भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.222

6.222.1

अथ कालेन महता सो ऽनुरागो विरागताम् ।
प्राप्तो मम शरच्छान्तौ विरसḫ पल्लवो यथा ॥

6.222.2

वृद्ध एकान्तरसिको नीरसस् स्नेहवर्जितः ।
भर्ताजिह्ममतिर् मौनी किम् अन्यज् जीवितेन मे ॥

6.222.3

वरं वैधव्यम् आ बाल्याद् वरं मरणम् एव वा ।
वरं व्याधिर् अथापद् वा नाहृद्यप्रकृतिḫ पतिः ॥

6.222.4

एतावज् जन्मसाफल्यं सौभाग्यम् अविखण्डितम् ।
रसिकḫ पेशलाचारो यन् नार्यास् तरुणḫ पतिः ॥

6.222.5

हता नीरसनाथा स्त्री हतासंस्कारिणी च धीः ।
हता दुर्जनभुक्ता श्रीर् हता वेश्या हृता ह्रिया ॥

6.222.6

सा स्त्री यानुगता भर्त्रा सा श्रीर् यानुगता सता ।
सा तुर्या मदनोदारा सा धीर् या समदृष्टिता ॥

6.222.7

नाधयो व्याधयो नैव नापदो न दुरीतयः ।
कुर्वन्ति मनसो बाधां दम्पत्योर् अनुरक्तयोः ॥

6.222.8

उत्फुल्लाẖ कुसुमस्थल्यो नन्दनोद्यानभूमयः ।
धन्वायन्ते कुनाथानां विनाथानां च योषिताम् ॥

6.222.9

सर्व एव जगद्भावा यथेच्छं गुणलेशतः ।
सन्त्यज्यन्ते ऽन्यम् आदातुं वर्जयित्वा पतिं स्त्रिया ॥

6.222.10

स्थिरयौवनया दुẖखान्य् एतानि मुनिनायक ।
भुक्तानि वर्षवृन्दानि पश्य दौर्भाग्यजृम्भितम् ॥

6.222.11

अथ क्रमेण तेनैव स रागो मे विरागताम् ।
आययौ हिमदग्धाया नलिन्या इव नीरसः ॥

6.222.12

विरागवासनापास्तसर्वभावानुरञ्जना ।
तवोपदेशेनेच्छामि मुने निर्वाणम् आत्मनः ॥

6.222.13

अप्राप्ताभिमतार्थानाम् अविश्रान्तधियां परे ।
मरणैर् उह्यमानानां जीवितान् मरणं वरम् ॥

6.222.14

स मद्भर्ताद्य निर्वाणम् ईहमानो दिवानिशम् ।
राजा राज्ञेव मनसा मनो जेतुं प्रबुध्यते ॥

6.222.15

ब्रह्मंस् तत् तस्य मद्भर्तुर् मम चाज्ञानशान्तये ।
न्यायोपपन्नया वाचा कुरु स्मारणम् आत्मनः ॥

6.222.16

यदा माम् अनपेक्ष्यैव स मद्भर्तात्मनि स्थितः ।
तदा विरागवैरस्यम् अनयन् मे जगत्स्थितिम् ॥

6.222.17

संसारवासनावेशवर्जितास्मि ततो ऽवशम् ।
निबध्याभिमतां तीव्रां व्योमसञ्चारधारणाम् ॥

6.222.18

अर्जयित्वा तया व्योम्नि गतिं धारणया मया ।
अभ्यस्ता धारणा भूयस् सिद्धसङ्गफलप्रदा ॥

6.222.19

ततस् स्वजगदाकाशपूर्वापरनिरीक्षया ।
स्थिताहं धारणां बद्ध्वा सापि मे सिद्धिम् आगता ॥

6.222.20

अथ स्वजगतो दृष्ट्वा हृदयं तस्य बाह्यगा ।
अहं दृष्टवती स्थूलां लोकालोकशिरश्शिलाम् ॥

6.222.21

एतावतापि कालेन दम्पत्योर् आवयोर् मुने ।
परं द्रष्टुम् अभूद् इच्छा न काचन कदाचन ॥

6.222.22

मद्भर्ता केवलं शुद्धवेदार्थैकान्तचिन्तया ।
न च यातं न चायातं वेत्त्य् अहो विगतैषणः ॥

6.222.23

तेनासौ मत्पतिर् विद्वान् अपि न प्राप्तवान् परम् ।
अद्य सो ऽहं च वाञ्छावḫ प्रयत्नेन परं पदम् ॥

6.222.24

तद् एताम् अर्थितां ब्रह्मन् सफलीकर्तुम् अर्हसि ।
महताम् अर्थिनो व्यर्था न कदाचन केचन ॥

6.222.25

भ्रमन्ती सिद्धसेनासु सदा नभसि मानद ।
त्वद् ऋते नेह पश्यामि घनाज्ञानबलानलम् ॥

6.222.26

ब्रह्मन् विनैव करुणाकर कारणेन सन्तो यतो ऽर्थिजनवाञ्छितपूरणानि ।
कुर्वन्ति तेन शरणागतताम् उपेतां माम् अर्हसीह न तिरस्करणेन योक्तुम् ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc