भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.220

6.220.1

तव स्त्रिया खरूपेण देहेनाभूत् तया कथा ।
कथम् उच्चारितास् तत्र वर्णाẖ कचटतादयः ॥

6.220.2

अथ चेत् स्वप्नवद् वक्षि तत् पृच्छामि तद् अप्य् अहम् ।
प्रोच्चरन्ति कुतस् स्वप्ने वर्णा यरलवादयः ॥

6.220.3

स्वप्नेषु खशरीराणां वर्णाẖ कचटतादयः ।
कदाचनापि नोद्यन्ति शवानाम् इव केचन ॥

6.220.4

वर्णोच्चारो ऽभविष्यच् चेत् प्रकटार्थस् ततẖ क्वचित् ।
स्वप्नेष्व् अन्वभविष्यत् तं विनिद्रḫ पार्श्वगो जनः ॥

6.220.5

तस्मान् न किञ्चित् स्वप्नेषु तत् सत्यं भ्रान्तिर् एव सा ।
चिन्मात्राकाशकचनं तथा तत् खे स्वभावजम् ॥

6.220.6

यथेन्दुकार्ष्ण्यखतरुशिलागेयादितां गतः ।
इवाभाति चिदाकाशस् तथा यरलवादितां ॥

6.220.7

तच् चिदाकाशकचनं यन् नाम स्वप्नवेदनम् ।
आकाशम् एव नभसẖ कचनं विद्धि नेतरत् ॥

6.220.8

यथा स्वप्नस् तथैवेदं जाग्रद् अग्रे व्यवस्थितम् ।
आकाशम् अप्य् अनाकाशं यथैवेदं तथैव तत् ॥

6.220.9

तथा कचति तच् चारु चेतनं चतुरं तदा ।
यथा स्थितं तद् एवेदं सत्यं स्थिरम् इव स्फुरत् ॥

6.220.10

भगवन् स्वप्न एवेदं कथं जाग्रद् अवस्थितम् ।
असत्यम् एव सत्यत्वम् इव यातं कथं वद ॥

6.220.11

शृणु स्वप्नमयान्य् एव कथं सन्ति जगन्त्य् अलम् ।
नान्यानि न च सत्यानि न स्थिराणि स्थितानि च ॥

6.220.12

अनुभूतानि बीजानि बीजराशाव् इवाम्बरे ।
अन्यान्य् अन्यानि तान्य् एव समानि न समानि च ॥

6.220.13

प्रत्येकम् अन्तर् अन्यानि तथैवाभ्युदितानि च ।
परस्परम् अदृष्टानि बहूनि विविधानि च ॥

6.220.14

अन्योऽन्यं तानि सर्वाणि न पश्यन्त्य् एव किञ्चन ।
जडानीवैकराशीनि बीजानीव लगन्त्य् अपि ॥

6.220.15

व्योमात्मकत्वाल् लगनं न विदन्ति परस्परम् ।
अपि चेतनरूपाणि सुप्तानीव निरन्तरम् ॥

6.220.16

सुप्तास् स्वप्नजगज्जालस्वाचारव्यवहारिणः ।
असुरा निहता देवैस् ते स्वप्नजगति स्थिताः ॥

6.220.17

अज्ञानान् न गता मुक्तिं नाजाड्याज् जडताम् इताः ।
न देहवन्तẖ किं सन्तु विना स्वप्नजगत्स्थितेः ॥

6.220.18

सुप्तास् स्वप्नजगज्जालस्वाचारव्यवहारिणः ।
पुरुषा निहताḫ पुंभिस् ते तथैव व्यवस्थिताः ॥

6.220.19

एवं ये निहता राम किं ते कुर्वन्तु कथ्यताम् ।
अज्ञत्वान् न गता मुक्तिं चेतनान् न दृषत्स्थिताः ॥

6.220.20

साद्रिद्यूर्वीजनं दृश्यम् इदं सर्वं यथास्थितम् ।
चिरायानुभवन्त्य् एते यथेमे वयम् आदृताः ॥

6.220.21

तेषां कल्पजगत्संस्था यथास्माकं तथैव ताः ।
अस्माकं जागती संस्था यथा तेषां तथैव च ॥

6.220.22

ये तेषां स्वप्नपुरुषास् त एवेमे वयं स्थिताः ।
ये च ते राम संसारास् तेभ्य एकम् इमं विदुः ॥

6.220.23

ते स्वप्नपुरुषास् तेषां सत्या एवानुभूतितः ।
आत्मनो ऽपि परस्यापि सर्वगत्वाच् चिदात्मनः ॥

6.220.24

यथा ते स्वप्नपुरुषास् सत्यम् आत्मन्य् अथापरे ।
तवापि स्वप्नपुरुषास् सत्यम् एव तथैव ते ॥

6.220.25

स्वस्वप्नपुरपौरा ये त्वया दृष्टास् तथैव ते ।
स्थितास् तत्र तथाद्यापि ब्रह्म सर्वात्मकं यतः ॥

6.220.26

प्रबोधे ऽपि हि विद्यन्ते स्वप्नभावा यथास्थिति ।
तया स्थित्यानुभूयन्ते परं ब्रह्मतयाथवा ॥

6.220.27

सर्वं सर्वात्म सर्वत्र सर्वदास्ति तथा परे ।
यथा नकिञ्चिद् आकाशं न क्वचिन् न च हन्यते ॥

6.220.28

निरन्ते परमाकाशे निरन्ते वेदनोदये ।
निरन्ते चित्तसङ्घाते निरन्तो जगतां गणः ॥

6.220.29

प्रत्य् आकाशकलाकोशं प्रति संसारमण्डलम् ।
प्रति लोकान्तरागारं प्रति द्वीपं गिरिं प्रति ॥

6.220.30

प्रति मण्डलविस्तारं प्रति ग्रामं पुरं प्रति ।
प्रति जन्तुं प्रति गृहं प्रति वर्षं युगं प्रति ॥

6.220.31

यावन्तो ये मृताẖ केचिज् जीवा मोक्षविवर्जिताः ।
स्थितास् ते तत्र तावन्तस् संसाराḫ पृथग् अक्षयाः ॥

6.220.32

तेषाम् अन्तर् जनास् सन्ति जनं प्रति पुनर् जनाः ।
पुनर् जनं प्रति जगज् जगत् प्रति पुनर् जनाः ॥

6.220.33

एवम् आद्यन्तरहित एष दृश्यभ्रमो भ्रमः ।
ब्रह्मैव ब्रह्मवित्पक्षे नात्रेयत्तास्ति काचन ॥

6.220.34

कुड्ये नभस्य् उपलके सलिले स्थले ऽन्तश् चिन्मात्रम् अस्ति हि यतस् तद् अशेषविश्वम् ।
तद् यत्र तत्र जगद् अस्ति कुतो ऽत्र सङ्ख्या तज्ज्ञेषु तत् परम् अथाज्ञमनस्सु दृश्यम् ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc