मोक्षोपाय · अध्याय 6.221
ततẖ कुवलयोल्लासिमालती सालिलोचना ।
ललना ललितालोक्य लीलया लपिता मया ॥
का त्वं कमलपत्त्राभे किमर्थं माम् उपागता ।
कस्यासि किं प्रार्थयसे क्वागतासि किमास्पदा ॥
मुने शृणु यथावत् त्वम् आत्मोदन्तं वदाम्य् अहम् ।
प्रष्टुम् अर्हसि विस्रब्धम् आर्तां करुणयार्थिनीम् ॥
परमाकाशकोशस्य कस्मिंश्चित् कोणकोटरे ।
युष्माकं संस्थितं किञ्चिद् इदं तावज् जगद्गृहम् ॥
पातालभूतलस्वर्गा इहाववरकास् त्रयः ।
कल्पनैककुमार्यान्तẖ कृता धातृत्वम् आप्तया ॥
तत्र द्वीपैस् समुद्रैश् च वलितं वलयैर् इव ।
पातालोत्थं जगल्लक्ष्म्याḫ प्रकोष्ठम् इव भूतलम् ॥
अन्ते द्वीपसमुद्राणां सर्वदिक्कम् अवस्थिता ।
योजनानां सहस्राणि दश हेममयी मही ॥
स्वयम्प्रकाशा सङ्कल्पफलदाम्बरनिर्मला ।
चिन्तामणिमयी स्वच्छा स्वच्छायाजितविष्टपा ॥
साप्सरोऽमरसिद्धानां लीलाविहरणावनिः ।
सङ्कल्पमात्रसम्पन्नसर्वसम्भोगसुन्दरी ॥
अन्ते तस्या भुवश् शैलो लोकालोको ऽस्ति विश्रुतः ।
भूपीठस्य प्रकोष्ठस्य वलयावलनां दधत् ॥
क्वचिन् नित्यं तमोव्याप्तो मूढबुद्धेर् इवाशयः ।
क्वचिन् नित्यं प्रकाशात्मा मनस् सत्त्ववताम् इव ॥
क्वचिद् आह्लादजनकस् साधूनाम् इव सङ्गमः ।
क्वचिद् उद्वेगजनको मूर्खैर् इव समागमः ॥
क्वचित् प्रकटसर्वार्थो मनो मतिमताम् इव ।
क्वचिद् अत्यन्तगहनो मूर्खश्रोत्रियचित्तवत् ॥
क्वचिद् अप्राप्तसूर्यांशुः क्वचित् सम्प्राप्तसूर्यभाः ।
क्वचिल् लोकमयस् तेन क्वचिद् आशून्यदिक्तटः ॥
क्वचिद् देवपुरव्याप्तẖ क्वचिद् दैत्यपुरान्वितः ।
क्वचित् पातालगहनẖ क्वचिच् छृङ्गोर्ध्वकन्दरः ॥
क्वचिच् छ्वभ्रभ्रमद्गृध्रẖ क्वचित् सानुमनोहरः ।
क्वचिच् छृङ्गशिखाक्रान्तवैरिञ्चनगरान्तरः ॥
क्वचिच् छून्यमहारण्यवहत्कल्पान्तमारुतः ।
क्वचित् पुष्पवनोद्यानगायद्विद्याधरीगणः ॥
क्वचित् पातालगम्भीरगुहाकुम्भाण्डभीषणः ।
क्वचिन् नन्दनसौन्दर्यमुन्याश्रममनोहरः ॥
क्वचिद् अक्षयमत्ताभ्रẖ क्वचिद् दुर्लभवारिदः ।
क्वचिद् गर्भगुहाश्वभ्रगहनोपान्तमण्डलः ॥
क्वचित् क्षुद्रजनाक्षेपसमुत्सादितभूतभूः ।
क्वचिद् वास्तव्यजनतासौन्दर्यजितविष्टपः ॥
क्वचिन् नित्यं वहद्वाताज्ञातस्थावरजङ्गमः ।
क्वचिन् महामरुमरुन्मत्तभाङ्कारभीषणः ॥
क्वचित् क्वणत्कमलिनीमत्तसारसभूषणः ।
क्वचित् सलिलकल्लोलजलदोल्लासघर्घरः ॥
क्वचिन् मत्ताप्सरोदोलाविलासजनितस्मरः ।
क्वचित् पिशाचकुम्भाण्डचेष्टिताविष्टदिक्तटः ॥
क्वचिद् विद्याधरीसिद्धगीतनृत्तलसत्तटः ।
क्वचिद् उद्वर्षदम्भोदसरिद्वाहलुठत्तटः ॥
क्वचित् सततगानीतनीतनानाभ्रसत्पटः ।
क्वचित् कमलिनीकोशचक्रस्थध्यानिमण्डलः ॥
क्वचित् सर्वाङ्गनासिद्धसुन्दरीदत्तमण्डनः ।
क्वचित् तपद्दिनकरजनिताचारसुन्दरः ॥
क्वचिन् नैशतमोगेहनृत्तोन्मत्तनिशाचरः ।
क्वचिद् उत्पतदुत्पाततया नश्यज्जनावनिः ॥
क्वचित् सौराज्यसम्पत्त्या प्रोद्भवत्पुरमण्डलः ।
क्वचिद् अत्यन्तनिश्शून्यẖ क्वचिज् जनपदावृतः ॥
क्वचिच् छुभ्राभ्रगम्भीरẖ क्वचित् पातालभीषणः ।
क्वचिद् बृहत्कल्पतरुẖ क्वचिन् निर्जलजङ्गलः ॥
क्वचिन् महाकरिकुलः क्वचिन् मत्तहरिव्रजः ।
क्वचिन् निर्भूतसूद्यानẖ क्वचिद् उन्मत्तराक्षसः ॥
क्वचित् करञ्जगहनẖ क्वचित् सर्वर्तुकाननः ।
क्वचिद् व्योमोपमसराẖ क्वचिद् दीर्घमरुस्थलः ॥
शिखरेषु शिलास् तस्य सामान्याचलसन्निभाः ।
सन्ति सुस्थितकल्पाभ्रा रत्नमय्यो ऽम्बरामलाः ॥
क्षीरोदजार्कगौरीणां वातस्कन्धौकसाम् अपि ।
विश्राम्यन्त्य् अनिशं यासु हरयो हारियोनयः ॥
तासाम् उत्तरदिग्भागे पूर्वशृङ्गशिलोदरे ।
निवसाम्य् अहम् अक्षीणवज्रसारसमत्वचि ॥
विधिना तत्र बद्धास्मि नद्धास्म्य् उपलयन्त्रकैः ।
अत्रासङ्ख्या मुने याता मन्ये युगगणा मम ॥
न केवलम् अहं बद्धा यावद् भर्तापि तत्र मे ।
बद्धस् सायन्तने पद्मकुट्मले षट्पदो यथा ॥
तेन सार्धं मया भर्त्रा शिलाकोटरसङ्कटम् ।
अनुभूतं चिरं कालम् अत्र वर्षगणा गताः ॥
अद्याप्य् आत्मैकदोषेण न हि मोक्षं लभावहे ।
चिरं तत्रैव तिष्ठावस् तथैवाबद्धभावनौ ॥
पाषाणसङ्कटे तस्मिन् बद्धाव् आवां न केवलम् ।
बद्धो यावद् अशेषेण परिवारो ऽपि तत्र नः ॥
पुराणḫ पुरुषो वृद्धो द्विजस् तत्रास्ति मे पतिः ।
एकस्थानान् न चलति जीवत्य् अब्दशतान्य् असौ ॥
आ बाल्याद् ब्रह्मचारी च श्रोत्रियḫ पाठको ऽलसः ।
एकान्त एक एवास्ते ऽजिह्मवृत्तिर् अचापलः ॥
अहं व्यसनिनी भार्या तस्य वेद्यविदां वर ।
न निमेषं समर्थास्मि तं विना देहधारणे ॥
शृणु तेन कथं ब्रह्मन् भार्याहं समुपार्जिता ।
कथं वृद्धिम् अयं यातस् स्नेहो ऽस्माकम् अकृत्रिमः ॥
तेन जातेन मद्भर्त्रा बालेनैव सता पुरा ।
किञ्चिज्ज्ञेन सतैकेन तिष्ठतात्मालये ऽमले ॥
श्रोत्रियत्वानुरूपेह जाया मे जन्मशालिनी ।
कुतस् सम्भवतीत्य् एव निर्णीय चिरचिन्तया ॥
स्वयम् एवानवद्याङ्गी तेन तामरसेक्षणा ।
उत्पादितास्मि नाथेन ज्योत्स्नेव शशिनामला ॥
मनसा मानसी भार्या मन्दारोदरसुन्दरी ।
ततो वृद्धिं प्रयातास्मि वसन्त इव मञ्जरी ॥
सहजाम्बरसञ्छन्ना भूतानां चित्तहारिणी ।
पूर्णेन्दुबिम्बवदना द्यौर् इवामलतारका ॥
कोरकोच्चस्तनभरा समग्ररसशालिनी ।
लता वरवने नेव करपल्लवलासिनी ॥
सर्वस्य जन्तुजातस्य नित्यं हृदयहारिणी ।
हरिणीहारिनयना मदनोन्माददायिनी ॥
लीलाविलासैकरता हेलावलितलोचना ।
गेयवाद्यप्रिया नित्यं नवनृत्तानुरागिणी ॥
सौभाग्यभोगपरमा लक्ष्म्यलक्ष्म्योḫ प्रिया सखी ।
अनन्या मोहजालानाम् अखिन्ना सम्पदापदोः ॥
न केवलम् अहं गेहं धारयामि द्विजन्मनः ।
यावत् त्रैलोक्यसदनम् इदम् अङ्ग बिभर्म्य् अहम् ॥
अहं कुलकरी भार्या कलत्रभरणक्षमा ।
त्रैलोक्यगृहसम्भारधारणैकभरोद्वहा ॥
अथाहं तरुणी जाता समुद्भिन्नोन्नतस्तनी ।
लतोल्लसद्गुलुच्छेव विलासरसशालिनी ॥
पतिर् मां दीर्घसूत्रत्वाच् छ्रोत्रियत्वात् तपोरतः ।
कयाप्य् अपेक्षयाद्यापि न विवाहितवान् इमाम् ॥
तेन यौवनसम्पन्ना विलासरसशालिनी ।
तं विना व्यसनेनाहं दह्ये ऽग्नाव् इव पद्मिनी ॥
शीतलानिललोलासु नलिनीषु निरन्तरम् ।
अङ्गदाहम् अवाप्नोमि पूताङ्गारस्थलीष्व् इव ॥
उद्यानावलयस् सर्वाḫ पूर्णाẖ कुसुमवर्षणैः ।
सम्पन्नास् तप्तसिकताश् शून्या मे मरुभूमयः ॥
जललोलोरुकल्हारकमलोत्करकोमलाः ।
सरस्यस् सारसारावसरसा मम नीरसाः ॥
अहं पुष्करमन्दारकुमुदोत्करमालिता ।
भृशं दाहम् अवाप्नोमि कण्टकेष्व् इव दोलिता ॥
कुमुदोत्पलकल्हारकदलीतल्पपालयः ।
मदङ्गसङ्गमाद् ग्रीष्ममर्मरा यान्ति भस्मताम् ॥
यत् कान्तम् उदितं स्वादु विचित्रं चित्तहारि वा ।
तद् आलोक्य भवाम्य् अन्तर्बाष्पपूर्णायतेक्षणा ॥
व्यसनानलसन्तप्ताḫ पतन्तो बाष्पबिन्दवः ।
छमच्छमिति मज्जन्ति कमलोत्पलपङ्क्तिषु ॥
कदलीकन्दलीस्कन्धदोलान्दोलनलीलया ।
ललितोद्यानषण्डेषु मुखम् आच्छाद्य रोदिमि ॥
तुषारनिकराकीर्णं कदलीदलमण्डपम् ।
पश्याम्य् ऊष्माणम् उज्झन्तं खदिराङ्गारभीषणम् ॥
नलिनीनालदोलासु सारसीं सारसाश्रिताम् ।
दीनानना विलोक्यान्तर् निन्दामि निजयौवनम् ॥
रम्ये रोदिमि मध्यस्थे पदार्थे यामि सोम्यताम् ।
हृष्याम्य् अशोभने दीना न जाने किम् अहं स्थिता ॥
दृष्टानि कुन्दमन्दारकुमुदानि हिमानि च ।
मया कामाग्निदग्धानां भस्मानीव दिशḫ प्रति ॥
आनीलपल्लवमृणाललतोत्पलानां कल्हारकुन्दकदलीदलमालतीनाम् ।
शय्या ममाङ्गवलनेन विशोषयन्त्या व्यर्थं गतानि नवयौवनवासराणि ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0