मोक्षोपाय · अध्याय 6.230
बन्धमोक्षजगद्बुद्धिर् न शून्या नापि सन्मयी ।
नास्तम् एति न चोदेति किम् अप्य् आद्यम् असौ किल ॥
उपदिष्टम् इदं ब्रह्मंस् त्वया बुद्धम् अलं मया ।
भूयẖ कथय तृप्तिर् हि शृण्वतो नास्ति मे ऽमृतम् ॥
सर्गादिसम्भ्रमदृशश् शून्यतादिदृशस् तथा ।
न काश्चन विभो सत्या असत्या न च काश्चन ॥
एवं स्थिते तु यत् सत्यं तत् सर्वं बुद्धवान् अहम् ।
तथापि भूयो बोधाय सर्गानुभव उच्यताम् ॥
यद् इदं दृश्यते किञ्चिज् जगत् स्थावरजङ्गमम् ।
सर्वं सर्वप्रकाराढ्यं देशकालक्रियादिमत् ॥
तस्य नाशे महानाशे महाप्रलयनामनि ।
ब्रह्मोपेन्द्रमरुद्रुद्रमहेन्द्रपरिणामिनि ॥
शिष्यते शान्तम् अत्यच्छं किम् अप्य् अजम् अनादिमत् ।
यतो वाचो निवर्तन्ते किम् अन्यद् अवगम्यते ॥
सर्षपापेक्षया मेरुर् यथातिवितताकृतिः ।
तथाकाशम् अपि स्थूलं शून्यं सद् यदपेक्षया ॥
अमाने ऽकलिते सोम्ये ऽकाले ऽपरिणते चिरम् ।
शान्ते तस्मिन् परे व्योमन्य् आद्ये ह्य् अनुभवात्मनि ॥
असङ्कल्पो महाशान्तो दिक्कालैर् अमिताकृतिः ।
अन्तर् महांश् चिदाकाशो वेत्तीव परमाणुताम् ॥
असत्याम् एव ताम् अन्तर् भावयन् स्वप्नवत् स्वतः ।
ततस् स ब्रह्मशब्दार्थां वेत्ति चिद्रूपतां तताम् ॥
विद्भावो ऽनुभवत्य् अन्तश् चित्त्वाच् चिदणुतां निजाम् ।
ताम् एव पश्यतीवाथ ततो द्रष्टेव तिष्ठति ॥
यथा स्वप्ने मृतिं पश्यत्य् एक एवात्मनात्मनः ।
मृत एव मृतेर् द्रष्टा तथा चिदणुर् आत्मनि ॥
ततश् चिद्भाव एषो ऽन्तर् एक एव द्विताम् इव ।
पश्यन् खरूप एवास्ते द्रष्टृदृश्यम् इव स्थितः ॥
चिद्भावश् शून्य एवातिनिराकारो ऽप्य् अणुं तनुम् ।
पश्यन् दृश्यम् इवोदेति द्रष्टेव च तदा द्विता ॥
प्रकाशम् अणुम् आत्मानं पश्यंस् तदनुभावतः ।
उच्छूनतां चेतयते बीजम् अङ्कुरताम् इव ॥
देशकालक्रियाद्रव्यद्रष्टृदर्शनदृग्दृशः ।
अर्थान्तरस्वभावेन तिष्ठन्त्य् अनुदिताभिधाः ॥
चिदणुर् यत्र भातो ऽसौ देशो मितिम् उपागतः ।
यदा भातस् तदा कालो यद् भानं सा क्रिया स्मृता ॥
उपलब्धं विदुर् द्रव्यं द्रष्टृतात्रोपलब्धृता ।
आलोकनं दर्शनता दृग् आलोकनकारणम् ॥
एवम् उच्छूनता भाति मितानन्ताथ वा क्रमात् ।
असत्यैव नभस्य् एव नभोरूपैव निष्प्रमा ॥
चिदणोर् भासनं भातं तत्प्रदेशेन देहगम् ।
येन पश्यति तच् चक्षुस् तच् छ्रोत्रं येन च श्रुतिः ॥
येन जिघ्रति तद् घ्राणं येन स्पृशति चर्म तत् ।
रस्यते येन सा जिह्वा सङ्ग्रहो ऽक्षदृशाम् इति ॥
चिदणुप्रतिभासे ऽन्तḫ प्रथमं नामवर्जितम् ।
तन्मात्रवृन्दम् एतेषाम् एतदाकाशरूपि तत् ॥
चिदणुप्रतिभाकाशपिण्ड एकघनस्थितिः ।
अनुसन्धानविवशश् चेततीन्द्रियपञ्चकम् ॥
एवं चिदनुसन्धानं दृश्यपोषम् उपैत्य् अलम् ।
तद् एव ज्ञानम् इत्य् उक्तं बुद्धिर् इत्य् अभिधीयते ॥
ततो मनस्तया रूढम् अहङ्कारपदं गतम् ।
देशकालपरिच्छेद इत्य् अङ्गीकृत आत्मना ॥
चिदणोर् अस्य भावस्य प्रत्यग्रं यत्र वेदनम् ।
स तत्रोत्तरकालेन पूर्वाभिख्यां करिष्यति ॥
अन्यस्मिन्न् एकदेशे ऽसाव् ऊर्ध्वाभिख्यां करिष्यति ।
एवं दिगभिधानादि कल्पयिष्यति स क्रमात् ॥
देशकालक्रियाद्रव्यशब्दानाम् अर्थवेदनम् ।
भविष्यति स्वयम् असाव् आकाशविशदो ऽपि सन् ॥
इत्थं स्वानुभवेनैष व्योम्न्य् एव व्योमरूपधृत् ।
आतिवाहिकनामान्तर् देहस् सम्पद्यते चितः ॥
एष एव चिरं कालं तत्र भावनया तया ।
गृह्णाति निश्चयं पूर्णम् आधिभौतिकम् आत्मनः ॥
व्योम्ना व्योम्न्य् एव रचितो निर्मलेनेति विभ्रमः ।
असतासत् समास्तीर्णं तापनद्या जलं यथा ॥
सङ्कल्पनाम् उपादत्ते स्वदेहे गगनाकृतिः ।
शिरश्शब्दार्थदां काञ्चित् पादशब्दार्थदां क्वचित् ॥
उरḫपार्श्वादिशब्दार्थमयीं क्वचिद् अनाबिलाम् ।
भावाभावग्रहोत्सर्गशब्दाद्यर्थमयीम् अपि ॥
नियताकारकलनां देशकालादियन्त्रिताम् ।
विषयोन्मुखतां याताम् इन्द्रियव्रातवेधिताम् ॥
सो ऽणुḫ पश्यत्य् अथाकारम् आत्मनस् स्वात्मकल्पितम् ।
हस्तपादादिकलितं चित्तादिकलनान्वितम् ॥
एवं सम्पद्यते ब्रह्मा तथा सम्पद्यते हरिः ।
एवं सम्पद्यते रुद्र एवं सम्पद्यते क्रिमिः ॥
न च किञ्चन सम्पन्नं यथास्थितम् अवस्थितम् ।
शून्यं शून्ये विलसितं ज्ञप्तौ ज्ञप्तिर् विजृम्भिता ॥
प्रतिच्छन्दश् शरीराणां बीजं त्रैलोक्यवीरुधाम् ।
सर्गार्गडप्रदो मुक्तेस् संसारासारवारिदः ॥
कारणं सर्वकार्याणां नेता कालक्रियादिषु ।
स चाद्यḫ पुरुषस् स्वैरम् इत्य् अनुत्थित उत्थितः ॥
नास्य भूतमयो देहो नास्यास्थीनि शरीरके ।
अवष्टब्धुम् असौ मुष्ट्या शक्यते न च केनचित् ॥
तेनाब्धिमेघसङ्ग्रामसिंहगर्जोर्जितात्मना ।
अपि सुप्तनरेणेव नूनं मौनवता स्थितम् ॥
जाग्रतस् स्वप्नसन्दृष्टयोधारभटवेदनम् ।
यथा स्मृतिगतं नासन् न सत् तद्वद् असौ स्थितः ॥
बहुयोजनलक्षौघप्रमाणो ऽपि बृहद्वपुः ।
परमाण्वन्तरे माति लोमान्तस्स्थजगत्त्रयः ॥
कुलशैलगुणौघात्मा बृहद्वृन्दात्मको ऽपि सन् ।
तुलायां धानकामात्रम् अपि नापूरयत्य् अजः ॥
जगत्कोटिशताभोगविस्तीर्णो ऽप्य् अणुमात्रकम् ।
वस्तुतो व्याप्तवान् एष न देशं स्वप्नशैलवत् ॥
स्वयम्भूर् एष कथितो विराड् एष स उच्यते ।
ब्रह्माण्डात्मा जगद्देहो वस्तुतस् तु नभोमयः ॥
सनातन इति प्रोक्तो रुद्र इत्य् अपि सञ्ज्ञितः ।
इन्द्रोपेन्द्रमरुन्मेघशैलजालादिदेहकः ॥
तेजोऽणुमात्रप्रथितं चेतित्वा प्रथमं वपुः ।
क्रमेण स्फारसंवित्तिर् महान् अहम् इति स्थितः ॥
स्पन्दसंवेदनात् तेन स्पन्द इत्य् अनुभूयते ।
यस् स एवानिलाभिख्यो वातस्कन्धात्मना स्थितः ॥
प्राणापानपरिस्पन्दो वेदनाद् अनुभूयते ।
तेन यस् सो ऽयम् आकाशे वातस्कन्ध उदाहृतः ॥
चित्त्वाद् ये कल्पितास् तेन बालेनेव पिशाचकाः ।
तेजẖकणा असन्तो ऽपि त एते धिष्ण्यतां गताः ॥
प्राणापानपरावर्तदोला तदुदरोदिता ।
वातस्कन्धाभिधां धत्ते जगत् तद्धृदयं बृहत् ॥
प्रतिच्छन्दश् शरीराणां प्रथमं बीजम् एष सः ।
जगद्गतानां सर्वेषाम् आकल्पव्यवहारिणाम् ॥
प्रतिच्छन्दाद् यदैतस्माद् उत्थिता जगदात्मनः ।
देहास् तदा यथा बाह्यम् अन्तर् एषां तथा स्थितम् ॥
चितिस् तस्याद्यबीजस्य पूर्वम् एव यथोदिता ।
तथैवाद्यापि जीवे ऽन्तस् तथोदेति तदीहिता ॥
श्लेष्मपित्तानिलास् तस्य चन्द्रार्कपवनास् त्रयः ।
ग्रहा ऋक्षगणास् तस्य प्राणे ष्ठीवनशीकराः ॥
तस्यास्थीन्य् अद्रिजालानि मेदसो जालिका घनाः ।
शिरḫ पादौ त्वचं देहात् पश्यामस् तस्य नो वयम् ॥
वपुर् विराजो जगद् अङ्ग विद्धि सङ्कल्परूपस्य हि कल्पनात्म ।
आकाशशैलावनिसागरादि सर्वं चिदाकाशम् अतḫ प्रशान्तम् ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0