भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.23

6.23.1

ततो जगति जातेषु भगवन् युष्मदादिषु ।
भरद्वाजपुलस्त्यात्रिनारदेन्द्रमरीचिषु ॥

6.23.2

पुलहोद्दालकाद्येषु क्रतुभृग्वङ्गिरस्सु च ।
सनत्कुमारभृङ्गीशस्कन्देभवदनादिषु ॥

6.23.3

गौरीसरस्वतीलक्ष्मीगायत्र्याद्यासु भूरिषु ।
मेरुमन्दरकैलासहिमवद्दर्दुरादिषु ॥

6.23.4

हयग्रीवहिरण्याक्षकालनेमिबलादिषु ।
हिरण्यकशिपुक्राथबडिप्रह्लादकादिषु ॥

6.23.5

निमिन्यङ्कुपृथुप्रोथवैन्यनाभागकेलिषु ।
नलमान्धातृसगरदिलीपनहुषादिषु ॥

6.23.6

आत्रेयव्यासवाल्मीकिवत्सवात्स्यायनादिषु ।
उपमन्युमनीमङ्किभगीरथशुकादिषु ॥

6.23.7

अल्पकातीतकालेषु किञ्चिद् दूरेषु केषुचित् ।
तथाद्यतनसर्गेषु स्मरणे गणनैव का ॥

6.23.8

मुने ते ब्रह्मपुत्रस्य जन्माष्टमम् इदं किल ।
संस्मराम्य् अष्टमे सर्गे त्व् अस्मिंस् त्वं मम सङ्गतः ॥

6.23.9

कदाचिज् जायसे व्योम्नः कदाचिज् जायसे जलात् ।
कदाचिज् जायसे शैलात् कदाचिज् जायसे ऽनलात् ॥

6.23.10

यादृशो यादृशाचारो यादृक्संस्थानदिग्गणः ।
सर्गो ऽयं तादृशान् एव त्रीन् सर्गान् संस्मराम्य् अहम् ॥

6.23.11

एकरूपाखिलाचारसन्निवेशनरामरान् ।
समकालाखिलस्थैर्यान् दश सर्गान् स्मराम्य् अहम् ॥

6.23.12

अन्तर्धानं गता देवा वारपञ्चकम् उद्धृताः ।
मुने पञ्चसु सर्गेषु कूर्मा इव पयोनिधेः ॥

6.23.13

मन्दराकर्षणावेगपर्याकुलसुरासुरम् ।
स्मरामि द्वादशं चेदम् अमृताम्भोधिमन्थनम् ॥

6.23.14

सर्वौषधिरसोपेतां बलिं ग्राहस् तटाद् इव ।
वारत्रयं हिरण्याक्षो नीतवान् वसुधाम् अधः ॥

6.23.15

रेणुकात्मजतां गत्वा षष्ठं वारम् इमं हरिः ।
बहुसर्गान्तरेणापि चकार क्षत्रियक्षयम् ॥

6.23.16

शतं कलियुगानां च हरेर् बुद्धदशाशतम् ।
शाक्यराजतयैवाप्तं स्मरामि मुनिनायक ॥

6.23.17

त्रिंशत्त्रिपुरविक्षोभान् द्वौ दक्षाध्वरसङ्क्षयौ ।
दश शुक्रविघातांश् च चन्द्रमौलेस् स्मराम्य् अहम् ॥

6.23.18

बाणार्थम् अष्टौ सङ्ग्रामाज् ज्वरप्रमथनायकान् ।
विक्षोभितसुरानीकान् स्मरामि हरिशर्वयोः ॥

6.23.19

युगं प्रति धियां पुंसाम् ऊनाधिकतया मुने ।
क्रियाङ्गपाठवैचित्र्ययुक्तान् वेदान् स्मराम्य् अहम् ॥

6.23.20

एकाग्राणि समग्राणि बहुपाठानि मे ऽनघ ।
पुराणानि प्रवर्तन्ते विवृतानि युगं प्रति ॥

6.23.21

पुनस् तान् एव तान् एवम् अन्यान् अपि युगे युगे ।
देवर्षिविप्ररचितान् इतिहासान् स्मराम्य् अहम् ॥

6.23.22

इतिहासं महाश्चर्यम् अन्यं रामायणाभिधम् ।
ग्रन्थलक्षप्रमाणं सज् ज्ञानशास्त्रं स्मराम्य् अहम् ॥

6.23.23

रामवद् व्यवहर्तव्यं न रावणविलासवत् ।
इति यत्र धिया ज्ञानं हस्ते फलम् इवार्पितम् ॥

6.23.24

कृतं वाल्मीकिना चैतद् अधुना च करिष्यति ।
अद्य त्व् अप्रकटं लोके स्थितं ज्ञास्यति कालतः ॥

6.23.25

वाल्मीकिनाम्ना जीवेन तेनैवान्येन चाक्षतम् ।
एतत् तद् द्वादशं वारं क्रियते विस्मृतिं गतम् ॥

6.23.26

द्वितीयम् एतस्य समं भारतं नाम नामतः ।
स्मरामि प्राक्तनव्यासकृतं जगति विस्मृतम् ॥

6.23.27

व्यासाभिधेन जीवेन तथैवान्येन चाक्षतम् ।
एतत् तु सप्तमं वारं क्रियते विस्मृतिं गतम् ॥

6.23.28

आख्यानकानि शास्त्राणि विवृतानि युगं प्रति ।
विचित्रसन्निवेशानि संस्मरामि मुनीश्वर ॥

6.23.29

पुनस् तान्य् एव तान्य् एव तथान्यानि युगे युगे ।
साधो पदार्थजालानि प्रपश्यामि स्मरामि च ॥

6.23.30

राक्षसक्षतये विष्णोर् महीम् अवतरिष्यतः ।
अधुनैकादशं जन्म रामनाम्नो भविष्यति ॥

6.23.31

वसुदेवगृहे विष्णोर् भुवो भारनिवृत्तये ।
अधुना षोडशं जन्म भविष्यति मुनीश्वर ॥

6.23.32

नारसिंहेन वपुषा हिरण्यकशिपुं हरिः ।
जघान वारत्रितयं मृगेन्द्र इव वारणम् ॥

6.23.33

जगत्त्रयीभ्रान्तिर् इयं न कदाचिन् न विद्यते ।
विद्यते न कदाचिच् च जलबुद्बुदवत् स्थिता ॥

6.23.34

दृश्यभ्रान्तिर् अनिष्ठेयम् अन्तस्स्था संविदात्मनि ।
जायते लीयते चाशु लोला वीचिर् इवाम्भसि ॥

6.23.35

समैकसन्निवेशानि बहूनि विषमाणि च ।
तथार्धसमरूपाणि त्रिजगन्ति स्मराम्य् अहम् ॥

6.23.36

तान्य् एव तादृक्कर्माणि तथान्याचरणानि च ।
तत्कर्माणि तथान्यानि भूतानीह स्मराम्य् अहम् ॥

6.23.37

प्रतिमन्वन्तरं ब्रह्मन् विपर्यस्ते जगत्क्रमे ।
सन्निवेशे ऽन्यथा जाते प्रयाते संस्तुते जने ॥

6.23.38

ममान्यानि च मित्राणि ते ऽन्य एव च बन्धवः ।
अन्य एव नवा भृत्या अन्य एव समाश्रयाः ॥

6.23.39

कदाचिद् अहम् एकान्ते विन्ध्यमूललताश्रयः ।
कदाचिन् मेरुशृङ्गाग्रकल्पवृक्षलताश्रयः ॥

6.23.40

कदाचित् सह्यनिलयः कदाचिद् दर्दुरालयः ।
कदाचिद् धिमवद्वासी कदाचिन् मलयाश्रयः ॥

6.23.41

कदाचित् प्राक्तनेनैव सन्निवेशेन भूधरम् ।
वनं वृक्षं च शाखां च प्राप्य नीडं करोम्य् अहम् ॥

6.23.42

अद्यानन्तेषु यातेषु युगेषु मुनिनायक ।
प्राक्तनेनैव जातो ऽयं सन्निवेशेन पादपः ॥

6.23.43

ताते जीवति यैवाभूच् छोभास्य सुतरोस् तया ।
कृतप्राक्सन्निवेशो ऽयम् अहं स्थितिम् उपागतः ॥

6.23.44

नेहाभूद् उत्तरा पूर्वं ककुम् नायं च भूधरः ।
दिग् उत्तराभूद् अन्यैव पूर्वं मेरुमहीधरा ॥

6.23.45

एकैकदेहसंस्थाननीतब्रह्मनिशागमः ।
ध्यानान्ते खस्थ एवैतत् सर्गम् आलोक्य वेद्म्य् अहम् ॥

6.23.46

अर्कादेर् ऋक्षसञ्चारान् मेर्वादेस् स्थानकाद् दिशाम् ।
संस्थानम् अन्यथा तस्मिन् स्थिते यान्ति दिशो ऽन्यथा ॥

6.23.47

न सन् नासज् जगन् मन्ये भ्रमो ऽयं केवलं धियः ।
आत्मस्पन्दचमत्कारविभवो ऽयं विजृम्भते ॥

6.23.48

पुत्रः पितृत्वम् आयातो मित्राणि त्व् अरितां तथा ।
स्त्रीत्वं च शतशो यातान् पुंसश् चैव स्मराम्य् अहम् ॥

6.23.49

कलौ कृतयुगाचारान् कृते कलियुगस्थितीः ।
त्रेतायां द्वापरे चैव संस्मरामि मुनीश्वर ॥

6.23.50

अदृष्टवेदवेदार्थान् स्वसङ्केतविहारिणः ।
सर्गान् निरर्गलाचारान् क्वचित् कांश्चित् स्मराम्य् अहम् ॥

6.23.51

ध्यातरि ब्रह्मणि ब्रह्मन् ससुरासुरमानुषम् ।
चतुर्युगसहस्रे द्वे जगच् छून्यं स्मराम्य् अहम् ॥

6.23.52

विचित्रसंस्थानविशेषदेशान् विचित्रकार्याकुलभूतकोशान् ।
विचित्रविन्यासविलासवेषान् स्मराम्य् अहं ब्रह्मदिनेष्व् अशेषान् ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc