मोक्षोपाय · अध्याय 6.229
अथाकृष्टवति प्राणान् स्वयम्भुवि नभोभुवः ।
विराडात्मनि तत्याज वातस्कन्धस्थितिं स्थिराम् ॥
ते हि तस्य किल प्राणास् तेनाक्रान्तेषु तेष्व् अपि ।
ऋक्षचक्रस्थितिं को ऽन्यश् चक्रे भूतैकधारिणीम् ॥
वातस्कन्धे समाक्रान्ते ब्रह्मणा प्राणमारुते ।
शमं गन्तुं परित्यज्य संस्थितिं क्षोभम् आगते ॥
निराधारास् सवाताग्निदेहोल्मुकवद् आपतन् ।
व्योम्नस् तारास् तरोḫ पुष्पनिकरा इव भूतले ॥
कालपाकगलन्मूला जगत्षण्डफलादयः ।
प्रशान्तपवनाधारा विमानावलयो ऽपतन् ॥
प्रशमोन्मुखतां याते ब्राह्मे सङ्कल्पनेन्धने ।
सिद्धानां गतयश् शेमुर् इद्धानाम् अर्चिषाम् इव ॥
प्रभ्रमन्त्यो ऽम्बरे कल्पमारुतैस् तनुतूलवत् ।
स्वशक्त्यपचये मूकास् सिद्धसन्ततयो ऽपतन् ॥
सकल्पद्रुमजालानि सेन्द्रादिनगराणि च ।
पेतुर् भूकम्पलोलस्य शिरांस्य् अमरभूभृतः ॥
वक्षि सङ्कल्पमात्रात्मा विराड् ब्रह्मा जगद्वपुः ।
किम् अङ्गं तस्य भूलोकẖ किं स्वर्गẖ किं रसातलम् ॥
कथम् एतानि चाङ्गानि ब्रह्मंस् तस्य स्थितानि वा ।
कथं वा सो ऽन्तरे तस्य स्वस्यैव वपुषस् स्थितः ॥
ब्रह्मा सङ्कल्पमात्रात्मा निराकृतिर् इदं स्थितम् ।
जगद् इत्य् एव जातो मे निश्चयẖ कथयेतरत् ॥
आदौ तावद् इदं नासन् न सद् आस्ते निरामयम् ।
चिन्मात्रपरमाकाशम् आशाकोशैकपूरकम् ॥
तत् स्वाम् आकाशतां चैतच् चेत्यम् इत्य् अवबुध्यते ।
स्वरूपम् अजहन् नित्यं चित्त्वाद् भवति चेतनम् ॥
विद्धि त्वं चेतनं जीवं स घनत्वान् मनस् स्थितम् ।
एतावति स्थिते जाले न किञ्चित् साकृति स्थितम् ॥
शुद्धं व्योमैव चिद्व्योम स्थितम् आत्मनि पूर्ववत् ।
यद् एतत् प्रतिभातं तु तद् अनन्यच् छिवात् ततः ॥
अथ तन् मन आभोगि भाविताहङ्कृति स्फुरत् ।
सङ्कल्पात्मकम् आकाशम् आस्ते तिमितम् अव्ययम् ॥
तत् सङ्कल्पचिदाभासनभो ऽहम् इति भावितम् ।
असन्तम् एवानुभवत् सन्निवेशं खम् एव खे ॥
वेत्ति भावितम् आत्मानं पश्यत्य् अनुभवत्य् अपि ।
सङ्कल्पकात्मकं शून्यम् एव देह इति स्थितम् ॥
शून्यम् एव यथाकारि सङ्कल्पनगरं भवान् ।
पश्यत्य् एवम् अजो देहं खे खम् एवानुभूतवान् ॥
संविदो निर्मलत्वात् स यावदिच्छं तथाविधम् ।
अनुभूयानुभवनं स्वेच्छयैवोपशाम्यति ॥
यदा त्व् अत्र परिज्ञानम् अस्मदादेस् तदाततम् ।
इदं संसरणं विद्धि शून्यं सत्यम् इव स्थितम् ॥
यथाभूतपरिज्ञानाद् अत्र शाम्यति वासना ।
अद्वैतान् निरहङ्कारात् ततो मोक्षो ऽवशिष्यते ॥
एवम् एष स यो ब्रह्मा स एवेदं जगत् स्थितम् ।
विराजो ब्रह्मणो राम देहो यस् तद् इदं जगत् ॥
सङ्कल्पाकाशरूपस्य तस्य या भ्रान्तिर् उत्थिता ।
तद् इदं जगद् आभाति तद् ब्रह्माण्डम् उदाहृतम् ॥
सर्वम् आकाशम् एवेदं सङ्कल्पकलनात्मकम् ।
वस्तुतस् त्व् अस्ति न जगत् त्वत्तामत्ते च न क्वचित् ॥
क्व चिन्मात्रे ऽमले व्योम्नि कथं वा केन वा जगत् ।
किं जायते किम् अत्रास्ति कारणं सहकारि यत् ॥
अतो ऽलीकम् इदं जातम् अलीकं परिदृश्यते ।
अलीकं स्वदते ऽलीकम् एव नश्यति शून्यकम् ॥
जगदादिकया भासा चिन्मात्रं स्वदते स्वतः ।
आत्मनात्माम्बरे द्वैतं स्पन्दनेनेव मारुतः ॥
इदं किञ्चिन् नकिञ्चिद् वा द्वैताद्वैतविवर्जितम् ।
चिदाकाशं जगद् विद्धि शून्यम् अच्छं निरामयम् ॥
शान्ताशेषविशेषो ऽहं तेन राघव संस्थितः ।
सन्न् एवासन्न् इवातस् त्वम् एवम् एवास्स्व निर्ममः ॥
निर्वासनश् शान्तमना मौनी विगतचापलः ।
सर्वं कुरु यथाप्राप्तं कुरु वा मात्र किं ग्रहः ॥
अनादिनित्यानुभवो य एकस् स एव दृश्यं न तु दृश्यम् अन्यत् ।
सत्यानुभूतेर् अनुभूतयो यास् सुविस्तृता दृश्यमहादृशस् ताः ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0