भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.225

6.225.1

ततḫ प्रतीपम् अभ्यासं बोधे धारणयामले ।
कुर्वḫ प्रकटतां तेन जगद् एष्यति शैलगम् ॥

6.225.2

युक्तियुक्ते तयेत्य् उक्ते विद्याधर्या धरोपरि ।
बद्धपद्मासनो ऽथाहं समाधाव् उदितो ऽभवम् ॥

6.225.3

सर्वार्थभावनात्यागे चिन्मात्रैकान्तभावितः ।
अत्यजं तम् अहं पूर्वं कथार्थकलनामलम् ॥

6.225.4

अथ चिद्व्योमतां प्राप्तḫ परां दृष्टिम् अहं गतः ।
शरत्समयसम्प्राप्तौ व्योम निर्मलताम् इव ॥

6.225.5

ततस् सत्यावधानैकघनाभ्यासेन देहके ।
ममाधिभौतिकभ्रान्तिर् नूनम् अस्तम् उपागता ॥

6.225.6

उदयास्तमयोन्मुक्ता सततोदयमय्य् अपि ।
महाचिद्व्योमता स्वच्छा प्रोदितेव तदाभवत् ॥

6.225.7

अथ पश्याम्य् अहं यावत् खस्यैवोपलतेव सा ।
वस्तुतश् च न चाकाशं नोपलḫ परम् एव तत् ॥

6.225.8

परमार्थघनं स्वच्छं तत् तथाभावि तादृशम् ।
तथाभावनया स्वात्मा मदीयो दृष्टवांस् तथा ॥

6.225.9

यथा स्वप्ने सुमहती दृष्टा गेहगता शिला ।
व्योमैव केवलं तद्वत् सा शुद्धं चिन्नभश् शिला ॥

6.225.10

स्वयं स्वप्नान्वितो ऽन्यस्य स्वप्नपुंस्त्वं गतो नरः ।
स्वप्ने ऽज्ञानप्रबुद्धस्य यादृक् तादृक् स सूपलः ॥

6.225.11

स्वप्नस्थानां शिरश् छिन्नं येषां ते संसृतौ स्थिताः ।
कालेन ज्ञानलाभेन विना कुर्वन्ति किं किल ॥

6.225.12

बोधẖ कालेन भवति महामोहवताम् अपि ।
तस्मान् न किञ्चिद् अप्य् अस्ति ब्रह्मतत्त्वाद् ऋते ऽक्षयम् ॥

6.225.13

अतस् तच् चिद्घनं स्वच्छं ब्रह्माकाशं शिलाकृति ।
दृष्टं मया तथा तत्र न तु पृथ्व्यादि सत् क्वचित् ॥

6.225.14

भूतानाम् आदिसर्गे यच् छुद्धं यत् पारमार्थिकम् ।
वपुस् तद् एवाद्य तेषां ध्यानलभ्यम् अवस्थितम् ॥

6.225.15

ब्राह्मं वपुर् हि भूतानाम् आत्मीयं यत् पुरातनम् ।
तद् एवाद्य मनोराज्यं सङ्कल्प इति कथ्यते ॥

6.225.16

स आतिवाहिको देहस् तत् परं परमार्थतः ।
प्रत्यक्षं प्रथमं तत् तत् तद् आद्यं कचनं चितः ॥

6.225.17

तद् यत् प्रथमम् अध्यक्षं जीवस्य प्रथमं वपुः ।
मनḫप्रत्यक्षम् इत्य् उक्तं तत् तेनैवाद्य दुर्धिया ॥

6.225.18

योगिप्रत्यक्षम् इत्य् उक्तं मनḫप्रत्यक्षम् इत्य् अपि ।
तत् स्वम् एव चिता रूपं गतयेवान्यतां मुधा ॥

6.225.19

इदम् अद्यतनं नाम प्रत्यक्षम् असदुत्थितम् ।
असत्प्रत्यक्षम् एवेति विद्धि प्रत्यक्षम् अङ्ग तत् ॥

6.225.20

अहो नु चित्रा माया यत् प्राक्प्रत्यक्षे परोक्षता ।
निर्णीतास्मिंस् त्व् अनध्यक्षे प्रत्यक्षकलनादृता ॥

6.225.21

आतिवाहिकदेहित्वं प्रत्यक्षं प्रथमोदितम् ।
सत्यं सर्वगतं विद्धि मायैव त्व् आधिभौतिकम् ॥

6.225.22

अनुभूतापि नास्त्य् एव हेम्नẖ कटकता यथा ।
तथातिवाहिकस्याधिभौतिकत्वं न विद्यते ॥

6.225.23

भ्रमम् अभ्रमतां यातम् अभ्रमं भ्रमतां गतम् ।
वेत्ति जीवो विचारेण विनाहो नु विमूढता ॥

6.225.24

आधिभौतिकदेहो ऽयं विचारेण न लभ्यते ।
आतिवाहिकदेहस् तु किल लोकद्वये ऽक्षयः ॥

6.225.25

आधिभौतिकचिद् रूढा स्वातिवाहिकदेहके ।
मरौ मरीचिकास्व् एव यथा मिथ्यैव वारिधीः ॥

6.225.26

जाताधिभौतिकी संविद् आतिवाहिकवित्क्रमे ।
देहदृष्टिवशात् प्रौढा स्थाणौ पुरुषधीर् इव ॥

6.225.27

शुक्तौ रजतता तापे जलतेन्दौ यथा द्विता ।
आधिभौतिकता तद्वन् मनोजैवातिवाहिके ॥

6.225.28

यद् असत् तत् कृतं सत्यं यत् सत्यं तद् असत् कृतम् ।
अहो नु मोहमाहात्म्यं जीवस्यास्याविचारजम् ॥

6.225.29

योगिप्रत्यक्षम् एवास्ति किञ्चिद् अस्ति तु मानसम् ।
यस्माल् लोकद्वयाचारस् ताभ्याम् एव प्रसिध्यति ॥

6.225.30

आद्यं प्रत्यक्षम् उत्सृज्य यो ऽसत्ये ऽस्मिन् कृतस्थितिः ।
प्रत्यक्षे मृगतृष्णाम्बु पीत्वा स सुखम् आस्थितः ॥

6.225.31

तत् सुखं दुẖखम् एवाहुẖ क्षणनाशानुभूतितः ।
अकृत्रिमम् अनाद्यन्तं यत् सुखं तत् सुखं विदुः ॥

6.225.32

प्रत्यक्षेणैवम् अध्यक्षं प्रत्यक्षं प्रविचार्यताम् ।
यद् आद्यं यत् सद् अध्यक्षं तत् प्रत्यक्षेण दृश्यताम् ॥

6.225.33

लोकद्वयानुभवदं त्यक्त्वा प्रत्यक्षम् ऐहिकम् ।
मायात्मकं यो गृह्णाति नास्ति मूढतमस् ततः ॥

6.225.34

आतिवाहिकम् एवैषां भूतानां विद्यते वपुः ।
तत्राधिभौतिकभ्रान्तिर् असत्यैव पिशाचिका ॥

6.225.35

अजातसङ्कल्पमयं प्रत्यक्षं सत् कथं भवेत् ।
स्वयम् एव न यत् सत्यं तत् सत्कार्यकरं कथम् ॥

6.225.36

यत्र प्रत्यक्षम् एवासद् अन्यत् किं तत्र सद् भवेत् ।
क्व तत् सिद्धं भवेद् वस्तु यद् असिद्धेन साध्यते ॥

6.225.37

प्रत्यक्ष एव भावत्वे नष्टे क्वेवानुमादयः ।
उह्यन्ते वारणा यत्र तत्रोर्णायुषु का कथा ॥

6.225.38

अतḫ प्रमाणसंसिद्धेर् दृश्यं नास्त्य् एव कुत्रचित् ।
अन्यद् यद् इदम् अस्तीव तत् तद् ब्रह्मघनं घनम् ॥

6.225.39

स्वप्ने द्रष्टुẖ खम् एवाद्रिर् गेहे नान्यस्य वै यथा ।
तथा तद्भावनवतोर् आवयोस् सा शिलैव चित् ॥

6.225.40

अयं शैल इदं व्योम जगद् एतद् इदं त्व् अहम् ।
इति चिन्मय आत्मान्तẖ खं चमत्कुरुते स्वयम् ॥

6.225.41

पश्यत्य् एतत् प्रबुद्धात्मा नाप्रबुद्धẖ कदाचन ।
श्रोतुẖ कथार्थसंवित्तिर् नाश्रोतुर् भवति क्वचित् ॥

6.225.42

अप्रबुद्धमतेर् भ्रान्तिर् एवेयं सत्यतां गता ।
क्षीवस्य सुस्थिता एव नृत्यन्ति तरुपर्वताः ॥

6.225.43

सर्वत्राप्रतिहतरूपम् एकबोधं प्रत्यक्षं शिवम् अवबुध्य चित्स्वरूपम् ।
प्रत्यक्षान्तरम् इह पेलवं श्रयन्ते ये मूढास् तृणतनुभिश् शठैर् अलं तैः ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc