भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.232

6.232.1

अथाग्रस्थब्रह्मलोके ब्रह्मणि ध्यानशालिनि ।
निक्षिप्ताक्षश् शनैर् दिक्षु दृष्टवान् अमलं ह्य् अहम् ॥

6.232.2

द्वितीयम् अर्कं मध्याह्ने पश्चाद् अभ्युदितं स्फुटम् ।
दिग्दाहम् इव दिग्वक्त्रे वनदाहम् इवाचले ॥

6.232.3

वह्निलोकम् इव व्योम्नि वडवाग्निम् इवार्णवे ।
ततो ऽपश्यम् अहं दीप्तं सूर्यं नैरृतदिङ्मुखे ॥

6.232.4

सूर्यं याम्यैकदिग्भागे सूर्यम् अग्निकदिङ्मुखे ।
सूर्यम् ऐन्द्रैकदिग्भागे सूर्यम् ईशानदिङ्मुखे ॥

6.232.5

सूर्यं कुबेरककुभि सूर्यं वायव्यदिक्तटे ।
सूर्यं वारुणदिग्भागे तेन विस्मितवान् अहम् ॥

6.232.6

यावद् विचारयाम्य् आशु विधिवैधुर्यम् आकुलः ।
उदभूद् भूतलात् तावद् अर्क और्व इवार्णवात् ॥

6.232.7

एकादर्शे ऽखिलार्काणां प्रतिबिम्बम् इवोत्थितम् ।
उदभूत् त्रयम् अर्काणाम् अम्बरे दिग्गणाम्बरे ॥

6.232.8

तद् द्वादशपरीमाणं दीप्तं वृन्दं विवस्वताम् ।
सर्वदिक्कं ददाहोच्चैश् शुष्कं वनम् इवानलः ॥

6.232.9

अथोदभूज् जगत्षण्डशोषणग्रीष्मवासरः ।
अनग्निर् अग्निदाहो द्राग् अदृश्योल्मुकगुल्मकः ॥

6.232.10

अनग्निनाग्निदाहेन तेन तामरसेक्षण ।
अङ्गानि दावदग्धानि स्विन्नानीव ममाभवन् ॥

6.232.11

प्रदेशं तम् अथ त्यक्त्वा दूरम् आरूढवान् अहम् ।
दृढहस्ततलाघातहतकन्दुकवन् नभः ॥

6.232.12

अपश्यं गगनस्थो ऽहम् उदितं चण्डतेजसम् ।
तपन्तं द्वादशादित्यगणं दिक्षु दशस्व् अपि ॥

6.232.13

बृहद्भडभडारावज्वलद्घनवनाचलम् ।
महाकहकहाशब्दक्वथत्सप्ताब्धिडम्बरम् ॥

6.232.14

सज्वालोल्मुकनीरन्ध्रलोकान्तरपुरान्तरम् ।
ज्वालाघनघटाटोपसिन्दूरीकृतपर्वतम् ॥

6.232.15

डीयमानमहाङ्गारस्थिरविद्युत्ककुप्तटम् ।
स्फुरत्कटकटाटोपचटत्पत्तनमण्डलम् ॥

6.232.16

विदलद्भूतलोद्भूतधूमदण्डैश् शिलाघनैः ।
काचस्तम्भसहस्राढ्यभुवनास्थानमण्डपम् ॥

6.232.17

क्वथद्भूतमहाभूतताराक्रन्दातिघर्घरम् ।
लोकपालपुरापातस्फुटच्चटचटोद्भटम् ॥

6.232.18

ताराविशरणोद्गारवृष्टरत्नधरातलम् ।
सर्वस्थलालयचलद्दह्यमानजनव्रजम् ॥

6.232.19

सर्वदिक्कानलप्लोषगणदुर्दर्शदिक्तटम् ।
उत्तप्ताम्बुभरस्विन्नजलेचरमहार्णवम् ॥

6.232.20

धराधरदरीरन्ध्रभ्रमत्कुण्डलिमण्डलम् ।
पतत्पर्वतनिष्पिष्टप्लुष्टपत्तनमण्डलम् ॥

6.232.21

पतत्पचपचाशब्दशब्दिताब्ध्यद्रिकुञ्जकम् ।
तपत्तापोन्नमद्भूतज्वरितार्णवपर्वतम् ॥

6.232.22

हृदयस्फोटनिस्सारपतद्विद्याधराङ्गनम् ।
आक्रन्दरोदनश्रान्तद्रवन्निश्शरणामरम् ॥

6.232.23

नागलोकज्वलज्ज्वालापातालोत्तप्तभूतलम् ।
शुष्कार्णवस्खदापङ्कविवृत्तोग्रजलेचरम् ॥

6.232.24

और्वेणाबिन्धनाभावात् प्रोड्डीयेव सहस्रधा ।
गतेन शतधोत्थाय गृहीतगगनाङ्गनम् ॥

6.232.25

अथोदभूज् ज्वलज्ज्वालाकिंशुकांशुकशोभितः ।
ताण्डवायेव कल्पाग्निस् तरलोल्मुकमाल्यवान् ॥

6.232.26

तारं पटपटाटोपी रटद्भट इवोद्भटः ।
ज्वालोद्भुजो धूम्रकचो जगज्जीर्णकुटीनटः ॥

6.232.27

जज्वलुर् वनजालानि पुराणि नगराणि च ।
मण्डलद्वीपदुर्गाणि जङ्गलानि स्थलानि च ॥

6.232.28

सर्वखानि महाकाशम् आशा दश दिवश् शिरः ।
श्वभ्रकूपारघट्टाट्टघट्टनोड्डारदिक्तटाः ॥

6.232.29

शृङ्गाणि सिद्धवृन्दानि गिरयस् सागरार्णवाः ।
सरस्सरस्यस् सरितो देवासुरनरोरगाः ॥

6.232.30

आशाश् शनशनाशब्दैḫ पुरुषैर् अशिवार्चिषाम् ।
आसन् क्ष्वेडाकुराक्षस्यो ज्वालाजालोज्ज्वलोर्ध्वजाः ॥

6.232.31

भं भं भम् इति भाङ्कारैर् भीषणैर् भूरिभस्मभिः ।
ज्वालाश् श्वभ्राद्रिभूमीनां गुहाभ्यḫ परिनिर्ययुः ॥

6.232.32

ज्वालोदरस्था अरुणास् समस्ता भूतजातयः ।
स्थलपद्मोदरालीनाम् आजह्रुश् श्रियम् अश्रियः ॥

6.232.33

सद्योनिस्सृतरक्ताभैस् सिन्दूराम्भोदसुन्दरैः ।
धग् धग् धग् इति गायद्भिर् ज्वालाजालैर् जगद्गतैः ॥

6.232.34

आसीद् रक्तांशुकैẖ कीर्णं सन्ध्याभ्रैर् इव वा नभः ।
उत्फुल्लकिंशुकवनैर् उड्डीनैर् इव वावृतम् ॥

6.232.35

और्वेण वावृता आसन् फुल्लाशोकवना इव ।
स्थलाब्जवलिता रावविरावा इव चार्णवाः ॥

6.232.36

नानावर्णज्वलज्ज्वालाधूमविन्यासबन्धवान् ।
रूढवान् हिमवान् धातुचित्रसौधतलश्रियम् ॥

6.232.37

अनन्तवनविन्यासनवयौवनपावकः ।
उदयास्तमयाद्रिभ्यो विन्ध्यो विधुरताम् अगात् ॥

6.232.38

अङ्गारकल्पविटपैर् ज्वालावनविवल्गनैः ।
शरैर् ईश इव क्षुब्धस् सह्यो ऽसह्यत्वम् आययौ ॥

6.232.39

मध्यमध्यकचत्कार्ष्ण्यं भ्रमद्धूमालिमालितम् ।
चलज्ज्वालाब्जम् अनिलैर् मृष्टं सर इवाम्बरम् ॥

6.232.40

खे ऽद्रीणां शिखरोर्व्यो ऽग्निशिखाशिखरशेखराः ।
ननृतुर् नीरसा राम नर्तक्यẖ केतुकुन्तलाः ॥

6.232.41

तलाहितानलज्वाला ब्रह्माण्डोर्ध्वकवाटभूः ।
भर्जनप्रोत्फलद्भूतधानागाद् भ्राष्ट्रभूमिकाम् ॥

6.232.42

द्वीपाब्धिकङ्कणश्रेणी मृज्जलाङ्गाग्निनारुणा ।
हृत्प्रकोष्ठे जगल्लक्ष्म्यास् सावतीर्णाभवत् तदा ॥

6.232.43

शैलाश् चटचटास्फोटैर् वृक्षाẖ कटकटारवैः ।
देशा हलहलोल्लासैर् अलं विदलनं ययुः ॥

6.232.44

अब्धयẖ क्वथिताकाराḫ फेनिलोल्लोलमांसलाः ।
वीचीकरतलाघातांश् चक्रुर् अर्कमुखे नु खे ॥

6.232.45

अन्योऽन्यवेल्लितैर् लोलभूतलाङ्गारपर्वतान् ।
जह्रुर् वीचिकरैर् मोहजडाḫ प्रकुपिता इव ॥

6.232.46

आशाकाशाशिनाम् एषां गुहागुलगुलारवान् ।
प्रपन्नश् शब्द आग्नेयो ज्वालाभडभडोद्भटः ॥

6.232.47

लोकपालपुरापातभग्नाङ्गारादिभित्तयः ।
दिशो दशापि वैवश्यम् अयुर् उन्मुक्तवृत्तयः ॥

6.232.48

काञ्चनद्रवसान्द्रार्द्रद्रुमाङ्गारगुहागृहः ।
शनैẖ खर्वाकृतिर् मेरुर् आसीद् धिमम् इवातपे ॥

6.232.49

क्षणेनैवानलात् तस्माद् धिमवान् व्यद्रवद् द्रुतः ।
सर्वान्तश्शीतलश् शुद्धो दुर्जनाद् इव सज्जनः ॥

6.232.50

तस्याम् अपि दशायां तु मलयो ऽमलसौरभः ।
आसीत् त्यजत्य् उदारात्मा न नाशे ऽप्य् उत्तमं गुणम् ॥

6.232.51

नश्यन्न् अपि महान् ह्लादं न खेदं सम्प्रयच्छति ।
चन्दनं दग्धम् अप्य् आसीद् आनन्दायैव जीवताम् ॥

6.232.52

न कदाचन संयाति वस्तूत्तमम् अवस्तुताम् ।
प्रलयानलनिर्दग्धम् अपि हेम न नष्टवत् ॥

6.232.53

द्वे हेमनभसी तस्मिन् न नष्टे प्रलयानले ।
तयोर् एव वपुश् श्लाघ्यं सर्वनाशे ऽप्य् अनाशयोः ॥

6.232.54

नभो विभुतयानाशि हेमोत्कृष्टतयाक्षयम् ।
सत्त्वम् एकं सुखं मन्ये न रजो न च वा तमः ॥

6.232.55

चलदुच्चवनापातविकीर्णाङ्गारवर्षणः ।
दग्धाब्दाद्रिर् महाधूमजालो ऽभूद् वह्निवारिदः ॥

6.232.56

रसनिस्सरणार्तानां शून्यानां स्फारदेहिनाम् ।
शुष्कानां व्योमविटपिपत्त्राणां पात्ररूपिणाम् ॥

6.232.57

वारिदानां सवारीणां दग्धानां प्रलयार्चिषा ।
ज्ञप्त्येवाज्ञानदोषाणां दृष्टं भस्मापि न क्वचित् ॥

6.232.58

न लङ्घयति कैलासं यावद् उल्लसितो ऽनलः ।
तावत् तं कल्पकुपितो रुद्रो नेत्राग्निनादहत् ॥

6.232.59

दाहस्फुटद्द्रुमस्थूलशिलाचटचटारवाः ।
लगुडोपललोष्टौघैर् अयुध्यन्तेव भूभृतः ॥

6.232.60

ज्वाला घनघटाटोपसावतंसाचलाभिधाः ।
बभुर् आव्योमविकसत्स्थलपद्मवना इव ॥

6.232.61

सर्गẖ कदाचिद् एवासीद् इत्य् अगात् स्मरणीयताम् ।
कल्पान्तस् स्फारयन् दुẖखान्य् अगाद् अस्मरणीयताम् ॥

6.232.62

तापोपतापपरमाḫ परमारणतत्पराः ।
वह्नयो ऽपह्नवं चक्रुर् जगताम् असताम् इव ॥

6.232.63

ववुर् अशनिनिपातपिण्डिताङ्गाẖ कचदनलोल्मुकखण्डमुण्डमाल्याः ।
प्रलयसमयवायवो ऽनलात्ता दलदचलाशनिपालयो लिहन्तः ॥

6.232.64

व्यालोलस्फुटितानलद्रुमवनप्रोद्भूतभस्मोष्मणा दत्ताभ्रभ्रमदुल्मुकाहतिवहत्साङ्गारगौरार्चिषः ।
भ्रश्यत्पावकशृङ्गमध्यविवलज्ज्वालालवश्यामला निश्शेषाग्निनिकाशपूरवपुषो वेगेन वाता ववुः ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc