मोक्षोपाय · अध्याय 6.226
जगदङ्गम् अनाभासम् अदृश्यं दृश्यवत् स्थितम् ।
परया दृश्यते दृष्ट्या तद् ब्रह्मैव निरामयम् ॥
तत्र शैलसरित्स्रोतोलोकलोकान्तरभ्रमाः ।
भान्ति ते परमादर्शे महाव्योमनि बिम्बिताः ॥
सा प्रविष्टा ततस् सर्गम् अनर्गलम् अचेष्टिता ।
अहम् अप्य् अविशं तत्र सङ्कल्पेन तया सह ॥
यावत् सा तत्र वैरिञ्चं लोकम् आसाद्य सोद्यमा ।
उपविष्टा विरिञ्चस्य पुरḫ परमशोभना ॥
वक्तव्यो मुनिशार्दूल पतिर् मे पाति माम् इमाम् ।
विवाहार्थम् अनेनाहं जनिताजरसा पुरा ॥
पुराणḫ पुरुषो ऽप्य् एष माम् अद्यापि जरां गताम् ।
न विवाहितवांस् तेन विरागम् अहम् आगता ॥
विरागम् एषो ऽप्य् आयातो गन्तुम् इच्छति तत् पदम् ।
यत्र न द्रष्टृता नैव दृश्यता न च शून्यता ॥
महाप्रलयसम्पन्ने जगत्य् अस्मिंश् च सम्प्रति ।
ध्यानाच् च न चलत्य् एष शैलमौनाद् इवाचलः ॥
तस्मान् माम् एनम् अपि च बोधयित्वा मुनीश्वर ।
आमहाकल्पसर्गादौ परमे पथि योजय ॥
इत्य् उक्त्वा माम् असौ तस्य बोधायेदम् उवाच ह ।
नाथायं मुनिनाथो नस् सद्म सम्प्राप्तवान् इदम् ॥
एषो ऽन्यस्मिञ् जगद्गेहे ब्रह्मणस् तनयो मुनिः ।
पूजयैनं गृहायातं गृहस्थगृहपूजया ॥
बुध्यताम् अर्घ्यपाद्येन पूज्यतां मुनिपुङ्गवः ।
महन् महत्सपर्या हि महात्मभ्यो ऽभिरोचते ॥
तयेत्य् उक्ते महाबुद्धिर् बुबुधे स समाधितः ।
स्वसंवित्तिद्रवात्मत्वाद् आवर्त इव वारिधौ ॥
शनैर् उन्मीलयाम् आस नयने नयकोविदः ।
मधुश् शिशिरसंशान्ताव् अवनौ कुसुमे यथा ॥
शनैḫ प्रकटयाम् आसुस् तान्य् अङ्गान्य् अस्य संविदम् ।
मधोḫ पल्लवजालानि नवानीव नवं रसम् ॥
सुरसिद्धाप्सरस्सङ्घास् समाजग्मुस् समन्ततः ।
यथा हंसालयो लोलाḫ प्रातर् विकसितं सरः ॥
ददर्शासौ पुरḫ प्राप्तं मां च तां च विलासिनीम् ।
उवाचाथ वचो वन्द्यḫ प्रणवस्वरसुन्दरम् ॥
करामलकवद्दृष्टसंसारासारसार हे ।
ज्ञानामृतमहाम्भोधे मुने स्वागतम् अस्तु ते ॥
पदवीम् असि सम्प्राप्त इमाम् अतिदवीयसीम् ।
दूराध्वसु परिश्रान्त इदम् आसनम् आस्यताम् ॥
इत्य् उक्ते तेन भगवन्न् अभिवादय इत्य् अहम् ।
वदन् मणिमये पीठे निविष्टो दृष्टिदर्शिते ॥
अथामरर्षिगन्धर्वमुनिविद्याधरोदिताः ।
प्रस्तुतास् स्तुतयḫ पूजा नतयस् स्थितिनीतयः ॥
ततो मुहूर्तमात्रेण सर्वभूतगणोत्थिते ।
शान्ते प्रकृतसंरम्भे तस्योक्तं ब्रह्मणो मया ॥
किम् इदं भूतभव्येश यद् इयं माम् उपागता ।
वक्ति ज्ञानगिरास्मांस् त्वं बोधयेति प्रयत्नतः ॥
भवान् भूतेश्वरो देवस् सकलज्ञानपारगः ।
इयं च का मम च किं ब्रूते ब्रूहि बृहद्द्युते ॥
कथम् एषा त्वया देव जायार्थं जनिता सती ।
नेह जायापदं नीता नीता विरसतां पुनः ॥
मुने शृणु यथावृत्तम् इदं ते कथयाम्य् अहम् ।
यथावृत्तम् अशेषेण कथनीयं यतस् सताम् ॥
अस्ति तावद् अजं शान्तम् अजरं किञ्चिद् एव सत् ।
ततश् चित्कचनैकान्तरूपिणẖ कचितो ऽस्म्य् अहम् ॥
आकाशरूप एवाहं स्थित आत्मनि सर्वदा ।
भविष्यति स्थिते सर्गे स्वयम्भूर् इति नाम मे ॥
वस्तुतस् तु न जातो ऽस्मि न च नश्यामि किञ्चन ।
चिदाकाशश् चिदाकाशे तिष्ठाम्य् अहम् अनावृतः ॥
यद् अयं त्वं ममाहं ते यद् इदं कथनं मिथः ।
तत् तरङ्गस् तरङ्गाग्रे रणत्य् एवेति मे मतिः ॥
एवंरूपस्य मे कालवशतो विशदाकृतेः ।
सौकुमार्याच् चिदाभासमात्रस्यान्तस् स्वभावतः ॥
ममानन्या तवान्यस्य चान्येवेह विभाति या ।
सोदितानुदितैवान्तर् ममाहम् इति वासना ॥
अनाशसत्तामुदितस् त्व् अहम् आत्मनि संस्थितः ।
स्वभावाद् अच्युताकारस् स्वात्मारामस् स्वयंप्रभः ॥
तस्या अहम् इति भ्रान्तेर् वासनाया जगत्स्थितेः ।
सम्पन्नेयम् अधिष्ठातृदेवता देहरूपिणी ॥
वासनाया अधिष्ठातृदेवतैवम् इयं स्थिता ।
न तु मे गृहिणी नापि गृहिण्यर्थेन मत्कृता ॥
स्ववासनावेशवशेन भावं गृहिण्य् अहं ब्रह्मण इत्य् उपेत्य ।
एषा स्वयं व्यर्थम् इतातिदुẖखं यस्मात् किलैषैव हि वासनान्तः ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0