भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.237

6.237.1

इति ते सर्व आयाता ब्रह्मलोकनिवासिनः ।
अदृश्यताम् एव गता दीपाẖ क्षीणदशा इव ॥

6.237.2

अथ ते द्वादशादित्या ब्रह्मणि ब्रह्मतां गते ।
जगद्वद् ब्रह्मलोकं तम् अदहन् भासुरार्चिषः ॥

6.237.3

वैरिञ्चनगरं दग्ध्वा ध्यानं कृत्वा विरिञ्चवत् ।
ते ऽपि निर्वाणम् आजग्मुर् निस्स्नेहदशदीपवत् ॥

6.237.4

तत एकार्णवापूरो विरिञ्चनगरान्तरम् ।
रात्रौ भुवम् इव ध्वान्तं पूरयाम् आस सूर्मिमान् ॥

6.237.5

आब्रह्मलोकम् अभवज् जगद् आपूर्णम् अर्णसा ।
तुल्यं रसैकपूर्णेन पक्वद्राक्षाफलेन तत् ॥

6.237.6

तत ऊर्मिगिरिव्रातवेगैर् आवलिताखिलैः ।
विच्छिन्नाẖ कल्पजलदा जल एव विलिल्यिरे ॥

6.237.7

एतस्मिन्न् अन्तरे तत्र दृष्टवान् अहम् अम्बरात् ।
यावद् अभ्युत्थितं भीमं भूतं किञ्चिन् नभोऽन्तरात् ॥

6.237.8

कल्पान्तजलदाकारं कृष्णम् आपूरिताम्बरम् ।
आकल्पं सम्भृतं नैशं देहेनेवोत्थितं तमः ॥

6.237.9

तरुणादित्यलक्षाणां तेज आभासुरं दधत् ।
आदित्यत्रयसङ्काशैस् स्थिरविद्युत्त्रयोल्बणैः ॥

6.237.10

नेत्रैर् आभासुरमुखं ज्वालापुञ्जान् समुद्गिरत् ।
पञ्चाननं दशभुजं त्रिनेत्रं शूलपाणिकम् ॥

6.237.11

अमान्तम् अन्तमुक्ते ऽपि व्योम्नीव वितताकृतिम् ।
खम् इवासिवरश्यामं देहम् आदाय संस्थितम् ॥

6.237.12

स्थितम् एकार्णवापूर्णाद् ब्रह्माण्डाद् बहिर् अम्बरे ।
व्योमेव हस्तपादादिसन्निवेशेन लक्षितम् ॥

6.237.13

घोणानिलपरावृत्तिविधुतैकमहार्णवम् ।
गोविन्दम् इव दोर्दण्डक्षोभितक्षीरसागरम् ॥

6.237.14

कल्पार्णवजलापूरं पुंस्त्वेनेव समुत्थितम् ।
मूर्तियुक्तम् अहङ्कारम् अकारणकम् आगतम् ॥

6.237.15

कुलाचलबृहद्वृन्दम् इवोड्डयनडम्बरैः ।
पक्षौघैर् उत्थितं व्योम समस्तम् अभिपूरयत् ॥

6.237.16

ततस् त्रिशूलनयनैर् मया रुद्रो ऽयम् इत्य् असौ ।
दूराद् एव परिज्ञाय परमेशो नमस्कृतः ॥

6.237.17

किं स तादृग्विधो रुद्रẖ किं कृष्णẖ किं महाकृतिः ।
किं पञ्चवदनẖ कस्माद् दशबाहुẖ क्व तिष्ठति ॥

6.237.18

किं त्रिनेत्रẖ किम् उग्रात्मा किम् एकẖ किंप्रयोजनः ।
केनेरितẖ किम् अकरोत् क्वायासीद् वद मे मुने ॥

6.237.19

काकुत्स्थ रुद्रनामासाव् अहङ्कारस् तथोत्थितः ।
विषमैकाभिमानात्मा मूर्तिर् अस्यामलं नभः ॥

6.237.20

व्योमाकृतिस् स भगवान् व्योमवर्णामलो महान् ।
चिद्व्योममात्रसारत्वाद् आकाशात्मा स उच्यते ॥

6.237.21

सर्वभूतात्मभूतत्वात् सर्वगत्वान् महाकृतिः ।
यानि तस्यानुषक्तानि पञ्चज्ञानेन्द्रियाण्य् अलम् ॥

6.237.22

तानि तस्य मुखान्य् आहुस् तपद्रूपाणि सर्वतः ।
कर्मेन्द्रियाणि विषयास् ते हि तस्य भुजा दश ॥

6.237.23

सर्वभूतभरैस् सार्धं ब्रह्मणा परम् एयुषा ।
यदासौ सम्परित्यक्तस् तदासौ मूर्तिम् आगतः ॥

6.237.24

स चाकाशैकरूपात्मा नास्ति तस्य हि साकृतिः ।
तथा दृश्यत एवासौ भ्रान्तिमात्रं न मूर्तिमान् ॥

6.237.25

चिदाकाशगते स्फारे भूताकाशे स तिष्ठति ।
देहे च सर्वभूतानां नित्यं वायुर् इवेश्वरः ॥

6.237.26

सर्वभूतपरित्यक्तस् तस्मिन् काले खमूर्तिमान् ।
क्षोभम् एत्य क्षणं क्षीणḫ परमां शान्तिम् एष्यति ॥

6.237.27

ये गुणा ये त्रयẖ कालाश् चित्ताहङ्कारबुद्धयः ।
प्रणवस्य च ये वर्णा ये च वेदास् तथा त्रयः ॥

6.237.28

रुद्रस्य तस्य ते नेत्रसन्निवेशेन संस्थिताः ।
त्रिशूलं तेन त्रैलोक्यं गृहीतं करकोटरे ॥

6.237.29

यस्मात् तद्व्यतिरेकेण सर्वभूतगणेष्व् अपि ।
अन्यन् न विद्यते किञ्चिद् देहात्मैव ततस् स्थितः ॥

6.237.30

सर्गसत्तोपलम्भात्मा स्वभावो ऽस्य प्रयोजनम् ।
ईरितश् शिवरूपेण चिन्मात्राकाशरूपिणा ॥

6.237.31

तेनैव च निगीर्णस् सन् परमां शान्तिम् एष्यति ।
निर्मलाकाशरूपात्मा कृष्ण इत्य् एष ईश्वरः ॥

6.237.32

कृत्वाकल्पं जगत् सर्वं तत् पीत्वैकार्णवं तदा ।
सम्प्रयाति परां शान्तिम् अभूयस्सन्निवृत्तये ॥

6.237.33

अनन्तरं मया दृष्टस् तत्रासौ यावद् उद्यमात् ।
प्रवृत्तḫ प्राणवेगेन तम् आक्रष्टुं महार्णवम् ॥

6.237.34

अथ तस्य मुखं स्फारं ज्वालामालाकुलान्तरम् ।
प्राणकृष्टो महाम्भोधिर् वाडवाग्निम् इवाविशत् ॥

6.237.35

स एव वाडवो भूत्वा वह्निर् आकल्पम् अर्णवे ।
अहङ्कारḫ पिबत्य् अम्बु रुद्रस् सर्वं तु तत् तदा ॥

6.237.36

पातालम् इव पानीयं सर्पो बिलम् इव क्षणात् ।
चण्डवायुर् इवाकाशम् अविशत् तन्मुखं जवात् ॥

6.237.37

समुदेत्यापिबद् रुद्रस् स मुहूर्तेन तत्पयः ।
कृष्णाङ्गो ऽर्क इव ध्वान्तं सत्सम्पर्क इवागुणम् ॥

6.237.38

आब्रह्मलोकपातालं शान्तं शून्यम् अथाभवत् ।
रजोधूमानिलाम्भोदभूतमुक्तं समं नभः ॥

6.237.39

केवलं तत्र दृश्यन्ते चत्वारो व्योमनिर्मलाः ।
इमे पदार्था निस्स्पन्दाश् शृणु तान् रघुनन्दन ॥

6.237.40

एकस् तावद् असौ मध्ये रुद्रẖ कृष्णाम्बराकृतिः ।
निराधारस् स्थितो व्योम्नि निस्स्पन्दो ऽम्भोधिबिम्बवत् ॥

6.237.41

द्वितीयो ऽवस्थितो दूरे पृथ्व्याकाशतलोपमः ।
भागो ब्रह्माण्डसदनस्याधḫ पातालसप्तकात् ॥

6.237.42

पातालभूतलदिवां सशैलेन्द्रदिवौकसाम् ।
व्याप्तिḫ पार्थिवभागेन पङ्कमात्रात्मना मनाक् ॥

6.237.43

तृतीयो ऽत्र पदार्थो ऽभूद् ऊर्ध्वं ब्रह्माण्डभागभूः ।
दृष्टिक्षयात् स दूरत्वाल् लक्ष्यते गगनासितः ॥

6.237.44

दूरविश्लिष्टयोर् मध्यं यत् तद् ब्रह्माण्डखण्डयोः ।
तद् आकाशम् अनाद्यन्तं ब्रह्म निर्मलम् आततम् ॥

6.237.45

चतुर्थो ऽसौ पदार्थस् तु तदा संलक्षितो मया ।
चतुष्टयाद् ऋते नान्यद् एतस्माद् एव किञ्चन ॥

6.237.46

बहिẖ किं विद्यते ब्रह्मन् ब्रह्मसद्मकवाटतः ।
कास् तत्रावरणा ब्रूहि कियत्यस् संस्थिताẖ कथम् ॥

6.237.47

ब्रह्माण्डखण्डयोḫ पारे ततो दशगुणं जलम् ।
सन्ध्याकाशम् अनन्तं तं वर्जयित्वाततं स्थितम् ॥

6.237.48

ततस् तथैव ज्वालात्म तेजो दशगुणं स्थितम् ।
ततस् तथैव पवनḫ पावनो निर्मलस् स्थितः ॥

6.237.49

ततस् तथैव विमलं नभो दशगुणं स्थितम् ।
ततḫ परमम् अत्यच्छं ब्रह्माकाशम् अनन्तकम् ॥

6.237.50

अन्यत्रान्यत्र तस्याथ दृष्टयो ऽन्यास् तथैव खे ।
कचन्त्य् असङ्ख्या दूरस्था मिथोऽदृष्टात्मसृष्टयः ॥

6.237.51

ऊर्ध्वे ब्रह्माण्डखण्डस्य तस्याधस्तान् मुनीश्वर ।
तज् जलादि महाकारं क्व कथं केन धार्यते ॥

6.237.52

स पार्थिवḫ पदार्थानां स्थितẖ कड्ढकरत्नवत् ।
भागास् तम् एव धावन्ति ते सुता मातरं यथा ॥

6.237.53

अतो यद् एव नेदीयो ब्रह्माण्डाख्यं महीवपुः ।
तत् पदार्थाḫ प्रधावन्ति तृषितास् सलिलं यथा ॥

6.237.54

अवलम्ब्य तद् एवातस् संस्थितास् ते जलादयः ।
न स्थितिं प्रविमुञ्चन्ति स्वां यथावयवा इव ॥

6.237.55

ब्रह्मन् ब्रह्माण्डखण्डे ते तिष्ठतẖ कथम् उच्यताम् ।
किमाकृती धृते केन कथं वा परिनश्यतः ॥

6.237.56

अधृतं धृतम् एवोच्चैर् अपतच् चैव वा पतत् ।
अनाकृत्य् एव साकारं जगत् स्वप्नपुरं यथा ॥

6.237.57

किम् अस्य नाम पतति किं वा केनास्य धार्यते ।
यथा संवित्तिकचनं तथैतद् अवतिष्ठते ॥

6.237.58

यथा केशोण्डुकं व्योम्नि यथा व्योमनि शून्यता ।
यथा वा पवने स्पन्दो जगच् चिद्गगने तथा ॥

6.237.59

चितौ सङ्कल्पनगरं ब्रह्माण्डाख्यं जगद्गृहम् ।
खे खम् एवात्यनाकारम् अत्याकारम् इव स्थितम् ॥

6.237.60

पातसंवित्समुद्भूतं पतद् आस्ते दिवानिशम् ।
उत्पतन्त्या विदोद्भूतम् उत्पतच् चैव तिष्ठति ॥

6.237.61

स्थितिसंवित्समुद्भूतं स्थितम् आस्ते दिवानिशम् ।
गच्छन्त्या संविदोद्भूतं गच्छद् आस्ते दिवानिशम् ॥

6.237.62

एति नाशविदा नाशं महाकल्पादिवेदनैः ।
जायते जन्मसंवित्त्या व्योम्नि सर्गादिवेदनैः ॥

6.237.63

आभाति मौक्तिकगणश् शरदम्बरान्तर् दृष्टाव् असत्य उदितो ऽप्य् अतिसत्यरूपः ।
भ्रान्त्या यथा नभसि विस्फुरतां तथैषां सङ्ख्यां विधातुम् इह को जगतां समर्थः ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc