भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.224

6.224.1

यावस् तं सर्गम् आगच्छ प्रसादẖ क्रियतां मुने ।
आश्चर्येषूपपन्नेषु महान्तो ह्य् अतिकौतुकाः ॥

6.224.2

तयेत्य् उक्ते मया सार्धं गन्तुम् आरब्धम् अम्बरे ।
वात्यया सौरभेणेव शून्ये शून्येन शून्यया ॥

6.224.3

अथाहं दूरम् अध्वानं शून्यम् उल्लङ्घ्य नाभसम् ।
नाभसं भूतसञ्चारं तया सार्धम् अवाप्तवान् ॥

6.224.4

तम् उल्लङ्घ्य चिरेणात्र भूतसञ्चारम् आम्बरम् ।
लोकालोकशिरोव्योम प्राप्तो ऽस्मि धवलाम्बुदम् ॥

6.224.5

उत्तराशेन्दुशुभ्राभ्रपीठान् निर्गत्य तां शिलाम् ।
आनीतो ऽस्मि तयोत्तुङ्गां तप्तकाञ्चनकल्पिताम् ॥

6.224.6

यावत् पश्याम्य् अहं शुभ्रां शिलाम् एव न तज्जगत् ।
कलधौतमयीम् उच्चैर् अग्निलोकतटीम् इव ॥

6.224.7

तदा मयोक्ता सा कान्ता क्व भवत्सर्गभूर् इति ।
क्व चन्द्रार्काग्नितारादि क्व लोकान्तरसप्तकम् ॥

6.224.8

क्वार्णवाकाशककुभẖ क्वोन्मज्जननिमज्जने ।
क्व महाम्भोदसम्भारẖ क्व ताराम्बरडम्बरम् ॥

6.224.9

क्व शैलशिखरश्रेण्यः क्व महार्णवभूमिकाः ।
क्व द्वीपावलयस् सप्त क्व तप्तकनकावनिः ॥

6.224.10

क्व कार्यकालकलनाẖ क्व भूतभुवनभ्रमः ।
क्व विद्याधरगन्धर्वाẖ क्व नरामरदानवाः ॥

6.224.11

क्वर्षिभूपालमुनयẖ क्व नयापनयक्रमः ।
क्व यामायामयामिन्यẖ क्व स्वर्गनरकभ्रमः ॥

6.224.12

क्व पुण्यपापकलनाẖ क्व कलाकालकेलयः ।
क्वासुरामरवैराणि क्व द्वेषस्नेहरीतयः ॥

6.224.13

वदत्य् एवं मयि वचस् सोवाच वरवर्णिनी ।
विस्मयाकुलम् आलोक्य शिलाम् अलिविलोचना ॥

6.224.14

पश्याम्य् अखिलम् आत्मीयम् अहं सर्गम् इहोपले ।
मकुरप्रतिबिम्बस्थपुरान्यपुरवत् पुरः ॥

6.224.15

नित्यानुभव एवात्र दर्शने कारणं मम ।
तदभावो मुने मन्ये ते कारणम् अदर्शने ॥

6.224.16

अन्योऽन्यचिरकालैकद्वैतसङ्कथयानया ।
शुद्धातिवाहिकैकात्म्यदेहता विस्मृतावयोः ॥

6.224.17

ममातिसुचिराभ्यस्तम् अपि श्यामलताम् इव ।
गतं निजं जगद् इदं यतḫ पश्यामि न स्फुटम् ॥

6.224.18

अभूद् यत् स्वजगत् पूर्वम् अतिप्रकटम् एव मे ।
तत् पश्यामीदम् आदर्श इव बिम्बितम् अस्फुटम् ॥

6.224.19

चिरव्यर्थोत्थया नाथसङ्कथाव्यथया मिथः ।
स्वास्थ्यं विस्मृतम् आत्मीयम् अवदाततमं ततम् ॥

6.224.20

यो ऽभ्यासḫ प्रकचत्य् अन्तश् शुद्धचिन्नभसो रसात् ।
भवेत् तन्मयम् एवान्तर् आबालम् इति लक्ष्यते ॥

6.224.21

न तच् छास्त्रं न सा सिद्धिर् न स न्यायो न सा कला ।
अस्त्य् अनस्तमितोद्योगाद् यद् अभ्यासान् न सिध्यति ॥

6.224.22

स्वजगत्सन्तताभ्यासवशतो मां कथाभ्रमः ।
नूनम् आक्रान्तवान् एष द्वयोर् हि बलवाञ् जयी ॥

6.224.23

इष्टवस्त्वर्थिनां तज्ज्ञसूपदिष्टेन कर्मणा ।
पौनḫपुण्येन करणान् नेतरच् छरणं मुने ॥

6.224.24

अयम् इत्थम् इहाज्ञानभ्रमḫ प्रौढो ऽहमात्मकः ।
शाम्यति ज्ञानचर्चाभिḫ पश्याभ्यासविजृम्भितम् ॥

6.224.25

अज्ञो ऽपि तज्ज्ञताम् एति शनैश् शैलो ऽपि चूर्ण्यते ।
घुणो ऽप्य् अत्ति महावृक्षं पश्याभ्यासविजृम्भितम् ॥

6.224.26

अहं शिष्याबला बाला पश्यामि त्वं न पश्यसि ।
सर्वज्ञो ऽपि शिलासर्गं पश्याभ्यासविजृम्भितम् ॥

6.224.27

इत्थं नाम परिप्रौढा मिथ्याज्ञानविषूचिका ।
शाम्यत्य् एव विचारेण पश्याभ्यासविजृम्भितम् ॥

6.224.28

अभ्यासेन कटुद्रव्यं भवत्य् अभिमतं मुने ।
अन्यस्मै रोचते निम्बं त्व् अन्यस्मै मधु रोचते ॥

6.224.29

अबन्धौ घनताम् एति नैकट्याभ्यासयोगतः ।
यात्य् अनभ्यासतो दूरात् स्नेहो बन्धुषु तानवम् ॥

6.224.30

आतिवाहिकदेहो ऽयं शुद्धचिद्व्योम केवलम् ।
आधिभौतिकताम् एति भावनाभ्यासयोगतः ॥

6.224.31

आधिभौतिकदेहो ऽसौ धारणाभ्यासभावनात् ।
विहङ्गवत् खम् अभ्येति पश्याभ्यासविजृम्भितम् ॥

6.224.32

पुण्यानि यान्ति वैफल्यं वैफल्यं यान्ति मातरः ।
भाग्यानि यान्ति वैफल्यं नाभ्यासस् तु कदाचन ॥

6.224.33

दुस्साधास् सिद्धिम् आयान्ति रिपवो यान्ति मित्रताम् ।
विषाण्य् अमृततां यान्ति सन्तताभ्यासयोगतः ॥

6.224.34

येनाभ्यासḫ परित्यक्त इष्टे वस्तुनि सो ऽधमः ।
कदाचिन् न तद् आप्नोति वन्ध्या स्वतनयं यथा ॥

6.224.35

यद् अत्यभिमतं वस्तु स्वभ्यासो न तदर्जनात् ।
तद्युक्तिपूर्वकं त्याज्य आ मृत्योर् जीवितं यथा ॥

6.224.36

इष्टे वस्तुनि नाभ्यासं यẖ करोति नराधमः ।
सो ऽनिष्टानिष्टम् आप्नोति नरकान् नरकान्तरम् ॥

6.224.37

तरन्ति सरितं स्फारां संसारीं सारसेविनः ।
त एवात्मविचाराख्यम् अभ्यासं न त्यजन्ति ये ॥

6.224.38

अभ्यासभासो ऽभिमतं वस्तु प्रकटयन्त्य् अलम् ।
प्रापयन्ति च निर्विघ्नं घटं दीपप्रभा यथा ॥

6.224.39

यथा कल्पद्रुमलतास् सुचिन्तामणयो यथा ।
फलन्ति शरदश् चैतास् तथैवाभ्यासभूमयः ॥

6.224.40

इष्टवस्तु चिराभ्यासभास्वान् भासयति प्रजाः ।
तथेन्द्रियाख्यां देहोर्व्यां रात्रिं पश्यन्ति नो यथा ॥

6.224.41

सर्वस्य जन्तुजातस्य सर्ववस्त्ववभासने ।
सर्वदैवैक एवोच्चैर् जयत्य् अभ्यासभास्करः ॥

6.224.42

चतुर्दशविधायास् तु भूतजातेर् न कस्यचित् ।
सिध्यत्य् अभिमतं वस्तु विनाभ्यासम् अकृत्रिमम् ॥

6.224.43

पौनḫपुण्येन करणम् अभ्यास इति कथ्यते ।
पुरुषार्थस् स एवेह तेनास्ति न विना गतिः ॥

6.224.44

दृढाभ्यासविधानेन यत्ननाम्ना स्वकर्मणा ।
निजवेदनजेनैव सिद्धिर् भवति नान्यथा ॥

6.224.45

अभ्यासभास्वति तपत्य् अवनौ वने च वीरस्य सिध्यति न यन् न तद् अस्ति किञ्चित् ।
अभ्यासतो भुवि भयान्य् अभयीभवन्ति सर्वासु पर्वतगुहास्व् अपि निर्जनासु ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc