भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.238

6.238.1

अथ राघव रुद्रं तं तदा तस्मिन् महाम्बरे ।
प्रवृत्तं नर्तितुं मत्तम् अपश्यं वितताकृतिम् ॥

6.238.2

व्योमेवाकृतिम् आपन्नम् अजहद्व्यापितां निजाम् ।
महाकारं घनश्यामं दशाशापरिपूरकम् ॥

6.238.3

अर्केन्दुवह्निनयनं चलद्दशदिगम्बरम् ।
घनदीर्घप्रभाजालम् आलानं श्यामलत्विषाम् ॥

6.238.4

वाडवाग्निदृशं लोलभुजोर्मिभरभासुरम् ।
एकार्णवार्णो द्राग् देहबन्धेनेव समुत्थितम् ॥

6.238.5

पश्याम्य् अनन्तरम् अहं यावत् तस्य शरीरतः ।
छायेव परिनिर्याति नर्तनानुविधायिनी ॥

6.238.6

सूर्येष्व् अविद्यमानेषु महातमसि मन्थरे ।
स्थिते कथम् इयं छाया भवेद् इति मतिर् मम ॥

6.238.7

यावद् विचारयाम्य् आशु तावत् तस्य तदा पुरः ।
सा स्थिता परिनृत्यन्ती विशीर्णा स्त्री त्रिलोचना ॥

6.238.8

कृष्णा कृशा सिरालाङ्गी जर्जरा विकृताकृतिः ।
ज्वालाकुलानलालोलवनसम्भारशेखरा ॥

6.238.9

भिन्नाञ्जनतमश्श्यामा यामिनीवाकृतिं गता ।
तमश्श्रीर् देहयुक्तेव साकारेवाम्बरद्युतिः ॥

6.238.10

अतिदीर्घा करालास्या नभो मातुम् इवोद्यता ।
दीर्घजानुभुजभ्रान्त्या मातुकामेव दिङ्मुखम् ॥

6.238.11

कृशा बहूपवासेव परिनिम्नमहाहनुः ।
कज्जलश्यामला मेघमालेव पवनाकुला ॥

6.238.12

कृशाशक्ता यदोत्थातुं सुदीर्घा विधिना तदा ।
ग्रथितेव सिरारूपैर् दामभिर् दैर्घ्यशालिभिः ॥

6.238.13

तथा नाम सुदीर्घा सा यथा तस्याश् शिरẖखुरम् ।
मया दृष्टं प्रयत्नेन चिरोर्ध्वाधोगमागमैः ॥

6.238.14

आर्द्रान्त्रतन्त्रीग्रथितशिरẖखुरकरोत्करा ।
अमूला सूत्रवलिता कण्टकानाम् इव स्थली ॥

6.238.15

विश्वरूपा यमार्कादिशिरẖकमलजालकैः ।
कृतमालामलालोकवान्तवह्निमयाचला ॥

6.238.16

प्रलम्बकर्णा लुलितनासा नृशिरकुण्डला ।
शुष्कतुम्बीलताष्ठीवा दीर्घलोलासितस्तनी ॥

6.238.17

कुमारबर्हिपिञ्छौघब्राह्ममूर्धजमण्डलैः ।
लाञ्छितोच्चसुराधीशशिरẖखट्वाङ्गमण्डला ॥

6.238.18

दन्तेन्दुमालाविमलोद्द्योतपीततमोऽर्णवा ।
कृष्णोच्चैर् धूमलेखेव वृत्तावर्तविवर्तिनी ॥

6.238.19

शुष्कतुम्बीलतेवोच्चैर् आकाशतरुसंश्रिता ।
विलोलावयवाष्ठीवा वातैḫ पटपटारवा ॥

6.238.20

बृहत्तरङ्गोर्ध्वभुजा श्यामलोल्लासशालिनी ।
एकार्णवोर्मिमालेव नृत्तावर्तविवर्तिनी ॥

6.238.21

क्षणम् एकभुजाकारा क्षणं बहुभुजाकुला ।
अनन्तोग्रभुजा क्षिप्रं जगन्नर्तनमण्डपा ॥

6.238.22

क्षिप्रम् एकमुखाकारा क्षिप्रं बहुमुखाकृतिः ।
अनन्तोग्रमुखी क्षिप्रं निर्मुखी वापि च क्षणम् ॥

6.238.23

एकपादान्विता क्षिप्रं क्षिप्रं पादशतान्विता ।
क्षणं चानन्तपादाढ्या निष्पादाकारिणी क्षणम् ॥

6.238.24

कालरात्रिर् इयं सेति मयानुमितदेहिका ।
काली भगवती सेयम् इति निर्णीतसञ्चरा ॥

6.238.25

ज्वालापूर्णारघट्ठोग्रखाताभनयनत्रया ।
ज्वलद्वरेन्द्रनीलाद्रिसानूपमललाटभूः ॥

6.238.26

लोकालोकेन्द्रनीलाग्रश्वभ्रभीमहनुद्वया ।
वातस्कन्धगुणप्रोततारामुक्ताकलापिनी ॥

6.238.27

इन्द्रनीलाद्रितुल्योरुतोरणोच्चे प्रभासुरे ।
विश्रान्तकाचशैलाभभगभीषणवायसा ॥

6.238.28

नृत्यद्भुजलतापुष्पैर् नखशुभ्राभ्रमण्डलैः ।
पूर्णचन्द्रशतानीव भ्रमयन्ती नभस्तले ॥

6.238.29

भ्रमद्भिर् व्याप्तदिक्चक्रा भुजैẖ कल्पाम्बुदैर् इव ।
वर्षद्भिḫ पाणिजप्रान्ततारालेखाबृहत्प्रभाः ॥

6.238.30

नखपुष्पाङ्गुलीवल्लीजालैर् भ्रान्तभुजद्रुमैः ।
कृष्णैẖ काननिताशेषगगनाग्रोग्रमूर्तिभिः ॥

6.238.31

तमालतालतन्मूलम् अवदग्धं महानलैः ।
विडम्बयन्ती चलितं जङ्घासङ्घेन चोपता ॥

6.238.32

अप्य् अनन्ते महाव्योम्नि पारं प्राप्तैश् शिरोरुहैः ।
कुर्वाणेवाततं वासवनं तिमिरदन्तिनः ॥

6.238.33

उह्यन्ते मेरवो येन तेन निश्श्वासवायुना ।
घनघुङ्घुमदिग्वक्त्रगगनोग्राङ्गघोषिणा ॥

6.238.34

घनमारुतघूत्कारैẖ क्ष्वेडागेयं प्रगायता ।
नियतानुनयेनेव वलितास्यानुवृत्तिना ॥

6.238.35

ततो नृत्तवशावेशाद् वर्धमानशरीरिणी ।
मया दृष्टावधानेन गगनाभोगपूरिणी ॥

6.238.36

यावत् तया धृता देहे हेलावलनसारवा ।
माला मलयकैलाससह्यमन्दरमेरुभिः ॥

6.238.37

आसंस् तस्या युगान्ताभ्रमालिकाḫ पट्टपट्टिकाः ।
आदर्शमण्डलान्य् अग्रे त्रीणि लोकान्तराणि च ॥

6.238.38

कर्णयोर् हिमवन्मेरू रुप्यकाञ्चनपुत्रिके ।
ब्रह्माण्डघुर्घुरैर् माला महती कटिमेखला ॥

6.238.39

स्रजẖ कुलाचलैश् शृङ्गवनपत्तनगुच्छकाः ।
तरत्पुरवरद्वीपग्रामपेलवपल्लवाः ॥

6.238.40

अस्या अङ्गेषु दृष्टानि पुराणि नगराणि च ।
ऋतवश् च त्रयो लोका मासाहोरात्रमालिकाः ॥

6.238.41

मुक्तालतादिकं नद्यẖ कालिन्दीत्रिपथादिकाः ।
धर्माधर्माव् उभौ कर्णभूषणे चान्यकर्णयोः ॥

6.238.42

स्तनास् तस्यास् तु चत्वारस् स्रवद्धर्मपयोलवाः ।
वेदास् सकलशास्त्रार्थचतुस्संस्थानचूचुकाः ॥

6.238.43

त्रिशूलैḫ पट्टिसैḫ प्रासैश् शरशक्त्यृष्टिमुद्गरैः ।
निर्यदायुधजालानि स्रग्दामानि बिभर्ति सा ॥

6.238.44

चतुर्दशविधा भूतजातयो यास् सुरादिकाः ।
तस्याश् शरीरशायिन्यस् ता लोमावलयस् स्थिताः ॥

6.238.45

तस्याश् च नगरग्रामगिरयो देहशायिनः ।
नृत्यन्त्यास् सह नृत्यन्ति पुनर्जन्ममुदेव ते ॥

6.238.46

जङ्गमात्मकम् एवैतज् जगद् अस्थावरं तदा ।
नृत्यतीति मया ज्ञातं परलोके सुखं स्थितम् ॥

6.238.47

निगीर्णं जगद् अङ्गस्थं कृत्वा तृप्तिम् उपागता ।
परिनृत्यति सा मत्ता जगज्जीर्णाहिचातकी ॥

6.238.48

आदर्शप्रतिबिम्बस्थम् इवाभात्य् अखिलं जगत् ।
तस्या वपुषि विस्तीर्णे खरूपिणि खरूपधृत् ॥

6.238.49

तज्जगन्नर्तनं चारु तद्देहादर्शसंस्थितम् ।
चिरं मया तदा दृष्टम् अविनष्टं पुरस्स्थितम् ॥

6.238.50

विवलत्तारकाजालं भ्रमत्पर्वतमण्डलम् ।
मषकव्यूहवद् वातव्याधूतामरदानवम् ॥

6.238.51

सङ्ग्रामोन्मुक्तचक्राभद्वीपार्णववृताम्बरम् ।
हेलाविवलनावर्तप्रौढशैलधरातृणम् ॥

6.238.52

नीलमेघांशुकावृत्तिवातघुङ्घुमिताम्बरम् ।
काष्ठाद्र्यस्थिपुरास्फोटपटत्पटपटारवम् ॥

6.238.53

जगत्पदार्थैर् व्यामिश्रैर् अमिश्रैर् मकुरे यथा ।
व्याप्तम् आभोगिभाङ्करैर् अङ्गै रङ्गभ्रमैस् तथा ॥

6.238.54

मेरुर् नृत्यति लोलोच्चकुलाचलबृहद्भुजः ।
भ्रमदभ्रपटाटोपो नमत्तरुतनूरुहः ॥

6.238.55

अत्यजन्तस् समुद्रास् स्वं मर्यादामुद्रणं द्रुताः ।
भूमेर् नभस्तलं यान्ति नभसो यान्ति भूतलम् ॥

6.238.56

पुराणि घर्घरारावैर् दृश्यन्ते लुठितान्य् अधः ।
सगृहाट्टालवास्तव्यं न च किञ्चिल् लुठत्य् अधः ॥

6.238.57

तस्यां भ्रमन्त्यां चतुरं चन्द्रार्का दिनरात्रयः ।
नखाग्रलेखालोकान्तर् भान्ति काञ्चनसूत्रवत् ॥

6.238.58

विभान्ति वृष्टयस् तस्या घर्मार्तिजलजालिकाः ।
इव नीहारहारिण्यो लीलावारिदवाससः ॥

6.238.59

खम् एव तस्यास् सम्पन्नं कवरीमण्डलं बृहत् ।
पातालं चरणा भूमिर् उदरं बाहवो दिशः ॥

6.238.60

द्वीपाब्धयो ऽन्त्रावलयḫ पार्शुकास् सर्वपर्वताः ।
प्राणापानावलीदोलाḫ पवनस्कन्धशालिकाः ॥

6.238.61

तदानुभूतं नृत्यन्त्यास् तस्या वपुषि विस्तृते ।
हिमवन्मेरुसह्याद्यैर् दोलान्दोलनम् अद्रिभिः ॥

6.238.62

तरदद्रिगुणाश् छाता वलयन्त्या तया स्रजः ।
पुनẖ कल्पान्त आरब्ध इव ताण्डवहेलया ॥

6.238.63

सुरासुरोरगानीकरोमशोग्रशरीरिका ।
निस्स्पन्दं स्थातुम् अशकन् नासौ भ्रमितचक्रवत् ॥

6.238.64

नानाविभवविज्ञानयज्ञयज्ञोपवीतिनी ।
सा सरन्ती नभस्य् आसीद् घनघूत्कारघोषिणी ॥

6.238.65

तत्र भूतलम् आकाशम् आकाशम् अपि भूतलम् ।
प्रतिकृत्य भवत्य् अन्तर् न च किञ्चिद् विवर्तते ॥

6.238.66

बृहन्नासागुहागेहनिर्गता घनघुङ्घुमाः ।
तत्रोग्रा वायवो वान्ति घनघूत्कारकारिणः ॥

6.238.67

नभẖ करशतैस् तस्याश् चतुरावर्तनर्तिभिः ।
भाति चण्डानिलोद्धूतैर् आकीर्णम् इव पल्लवैः ॥

6.238.68

तदङ्गगजगद्वस्तुजातभ्रमणसम्भ्रमात् ।
दृष्टिर् धीरापि मोहे मे सन्ना सेनेव सङ्गरे ॥

6.238.69

प्रोह्यन्ते यन्त्रवच् छैला निपतन्ति नभश्चराः ।
लुठन्त्य् अमरगेहानि चले तद्देहदर्पणे ॥

6.238.70

मेरवḫ पर्णवद् व्यूढा मलयाḫ पल्लवा इव ।
हिमाद्रयो हिमकणा इवोर्व्यो ऽब्दलता इव ॥

6.238.71

सह्या मह्याम् इव खगा विन्ध्या विद्याधरा इव ।
ऋक्षवन्तो भ्रमन्तो ऽन्तर् आसन् हंसा इवाम्बरे ॥

6.238.72

द्वीपान्य् अपि तृणानीव समुद्रा वलया इव ।
सुरलोकालयाḫ पद्मा आसंस् तद्देहवारिणि ॥

6.238.73

विशदाकाशसङ्काशे स्वप्नाञ्जनपुरोपमे ।
अङ्गे तस्या बृहज्जङ्घे पिण्डादर्शसमत्विषि ॥

6.238.74

विन्ध्यो नृत्यति काञ्चनाचलवने सह्यश् च मह्यां गिरिẖ कैलासो मलयो महेन्द्रशिखरे क्रौञ्चाचले मन्दरः ।
गोकर्णो गगनाङ्गने वसुमती विद्याधराणां पुरे सर्वा जङ्गमतां गता वनभुवस् तस्याश् शरीरे तदा ॥

6.238.75

अब्धिर् नृत्यति पर्वते गिरिर् अपि प्रोच्चैर् नभẖकोटरे व्योमापीन्दुदिवाकरर्क्षवलितं भूमेर् अधस्ताद् गतम् ।
सद्वीपाचलपत्तनो वनगणḫ प्रोत्कीर्णपुष्पो दिवि व्यालोलं जगद् अम्बुधाव् इव तृणं दिक्चक्रके भ्राम्यति ॥

6.238.76

व्योम्नि भ्रमन्ति गिरयो ऽम्बुधयो दिगन्तलोकान्तराणि पुरपत्तनमण्डलानि ।
नद्यस् सरांसि मकुरान्तर् अशेषबद्धवातावकीर्णतृणपर्णगणक्रमेण ॥

6.238.77

मत्स्याश् चरन्ति च मरौ वरवारिणीव व्योम्नि स्थिराणि नगराणि भुवीव भान्ति ।
खे भूर् अधो गगनम् अक्षयवारिवाहम् उत्पातवातपरिवृत्तगिरिस्थितं तत् ॥

6.238.78

ऋक्षोत्करो भ्रमति दीपसहस्रयन्त्रचक्रभ्रमेण मणिवर्षणमेघचारुः ।
अन्तर् बहिश् च चकितैḫ प्रणयेन मुक्तं विद्याधरामरगणैर् इव पुष्पवर्षम् ॥

6.238.79

संहारसर्गनिचया दिनरात्रिभागे बिन्दूपमा रजनयो दिवसोत्कराश् च ।
कृष्णास् सिताश् च परितो ऽमलशुक्लकृष्णस्वादर्शमण्डलवद् आकुलम् उल्लसन्ति ॥

6.238.80

रत्नानि भास्करनिशाकरमण्डलानि तारोत्करास् तरलकान्तिभृतश् च हाराः ।
स्वच्छाम्बराणि वलितानि महाम्बराणि कुर्वन्त्य् अनारतम् अनल्पम् अलातलेखाः ॥

6.238.81

कल्पान्तकालविलुठत्त्रिजगन्मणीनि व्यावर्तनैर् झगितिजातझणज्झणानि ।
तेजांसि सन्तततयोर्ध्वम् अधश् च यान्ति नानाविधानि गुणवन्ति विभूषणानि ॥

6.238.82

सङ्ग्राममत्तभटखड्गमरीचिवीचिश्यामायमानसकलातपवासराणाम् ।
व्यावृत्तिभिर् विलुठताम् अपि सुस्थिराणाम् आकर्ण्यते कलकलो जनमण्डलानाम् ॥

6.238.83

ब्रह्मेन्द्रविष्णुहरवह्निरवीन्दुपूर्वा देवासुराḫ परिविवृत्तिभिर् आपतन्तः ।
अन्योऽन्यम् एव विविधा उपयान्ति यान्ति वातावधूतमषकाशनिविभ्रमेण ॥

6.238.84

संहारसर्गसुखदुẖखभवाभवेहानीहानिषेधविधिजन्ममृतिभ्रमाद्याः ।
सार्धं पृथक् च विलसन्ति सदैव सर्वे व्यामिश्रताम् उपगता अपि तत्र भावाः ॥

6.238.85

भावोद्भवस्थितिविपत्करणभ्रमाणां संहारसर्गभुवनावनिविभ्रमाणाम् ।
मिथ्यैव खे प्रकचतां खशरीरकाणां संलक्ष्यते ऽत्र न मनाग् अपि नाम सङ्ख्या ॥

6.238.86

उत्पातशान्तिमरणोत्सवयुद्धसाम्यविद्वेषरागभयविश्वसनादि तत्र ।
एकत्र कोश इव रत्नचयो विभाति नानारसाप्रतिघसर्गपरम्परं तत् ॥

6.238.87

तस्याश् चिदम्बरमये वपुषि स्वभावभूतास् स्फुटानुभवभावजगद्व्यवस्थाः ।
सर्गक्षया मलिनदृक्कलिताम्बरस्थकेशोण्डुकस्फुरणवत् परितस् स्फुरन्ति ॥

6.238.88

जगत् सङ्क्सुब्धम् अक्षुब्धं दृश्यते ऽस्थितिसंस्थिति ।
सञ्चाल्यमानमकुरप्रतिबिम्ब इव स्थितम् ॥

6.238.89

नृत्तस्थपूता अप्य् अन्तर् जगदर्थाḫ प्रतिक्षणम् ।
स्थितिं त्यजन्ति गृह्णन्ति बालसङ्कल्पसर्गवत् ॥

6.238.90

क्रियाशक्तिशरीरे ऽन्तḫ पूयमाना अनारतम् ।
राशीभूय विशीर्यन्ते जगन्मुद्गकणोत्कराः ॥

6.238.91

क्षणम् आलक्ष्यते किञ्चिन् न किञ्चिद् अपि सा क्षणम् ।
क्षणम् अङ्गुष्ठमात्रैव क्षणम् आकाशपूरिणी ॥

6.238.92

यस्मात् सा कलना देवी संविच्छक्तिर् जगन्मयी ।
अनन्ता परमाकाशकोशशुद्धशरीरिणी ॥

6.238.93

कालत्रयस्थितजगत्त्रितयाम्बराङ्गी चित् सा तथा कचति तेन तथास्थितेन ।
रूपेण चित्रकृदुदारमनस्स्थचित्रसंसारजालसदृशेन कचज्जवेन ॥

6.238.94

सर्गात्मकं वपुर् अनेकचिदात्मकत्वात् संशान्तखैकवपुर् एकविदात्मकत्वात् ।
एकं निमेषणसमुन्मिषितैकरूपं सा बिभ्रती वपुर् अनन्तम् अनादि भाति ॥

6.238.95

तस्यां विभाति तद् अनन्तशिलात्मकोशलेखाब्जचक्ररचनादिवद् एव दृश्यम् ।
व्योमात्मकं गगनमात्रशरीरवत्यां चित्त्वाद् द्रवाज् जलधिकोश इवोर्मिलेखाः ॥

6.238.96

महती भैरवी देवी नृत्यतḫ पूरिताम्बरा ।
तस्य कल्पान्तरुद्रस्य सा पुरो भैरवाकृतेः ॥

6.238.97

सिरामर्माश्रितोग्राग्निदग्धस्थाणुवनावनिः ।
कल्पान्तवातव्याधूता वनमालेव नृत्यति ॥

6.238.98

कुणालोलूखलबृसीहलशूर्पकरण्डकैः ।
मुसुलोदञ्चनस्थालीकुम्भस्रग्दामधारिणी ॥

6.238.99

एवंविधानां स्रग्दामजालानां कुसुमोत्करम् ।
किरन्ती संसृजन्ती च नृत्तक्षुब्धाक्षयं ततम् ॥

6.238.100

वन्द्यमानस् तया सो ऽपि तथैवाकाशभैरवः ।
तथैव वितताकारस् तदोच्चैḫ परिनृत्यति ॥

6.238.101

डिम्बं डिम्बं कुडिम्बं पच मन डुह मा झम् प्रझम् प्रं प्रझम् प्रं तृल्लं तृल्लं तृतृल्लं तृखलु खलुमयं खङ्खमं खङ्खमङ्खम् ।
गुं हं गुं हं तु गुं हं गुडुलडुडुमुडं डाडिमाडिं डुडेति नृत्यन्ती शब्दवाद्यैḫ प्रलयपितृवने श्रेयसे वो ऽस्तु काली ॥

6.238.102

बद्ध्वा खट्वाङ्गशृङ्गे कपिलम् उरुजटामण्डलं पद्मयोनेẖ कृत्वा दैत्योत्तमाङ्गैस् स्रजम् उरसि शिरश्शेखरं तार्क्ष्यपक्षैः ।
पूर्णं रक्तासवानां यममहिषमहाशृङ्गम् आदाय पाणौ पायाद् वो वन्द्यमानḫ प्रलयमुदितया भैरवẖ कालरात्र्या ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc