मोक्षोपाय · अध्याय 6.239
किम् एतद् भगवन् सर्वनाशे नृत्यति केव सा ।
किं शूर्पहलकुम्भाद्यैस् तस्यास् स्रग्दामधारणम् ॥
किं नष्टं त्रिजगद् भूयẖ किं काल्या देहसंस्थितम् ।
परिनृत्यति निर्वाणं कथं पुनर् उपागतम् ॥
नासौ पुमान् न चासौ स्त्री न तन् नृत्तं न ताव् उभौ ।
तथाभूते तथाचारे आकृती न च ते तयोः ॥
अनादि चिन्मात्रनभो यत् तत् कारणकारणम् ।
अनन्तं शान्तम् आभासमात्रम् आततम् अव्ययम् ॥
शिवं तत् स शिवस् साक्षाल् लक्ष्यते भैरवाकृतिः ।
तथास्थितो जगच्छान्तौ परमाकाश एव सः ॥
चेतनत्वात् तथाभूतस् स्वभावविभवाद् ऋते ।
स्थातुं न युज्यते तस्य यथा हेम्नो निराकृतेः ॥
कथम् आस्तां वद प्राज्ञ चिन्मात्रं चेतनं विना ।
कथम् आस्तां वद प्राज्ञ मरिचं तिक्ततां विना ॥
कटकादि विना हेम कथम् आस्तां विलोक्यताम् ।
कथं स्वभावेन विना पदार्थस्य भवेत् स्थितिः ॥
विना तिष्ठति माधुर्यं कथयेक्षुरसẖ कथम् ।
निर्माधुर्यश् च यश् चेक्षुरसो न हि स तद्रसः ॥
अचेतनं यच् चिन्मात्रं न तच् चिन्मात्रम् उच्यते ।
न च चिन्मात्रनभसो नष्टं क्वचन युज्यते ॥
स्वसत्तामात्रकाद् अन्यत् किञ्चित् तस्य न युज्यते ।
अन्यत्वम् उररीकर्तुं व्योमावश्यम् असौ किल ॥
तस्मात् तस्य यद् अक्षुब्धं सत्तामात्रं स्वम् आसनम् ।
अनादिमध्यपर्यन्तं सर्वशक्तिमयात्मकम् ॥
तद् एतत् त्रिजगत् सर्गẖ कल्पान्तो व्योम भूर् दिशः ।
नाश उत्पादनं राम विरामो भासनं तमः ॥
जननं मरणं माया मोहो मान्द्यम् अवस्तुता ।
वस्तुता च विवेकश् च बन्धो मोक्षश् शुभाशुभे ॥
विद्याविद्या सदेहत्वं विदेहत्वं क्षणश् चिरम् ।
चञ्चलत्वं स्थिरत्वं च त्वं चाहं चेतरच् च तत् ॥
सद् असच् चाथ सदसन् मौर्ख्यं पाण्डित्यम् एव च ।
देशकालौ क्रियाद्रव्यकलना केलिकल्पनम् ॥
रूपालोकमनस्कारकर्मबुद्धीन्द्रियात्मकम् ।
तेजोवार्यनिलाकाशपृथ्व्यादिकम् इदं ततम् ॥
एतत् सर्वम् असौ शुद्धश् चिदाकाशो निरामयः ।
अजहद् व्योमताम् एव सर्वात्मैवैवम् आस्थितः ॥
एतत् सर्वं च विमलं खम् एवात्र न संशयः ।
अस्माद् अनन्यत् स्वप्नाद्रिर् दृष्टान्तो ऽत्राविखण्डितः ॥
चिन्मयḫ परमाकाशो य एष कथितो मया ।
एषो ऽसौ शिव इत्य् उक्तो भवत्य् एष सनातनः ॥
स एष हरिर् इत्य् आस्ते भवत्य् एष पितामहः ।
चन्द्रो ऽर्क इन्द्रो वरुणो यमो वैश्रवणो ऽनिलः ॥
अनलो जलदो ऽम्भोधिर् ह्यो ऽद्य श्वश् चास्ति नास्ति च ।
इत्य् एते चिन्मयाकाशकोशलेशास् स्फुरन्त्य् अलम् ॥
एवंविधाभिस् सञ्ज्ञाभिर् मुधाभावनयेदृशाः ।
स्वभावमात्रबोधेन भवन्त्य् एते तु तादृशाः ॥
अबोधो बोध इत्य् एवं चिद्व्योमैवात्मनि स्थितम् ।
तस्माद् भेदोद्भेदम् ऐक्यं नास्त्य् एवेति प्रशाम्यताम् ॥
तावत् तरङ्गत्वम् अयं करोति जीवस् स्वसंसारमहासमुद्रे ।
यावन् न जानाति परं स्वभावं निरामयं तन्मयताम् उपेतः ॥
ज्ञाते तु शान्तिं स तथोपयाति यथा न सो ऽब्धिर् न तरङ्गको ऽसौ ।
यथास्थितं सर्वम् इदं च शान्तं भवत्य् अनन्तं परम् एव तस्य ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0