भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.231

6.231.1

तस्मिन् कल्पे तु सङ्कल्पे तस्य यद् वपुर् आस्थितम् ।
शृणु तत्र व्यवस्थेयं विचित्राचारहारिणी ॥

6.231.2

परमं यच् चिदाकाशं तद् विराडात्मनो वपुः ।
आद्यन्तमध्यरहितं लघु त्व् अस्य वपुर् जगत् ॥

6.231.3

सङ्कल्परचितो ब्रह्मा स्वाण्डं सङ्कल्पनात्मकम् ।
वपुषḫ परितो भास्वत् पश्यत्य् आकाशम् एव तत् ॥

6.231.4

ब्रह्मात्मैष स सङ्कल्पस् स्वम् अण्डम् अकरोद् द्विधा ।
तैजसं तैजसाकारḫ पुष्टḫ पुष्टं विहङ्गवत् ॥

6.231.5

अण्डस्यैकं नभो दूरं गतं सम्बुद्धवान् असौ ।
दूरे ऽधस् संस्थितं भागं व्यतिरिक्तं च नात्मनः ॥

6.231.6

ब्रह्माण्डभाग ऊर्ध्वस्थो विराजश् शिर उच्यते ।
अधोभागो ऽस्य पादाख्यो निरन्तं मध्यम् अत्र खम् ॥

6.231.7

दूरं वियुक्तयोस् सन्धिẖ खण्डयोर् अतिविस्तृता ।
अनन्ता व्योमलेखेति श्यामा शून्या च दृश्यते ॥

6.231.8

द्यौस् तालु विपुलं तस्य तारा रुधिरबिन्दवः ।
संविद्वातलवा देहे सुरासुरनरादयः ॥

6.231.9

देहे ऽन्तẖ क्रिमयस् तस्य भूतप्रेतपिशाचकाः ।
लोकान्तराणि रन्ध्राणि सुषिराण्य् अस्य देहके ॥

6.231.10

ब्रह्माण्डखण्डम् अस्याधो विस्तृतं पादयोस् तलम् ।
जानुमण्डलरन्ध्राणि पातालकुहराण्य् अधः ॥

6.231.11

जलैश् शलशलायन्ती सुषिरानेकरन्ध्रिका ।
भूर् अन्त्रमण्डली लोला समुद्रद्वीपवेष्टना ॥

6.231.12

जलैर् गुडगुडायन्त्यो नद्यो नाड्यस् सरद्रसाः ।
जम्बुद्वीपं हृदम्भोजम् अस्य हेमाद्रिकर्णिकम् ॥

6.231.13

कुक्षयẖ ककुभश् शून्या यकृत्प्लीहादयो ऽचलाः ।
मृद्व्यस् स्निग्धाḫ पटाकारा मेदसो जालिका घनाः ॥

6.231.14

चन्द्रार्कौ लोचने तस्य ब्रह्मलोको मुखं स्मृतम् ।
तेजस् सोमो ऽस्य कथितश् श्लेष्मा प्रालेयपर्वतः ॥

6.231.15

अग्निलोकस् तथौर्वाग्निḫ पित्तम् अस्यातिदुस्सहम् ।
वातस्कन्धो महावाताḫ प्राणापाना हृदि स्थिताः ॥

6.231.16

कल्पद्रुमवनान्य् अस्य सर्पवृन्दानि च क्वचित् ।
लोमजालान्य् अनन्तानि वनान्य् उपवनानि च ॥

6.231.17

ऊर्ध्वं ब्रह्माण्डखण्डं तु समस्तम् उरुमस्तकम् ।
ब्रह्माण्डप्रान्तरन्ध्रार्चिर् अस्य दीप्ता शिखोत्थिता ॥

6.231.18

स्वयम् एव मनस् तेन मनो नास्योपयुज्यते ।
आत्मैव भाज्यताम् एति किल कस्य कथं कुतः ॥

6.231.19

स्वयम् एवेन्द्रियाण्य् एष तेनान्यत्रास्तिता कृता ।
यतस् तत्कल्पनामात्रम् एवेन्द्रियगणẖ किल ॥

6.231.20

अवयवावयविनोर् इवेहेन्द्रियचित्तयोः ।
न मनाग् अपि भेदो ऽस्ति नैक्यम् एकशरीरयोः ॥

6.231.21

तस्य तान्य् एव कार्याणि जगतां यानि कानिचित् ।
सङ्कल्पा एव पुंवृत्त्या चलन्त्या रूषितद्विताः ॥

6.231.22

जागते तस्य विज्ञेये नान्ये ऽस्य मृतिजन्मनी ।
स एवेदं जगत् तस्मात् सङ्कल्पात्मास्ति नेतरत् ॥

6.231.23

तत्सत्तया जगत्सत्ता तन्मृत्यैव जगन् मृतम् ।
यादृशी स्पन्दमरुतोस् सत्तैका तादृशी तयोः ॥

6.231.24

जगद्विराजोस् सत्तैका पवनस्पन्दयोर् इव ।
जगद् यत् स विराड् एव यो विराट् तज् जगत् स्मृतम् ॥

6.231.25

जगद् ब्रह्मा विराट् चेति शब्दाḫ पर्यायवाचकाः ।
सङ्कल्पमात्रम् एवैते शुद्धचिद्व्योमरूपिणः ॥

6.231.26

सङ्कल्पात्मा विराड् एव खम् एवाकृतिम् आगतम् ।
अस्तु नाम स्वदेहान्तẖ कथं ब्रह्मैष तिष्ठति ॥

6.231.27

यथा ध्यानेन देहान्तस् तिष्ठसि त्वं यथास्थितम् ।
तथास्ते निजदेहे ऽन्तस् सङ्कल्पात्मा पितामहः ॥

6.231.28

नृणां तथा च मुख्यानां श्रीर् या ब्रह्मपुरोदरे ।
उत्पत्तिपुत्रिकादेहप्रतिबिम्बोपमास्ति सा ॥

6.231.29

यत्र त्वम् अपि देहान्तẖ कर्तुं शक्नोष्य् अलं स्थितिम् ।
सङ्कल्पात्मा विभुस् तत्र ब्रह्मा किं न करिष्यति ॥

6.231.30

बीजे ऽन्तस् स्थावरे ह्य् आस्ते पदार्थो यत्र जङ्गमः ।
किं नास्ते तत्र देहे ऽन्तर् निजे चित्कल्पनात्मकः ॥

6.231.31

साकारो गगनात्मास्तु निराकारं खम् अस्तु वा ।
आस्ते बहिर् अथान्तश् च भिन्ने बाह्यान्तरे न हि ॥

6.231.32

आत्मारामẖ काष्ठमौनी नजडो ऽपि दृषज्जडः ।
अहं त्वम् इत्यादिमयो विराड् आत्मनि तिष्ठति ॥

6.231.33

आवेष्टितोज्झितलतातृणदारुपुंवद् उच्छब्दम् अम्बुरयवच् च विचोपिताङ्गः ।
नानाविधे हि विहरन्न् अपि कार्यजाले तज्ज्ञश् शिलाजठरशान्तमनस्क एव ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc