मोक्षोपाय · अध्याय 6.236
एतस्मिन्न् अन्तरे चक्षुर् व्योमस्थो ऽहम् अथात्यजम् ।
ब्रह्मलोके महीलोके प्रभाते ऽर्कḫ प्रभाम् इव ॥
यावद् दृष्टो मया तत्र शैलाद् इव विनिर्मितः ।
परमेष्ठी समाधिस्थḫ प्रधानपरिवारवान् ॥
समूहश् चैव वेदानां मुनीनां भावितात्मनाम् ।
शुक्रो बृहस्पतिश् चैव शक्रो वैश्रवणो यमः ॥
सोमो ऽथ वरुणो ऽग्निश् च तथान्ये च सुरर्षयः ।
देवगन्धर्वसिद्धानां साध्यानां चैव नायकाः ॥
लिपिकर्मार्पिताकारास् सर्वे ध्यानपरायणाः ।
बद्धपद्मासनास् तत्र निर्जीवा इव संस्थिताः ॥
अथैते द्वादशादित्यास् तम् एवोद्देशम् आगताः ।
बद्धपद्मासनास् तस्थुस् तथैवाशु यथैव ते ॥
ततो मुहूर्तमात्रेण दृष्टवान् नाहम् अब्जजम् ।
पुरो विनिद्रतां यातस् स्वप्नदृष्टम् इवाग्रगम् ॥
ब्रह्मलोकजनं सर्वम् अहं ताम् अपि वासनाम् ।
नापश्यं स्वप्ननगरं बुध्यमान इवाग्रगम् ॥
अरण्यं शून्यम् एवासीत् तद् ब्रह्मनगरं तदा ।
कठिनाकाण्डविध्वस्तं पृथिव्याम् इव पत्तनम् ॥
सर्व एव गताẖ क्वापि ते तथा तादृशास् तदा ।
ऋषयो मुनयो वेदा देवा विद्याधरादयः ॥
ज्ञातं ततो ऽवधानेन मया नभसि तिष्ठता ।
यावन् निर्वाणम् आपन्ना ब्रह्मवत् सर्व एव ते ॥
वासनायां विलीनायाम् अदर्शनम् उपागताः ।
स्वप्नलोकाः प्रबुद्धानाम् इव स्वं रूपम् आगताः ॥
आकाशात्मैव देहो ऽयं भाति वासनया स्फुटः ।
तदभावात् तु नाभाति स्वप्नो बोधवतो यथा ॥
अन्तरिक्षगतो देहो यथा स्वप्ने ऽवलोक्यते ।
बोधे तद्वासनाशान्तौ न किञ्चिद् अपि लक्ष्यते ॥
जाग्रत्य् अपि तथैवायं वासनायाḫ परिक्षये ।
नैवातिवाहिको नैव लक्ष्यते ऽत्राधिभौतिकः ॥
स्वप्नानुभव एषो ऽत्र दृष्टान्तẖ केन खण्ड्यते ।
आबालम् एतत् संसिद्धम् अनुभूतं श्रुतं स्मृतम् ॥
अपह्नवेच् च वा यो ऽपि स्वम् एवानुभवं शठः ।
स त्याज्यẖ को ह्य् अलीकेन सुप्तम् उद्बोधयेत् किल ॥
देहकारणकस् स्वप्नो देहाभावे न दृश्यते ।
इति चेत् तद् अदेहानां परलोको ऽपि नास्ति वः ॥
इत्य् एतद् अभविष्यच् चेत् तच् छरीरकसङ्क्षये ।
नाभविष्यद् अयं सर्गस् स चास्त्य् एव हि सर्वदा ॥
अवयवविभागात्मन्य् अवश्यंभाविनि क्षये ।
न कदाचिद् अनित्थं तज् जगद् इत्य् अप्य् असंस्थितम् ॥
न कदाचिज् जगन्नाशे देहाद् भूतगणाद् इयम् ।
मदशक्तिर् इव ज्ञप्तिर् उदेतीत्य् असि वक्षि चेत् ॥
तत् पुराणेतिहासानां सर्वसङ्क्षयवादिनाम् ।
स्मृत्यादीनां च वेदानां वैयर्थ्यम् उपजायते ॥
अप्रमाणतयैतस्मिन्न् अर्थे तेषां महामते ।
अन्यत्रापि प्रमाणत्वं विद्यादाव् अपि किं भवेत् ॥
न चैतद् विद्यते लोके जगदुच्छेदकारणात् ।
अन्यच् चास्ताम् एतद् अङ्ग ममेदम् अपरं शृणु ॥
मदशक्त्यात्मनि ज्ञाने दृष्टा देशान्तरेषु या ।
प्रमृतानां पिशाचादिदेहता सा न सिध्यति ॥
अथ सापि मुधाभ्रान्तिर् यावद्देहं प्रदृश्यते ।
इति चेत् तन् मुधानाम सत्यम् इत्य् एव वो भवेत् ॥
एवं चेत् तत् परे लोके सत् स्वर्गनरकादिकम् ।
इत्य् एषापि न संवित् किं सत्यताम् उपगच्छति ॥
पिशाचप्रतिभा सत्या मदज्ञप्तिमतो यदि ।
प्रतिभास्य न सत्या स्यात् परलोकात्मिका कथम् ॥
पिशाचो ऽस्तीति चेत् संवित् सत्यार्था तेन संविदः ।
मृतस्यास्ति परो लोक इत्य् अस्याẖ किं न सत्यता ॥
काकतालीयवद् देहात् पैशाची ज्ञप्तिर् अस्ति चेत् ।
परलोकार्थसंवित्तिẖ कथं नास्ति सकारणा ॥
यान्तर् वेत्ति यथा संवित् सा तथानुभवत्य् अलम् ।
अस्तु सत्यम् असत्यं वा सिद्धम् इत्य् अनुभूतितः ॥
मृतस्यास्ति परो लोको विद् इत्य् एवम्मयी भवेत् ।
सति चासति देहे ऽस्मिंस् तेन किं सद् असच् च किम् ॥
तस्मात् स्वभावḫ प्रथमं प्रस्फुरन् वेत्ति संविदम् ।
वासनाकारणं पश्चाद् बुद्ध्वा सम्पश्यति भ्रमम् ॥
तत्क्षयाच् छमम् आयाति द्रष्टृदृश्यदृगामयः ।
तत्सत्तायाम् उदेतीयं संसृत्याख्या पिशाचिका ॥
उपलम्भ उदेत्य् आदौ ब्रह्मणो वासना ततः ।
तच्छान्तिं विद्धि निर्वाणं तत्सत्तां संसृतिभ्रमम् ॥
उत्पन्नैव न सानादौ परे ब्रह्मण्य् असम्भवात् ।
उत्पन्नापि च वा यासौ ब्रह्मैव परम् एव सत् ॥
एतावद् यत् परिज्ञानं तन् निर्वाणं विदुर् बुधाः ।
यद् अत्रैवापरिज्ञानं तं बन्धं विद्धि राघव ॥
विज्ञानघन एवायं कचनाकचनात्मकः ।
स्वयम् एव कचत्य् अन्तर् न कचत्य् एव वा स्वयम् ॥
संविदंशपरावृत्तिमात्रपेलवरूपिणी ।
बन्धदृङ् मोक्षदृक् चेति क्लेशस् तत्साधने कियान् ॥
संविदुद्बोधनं बन्धस् तदनुद्बोधनं शिवम् ।
असत् सद्वज् जगद् भाति संविदुद्बोधनोदरम् ॥
अजडं बोधनं सुप्तं मोक्ष इत्य् अभिधीयते ।
प्रबुद्धं बन्ध इत्य् आहुर् यद् इच्छसि तद् आहर ॥
निर्वाणवासनम् अनन्तम् अजाड्यम् अच्छबोधैकतानम् अपयन्त्रणम् अस्तशङ्कम् ।
अद्वैतम् ऐक्यरहितं च निरस्तशून्यम् आकाशकोशविशदाशय शान्तम् आस्स्व ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0