मोक्षोपाय · अध्याय 6.22
युगक्षोभेषु घोरेषु वात्यासु विषमासु च ।
सुस्थिरः कल्पवृक्षो ऽयं न कदाचन कम्पते ॥
अगम्यो ऽयं समग्राणां लोकान्तरविहारिणाम् ।
भूतानां तेन तिष्ठामस् सुखम् अस्मिन् वनस्पतौ ॥
हिरण्याक्षो धरापीठं द्वीपसप्तकवेष्टितम् ।
यदा जहार तरसा नाकम्पत तदा द्रुमः ॥
यदा दोलायितवपुर् बभूवामरपर्वतः ।
सर्वतो दत्तझम्पाद्रिर् नाकम्पत तदा द्रुमः ॥
भुजावष्टम्भविनमन्मेरुर् नारायणो यदा ।
मन्दरं प्रोद्दधाराद्रिं नाकम्पत तदा द्रुमः ॥
उन्मूलिताद्रीन्द्रशिला यदोत्पातानिला ववुः ।
आधूतमेरुतरवस् तदा नाकम्पत द्रुमः ॥
यदा सुरासुरक्षोभस्फुरच्चन्द्रार्कमण्डलम् ।
आसीज् जगद् अतिक्षुब्धं तदा नाकम्पत द्रुमः ॥
यदा क्षीरोदलोलाद्रिकन्दरानिलकम्पिताः ।
कल्पाभ्रपङ्क्तयः पेतुस् तदा नाकम्पत द्रुमः ॥
यदा समन्ततो मेरुः कालनेमिभुजान्तरे ।
किञ्चिद् उन्मूलितो ऽतिष्ठत् तदा नाकम्पत द्रुमः ॥
पक्षीशपक्षपवना अमृताक्रान्तिसङ्गरे ।
यदा ववुः पतत्सिद्धास् तदा नाकम्पत द्रुमः ॥
यदा शेषाकृतिं कर्षन्न् असमाप्तैकवेष्टनात् ।
ययौ गरुत्मान् अमृतं तदा नाकम्पत द्रुमः ॥
यदा कल्पानलशिखाश् शैलाब्धिवलनोल्बणाः ।
शेषः फणाभिस् तत्याज तदा नाकम्पत द्रुमः ॥
एवंरूपे द्रुमवरे तिष्ठताम् आपदः कुतः ।
अस्माकं मुनिशार्दूल दौस्स्थित्येन किलापदः ॥
कल्पान्तेषु महाबुद्धे वहत्स्व् अग्न्यम्बुवायुषु ।
प्रतपत्सु तथार्केषु कथं तिष्ठसि विज्वरम् ॥
यदोपयाति कल्पान्तव्यवहारो जगत्स्थितौ ।
कृतघ्न इव सन्मित्रं तदा नीडं त्यजाम्य् अहम् ॥
आकाश एव तिष्ठामि विगताखिलकल्पनम् ।
स्तब्धप्रसृतसर्वाङ्गो मनो निर्वासनं यथा ॥
प्रतपन्ति यदादित्यास् सलिलीकृतभूधराः ।
वारुणीं धारणां बद्ध्वा तदा तिष्ठामि धीरधीः ॥
यदा शकलिताद्रीन्द्रा वान्ति प्रलयवायवः ।
पार्वतीं धारणां बद्ध्वा खे तिष्ठाम्य् अचलस् तदा ॥
जगद् गलितमेर्वादि यात्य् एकार्णवतां यदा ।
वायवीं धारणां बद्ध्वा खं प्लवे ऽचलधीस् तदा ॥
ब्रह्माण्डपारम् आसाद्य तत्त्वान्ते विमले पदे ।
सुषुप्तावस्थया तावत् तिष्ठाम्य् अचलरूपया ॥
यावत् पुनः कमलजस् सृष्टिकर्मणि तिष्ठति ।
ततः प्रविश्य ब्रह्माण्डं तिष्ठामि पतगालये ॥
यथा तिष्ठसि पक्षीश धारणाभिर् अखण्डितः ।
कल्पान्तेषु तथा कस्मान् नान्ये तिष्ठन्ति योगिनः ॥
ब्रह्मन् नियतिर् एषा हि दुर्लङ्घ्या पारमेश्वरी ।
मयेदृशेन वै भाव्यं भाव्यम् अन्यैस् तु तादृशैः ॥
न शक्यते तोलयितुम् अवश्यभवितव्यता ।
यद् यथा तत् तथैतद् धि स्वभावस्यैष निश्चयः ॥
मत्सङ्कल्पवशेनैव कल्पे कल्पे पुनः पुनः ।
अस्मिन्न् एव गिरेश् शृङ्गे तरुर् इत्थं भवत्य् अयम् ॥
अत्यन्तम् एव दीर्घायुर् भवान् विहगनायक ।
ज्ञानविज्ञानवान् वीरो योगयोग्यमनोगतिः ॥
दृष्टानेकविधानल्पसर्गसङ्घसमागमः ।
किं किं स्मरसि कल्याणिंश् चित्रम् अस्मिञ् जगत्त्रये ॥
बृहद्गिरिशिलारूक्षाम् अजाततृणवीरुधम् ।
अशैलवनवृक्षौघां स्मरामीमां धराम् अधः ॥
दशवर्षसहस्राणि दशवर्षशतानि च ।
भस्मभारभरापूर्णां स्मरामीमां धराम् अधः ॥
अनुत्पन्नदिनाधीशाम् अजातशशिमण्डलाम् ।
अविभक्तदिनालोकां संस्मरामि धराम् अधः ॥
मेरुरत्नतटोद्द्योतैर् अर्धप्रकटकोटरम् ।
लोकालोकम् इवाद्याद्रिं भुवनं संस्मराम्य् अहम् ॥
प्रवृद्धासुरसङ्ग्रामे म्रियमाणान् नरान् इव ।
पलायमानान् अभितस् संस्मरामि सुरान् अहम् ॥
चतुर्युगानि पञ्चाशद् असुरैर् मत्तकाशिभिः ।
दैत्यान्तःपुरतां प्राप्तां संस्मरामि धराम् इमाम् ॥
अत्यन्तान्तरितान्तान्तसमस्तासुरमण्डलाम् ।
अजदेवत्रयीशेषां संस्मरामि जगत्कुटीम् ॥
चतुर्युगार्धं चरमं नीरन्ध्रां घनपादपैः ।
अदृष्टनरनिर्माणां संस्मरामि धराम् इमाम् ॥
एवं चतुर्युगं साग्रं नीरन्ध्रैर् अचलैर् युताम् ।
अप्रवृत्तजनाचारां संस्मरामि धराम् इमाम् ॥
अजातषण्मुखां मत्ततारकोद्वासितामराम् ।
दैत्यपक्षजयोद्रिक्तां संस्मरामि जगत्कुटीम् ॥
चतुर्युगानि त्रीण्य् अम्बुपूरप्लुतककुम्मुखीम् ।
मेरुदण्डाङ्कितां मध्ये संस्मरामि धराम् इमाम् ॥
भयाद् अन्तर्हिताशेषवैमानिकनभश्चराम् ।
द्यां निरृक्षनिशेशार्कां संस्मरामि तमोमयीम् ॥
अनगस्त्याम् अगस्त्याशाम् एकपर्वततां गतां ।
मत्ते विन्ध्यमहाशैले संस्मरामि जगत्कुटीम् ॥
एतांश् चान्यांश् च वृत्तान्तान् संस्मरामि बहून् अपि ।
किं तेन बहुनोक्तेन सारं सङ्क्षेपतश् शृणु ॥
असङ्ख्यातान् मनून् ब्रह्मन् स्मरामि शतशो गतान् ।
सर्गान् आरम्भबहुलांश् चतुर्युगशतानि च ॥
एकदेवमयं शुद्धं पुरुषासुरवर्जितम् ।
अलोकत्रितयं चैकस्वर्गं सर्गं स्मराम्य् अहम् ॥
सुरापब्राह्मणं मत्तं निषिद्धसुरशूद्रकम् ।
बहुनाथसतीकं च कञ्चित् सर्गं स्मराम्य् अहम् ॥
वृक्षनीरन्ध्रभूलोकम् अकल्पितमहार्णवम् ।
स्वर्गसञ्जातपुरुषं कञ्चित् सर्गं स्मराम्य् अहम् ॥
अपर्वतम् अभूमिं च व्योमस्थामरमानवम् ।
अचन्द्रार्कप्रकाशाढ्यं कञ्चित् सर्गं स्मराम्य् अहम् ॥
अनिन्द्रम् अमहीपालम् अमध्यस्थाधमोत्तमम् ।
समसर्वककुब्भूतं कञ्चित् सर्गं स्मराम्य् अहम् ॥
सर्गप्रारम्भकलनाविभागे भुवनत्रये ।
देवासुरविनिर्माणं द्वीपाब्धिवलयोदयः ॥
कुलपर्वतसंस्थानं जम्बुद्वीपे पृथक्स्थितिम् ।
वर्णधर्मधियं सृष्टिविभागं मण्डलावलेः ॥
ऋक्षचक्रकसंस्थानं ध्रुवनिर्माणम् एव च ।
जन्मेन्दुभास्करादीनाम् इन्द्रोपेन्द्रव्यवस्थितिः ॥
हिरण्याक्षापहरणं वराहोद्धरणं क्षितेः ।
कल्पनं पार्थिवानां च वेदानयनम् एव च ॥
मन्दरोद्धूननं चाब्धेर् अमृतार्थे च मन्थनम् ।
अजातपक्षो गरुडस् सागराणां च सम्भवः ॥
इत्यादिका यास् स्मृतयस् स्वल्पातीतमनुक्रमाः ।
बालैर् अपि हि तास् तात स्मर्यन्ते तासु किं ग्रहः ॥
गरुडवाहनम् अगरुडवाहनं सितविवाहनम् असितविवाहनम् ।
सुवृषवाहनम् असुवृषवाहनं कलितवान् अहम् अकलितजीवितः ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0