ॥
यासौ तस्याकृतिर् नासाव् आकृतिẖ कृतिनां वर ।
तच् चिन्मात्रघनं व्योम तथा कचति तादृशम् ॥
मया दृष्टं तद् आकाशम् एव शान्तं तदाकृति ।
मयैव तत् परिज्ञातं नान्यḫ पश्यति तत् तथा ॥
यथा नाम स कल्पान्तस् स रुद्रस् सा च भैरवी ।
मायामात्रं तथा सर्वं परिज्ञातम् अलं मया ॥
चिद्व्योमैव परं शून्यं सन्निवेशेन नेतरत् ।
तथा संलक्ष्यते राम भैरवाकारतां गतम् ॥
वाच्यवाचकसम्बन्धं विना बोधो न जायते ।
यस्मात् तस्मात् त्वयि मया दृष्टम् एवं प्रवर्णितम् ॥
यद् एव वाच्य् उपारूढम् एतद् राम तद् एव ते ।
रूढाधिभौतिकदृशẖ क्षणात् सत्यात्मतां गतम् ॥
न भैरवी सा नैवासौ भैरवो नैव स क्षयः ।
समस्तम् एव तद् भ्रान्तिमात्रं चिद्व्योम भासते ॥
स्वप्ननिर्माणपुरवत् सङ्कल्परणवेगवत् ।
कथार्थसार्थरसवन् मनोराज्यविलासवत् ॥
यथा स्वप्नपुरं स्वच्छे व्योम्नि मौक्तिकधीर् यथा ।
यथा केशोण्डुकं व्योम्नि तथा चिद् भाति चिद्घने ॥
चिन्मात्राकाशम् एवाच्छं कचति स्वात्मनात्मनि ।
यथा नाम तथाभाति तदात्मैव जगत्तया ॥
यथा चिद्व्योम्नि कचति स्व एवात्मा जगत्तया ।
तथा कचति तत् तत्र कल्पान्तशिवनर्तनम् ॥
शिवयोर् एवम् आकारो निराकारो ऽङ्ग वर्णितः ।
अधुना शृणु वक्ष्ये ते नृत्तस्यानृत्ततास्थितिम् ॥
चेतनं चेतनाद् धेतोẖ किञ्चित् संस्पन्दनं विना ।
क्वचित् स्थातुं न शक्नोति वस्त्व् अवस्तुतया यथा ॥
स्वभावाच् चेतनं तस्माद् रुद्रत्वेन तथा स्थितम् ।
हेमेव रूपकत्वेन सन्निवेशविलासिना ॥
यन् नाम चेतनं यत्र तद् अवश्यं स्वभावतः ।
स्पन्दधर्मि भवत्य् एव वस्तुता हि स्वभावजा ॥
यस् स्पन्दश् चिद्घनस्य स्वश् शिवस्यास्य स एव नः ।
स्ववासनावेशवशान् नृत्तम् इत्य् एव राजते ॥
अतस् स कल्पान्तशिवो रुद्रो रौद्राकृतिर् द्रुतम् ।
यन् नृत्यति हि तद् विद्धि चिद्घनस्पन्दनं निजम् ॥
प्रामाणिकदृशा दृश्यम् इदं नास्त्य् एव वस्तुतः ।
यदि वास्त्य् एव तत् सर्वं कल्पान्ते प्रविनश्यति ॥
तत् कल्पान्तमहाशून्ये एतस्मिन् परमाम्बरे ।
कथं किं नाम वा चेत्यं चेत्ता चेतति चिद्घनः ॥
एतद् एव तदाप्य् अङ्ग द्वैतैक्याम्भोदशान्तये ।
यदि चिन्मात्रनभसश् चेत्यम् अस्ति न किञ्चन ॥
न किञ्चिच् चेतति ततẖ क्वचित् कश्चित् कदाचन ।
सर्वं शान्तं दृषन्मौनं विज्ञानघनम् अम्बरम् ॥
यच् चेदं चेत्यते नाम तत् स्वभावो ऽस्य वल्गति ।
चित्स्वभावस्य शान्तस्य स्वसत्तायाम् अवस्थितेः ॥
यथा स्वप्ने चिद् एवान्तḫ पुरपत्तनवद् भवेत् ।
पुरादि न तु तत् किञ्चिद् विज्ञानाकाशम् एव तत् ॥
आत्मनात्मनि चिच् छून्यं ज्ञातारं ज्ञेयम् अप्य् अलम् ।
तथादिसर्गाद् आरभ्य वेत्ति स्वं कचनं च तत् ॥
स्वयम् अन्तẖ कचत्कान्तिश् चिदाकाशस् स्वभावखे ।
अयं सो ऽहम् अयं च त्वं करोतीत्य् आदिकल्पनम् ॥
तस्मान् न द्वैतम् अस्तीह न चैक्यं न च शून्यता ।
न चेत्ता चेतनं चैव मौनम् एव न तच् च वा ॥
न चेतति क्वचित् किञ्चित् कश्चिच् चेत्याद्यभावतः ।
तेन चेत्तापि नास्त्य् एव मौनम् एवेति शिष्यते ॥
निर्विकल्पसमाधिर् हि सिद्धान्तस् सर्ववाङ्मये ।
तच् च जीवद्दृषन्मौनं तूष्णीम् एवात आस्यताम् ॥
कुर्वन् निजं प्रकृतम् एव यथाप्रवाहम् आचारजालम् अचलḫ परमार्थमौनात् ।
निर्मानमोहमदभेदम् अनङ्गजीवम् आकाशकोशविशदाशय शान्तम् आस्स्व ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0