भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.219

6.219.1

यद् एतद् भवता दृष्टं चिद्व्योमवपुषा तदा ।
तद् एकदेशसंस्थेन किम् उत भ्रमताम्बरे ॥

6.219.2

सम्पन्नो ऽहम् अनन्तात्मा व्यापी व्योम तदा किल ।
स्यातां तस्याम् अवस्थायां कीदृशौ तौ गमागमौ ॥

6.219.3

नैकस्थानस्थितिमयो नाहं गतिमयो ऽभवम् ।
तदा तेन ख एवास्मिन् दृष्टम् एतन् मयात्मनि ॥

6.219.4

यथाङ्गानि शरीरे त्वं पश्यस्य् आपादमस्तकम् ।
चिन्नेत्रेणाप्य् अनेत्रेण तथैतद् दृष्टवान् अहम् ॥

6.219.5

अनाकृतेर् निरवयवस्थितेस् तदा तथाभवन् विमलचिदम्बरात्मनः ।
जगन्ति तान्य् अवयवजालकानि मे यथा खता न हि गलिता न वस्तुता ॥

6.219.6

प्रमाणम् अत्र ते स्वप्नदृष्टो भुवनविभ्रमः ।
स्वप्ने ऽनुभूयते दृश्यं न च किञ्चित् खम् एव तत् ॥

6.219.7

यथा पश्यति वृक्षस् स्वं पत्त्रपुष्पफलादिकम् ।
स्वसंवेदननेत्रेण तथैतद् दृष्टवान् अहम् ॥

6.219.8

यथाम्बुधिर् अनन्तात्मा वेत्ति सर्वाञ् जलेचरान् ।
तरङ्गावर्तफेनांश् च तथैतद् बुद्धवान् अहम् ॥

6.219.9

अवयवान् अवयवी यथा वेत्ति निजात्मनि ।
अनन्यान् आत्मनस् सर्गांस् तथैतान् बुद्धवान् अहम् ॥

6.219.10

अद्यापि तान् अहं देहे व्योम्नि शैले जले स्थले ।
तथैव सर्गान् पश्यामि राम बोधैकतां गतः ॥

6.219.11

पुरो ऽस्माकम् इदम् यत् खं गृहस्यान्तर् बहिस् तथा ।
पूर्णम् एतज् जगद्वृन्दैर् वेत्ति बोधैकतां गतः ॥

6.219.12

यथाम्भो रसतां वेत्ति शैत्यं वेत्ति यथा हिमम् ।
स्पन्दं वेत्ति यथा वायुस् तथैतद् वेत्ति शुद्धधीः ॥

6.219.13

यो यो राम विवेकात्मा शुद्धबोधैकतां गतः ।
स स एवम्मयैकात्मा वेत्ति स्वात्मानम् ईदृशम् ॥

6.219.14

अस्यां दृष्टौ परिणते वेत्तृवेदनवेद्यधीः ।
न काचिद् अस्त्य् अभ्युदिता विज्ञानैकात्मता यतः ॥

6.219.15

दिव्या दृग् अद्रिसंस्थस्य यथा योजनकोटिगान् ।
भावान् वेत्ति बहिश् चान्तर् एवं तद् बुद्धवान् अहम् ॥

6.219.16

यथा भूमण्डलं भावान् निधिधातुरसादिकान् ।
वेत्त्य् एवं तन् मया बुद्धम् अनन्यद् दृश्यम् आत्मनः ॥

6.219.17

ब्रह्मन्न् अनुभवत्य् एवं त्वयि तामरसेक्षणा ।
सा किं कृतवती ब्रूहि कान्तार्यापाठपाठिनी ॥

6.219.18

ताम् एवार्यां पठन्ती सा तथैवानुनयान्विता ।
मत्समीपे नभोदेहा व्योम्नि देवीव संस्थिता ॥

6.219.19

यथाहम् आकाशवपुस् तथैवासौ खरूपिणी ।
तेन दृष्टा न सा पूर्वदेहेन ललना मया ॥

6.219.20

अहम् आकाशरूपात्मा सा खमात्रशरीरिणी ।
जगज्जालं खमात्रं तद् इति तत्र तदा स्थितम् ॥

6.219.21

शरीरस्थानकरणप्रयत्नप्राणसम्भवैः ।
यद् उदेति वचो वर्णैस् तत् कुतस् तादृशाकृतेः ॥

6.219.22

रूपालोकमनस्काराẖ कुतो व्योमात्मनाम् इति ।
ब्रूहि मे भगवंस् तत्र तथावृत्तस्य निश्चयम् ॥

6.219.23

रूपालोकमनस्काराश् शब्दपाठवचांसि च ।
यथा स्वप्ने नभस्य् एव सन्ति तत्र तथाम्बरे ॥

6.219.24

रूपालोकमनस्कारैस् स्वप्ने चिन्नभ एव ते ।
यथोदेति तथा तत्र तद् दृश्यं खात्मकं स्थितम् ॥

6.219.25

न केवलं तु तद् दृश्यं यावत् त्वद्विषये वयम् ।
जगच् चेदं खम् एवाच्छं यथा तन् नस् तथाखिलम् ॥

6.219.26

परमार्थमहाधातुर् वेद्यनिर्मुक्तचिद्वपुः ।
एवं नाम स्वयं भाति स्वभावस्यैष निश्चयः ॥

6.219.27

शरीरस्थानकरणसत्तायां का तव प्रमा ।
यथैव तेषां देहादि तथास्माकम् इदं स्थितम् ॥

6.219.28

यथैव तत् तथैवेदं यथैवेदं तथैव तत् ।
असत् सत्ताम् इव गतं सच् चासद् इव च स्थितम् ॥

6.219.29

यथा स्वप्ने धराब्ध्यद्रिप्रजाव्यवहृतिर् नभः ।
तदाद्य चाहं त्वं सा च तद् इदं च तथा नभः ॥

6.219.30

यथा स्वप्ने नृभिर् युद्धकोलाहलगमागमाः ।
असन्तो ऽप्य् अनुभूयन्ते संसारनिकरास् तथा ॥

6.219.31

वक्षि चेत् स्वप्नदृश्या श्रीẖ कस्मात् तद् असमञ्जसम् ।
अवाच्यम् एतद् धेतुर् हि नान्यो ऽस्त्य् अनुभवस्थितेः ॥

6.219.32

कथम् आलक्ष्यते स्वप्न इति प्रष्टुḫ प्रकथ्यते ।
यथैनं पश्यसीत्य् एव हेतुर् अत्रास्ति नेतरः ॥

6.219.33

स्वप्नजन्तुर् इव व्योम्नि भाति प्रथमसर्गतः ।
प्रभृत्य् एव विराडात्मा खे खम् एव परापरे ॥

6.219.34

स्वप्नशब्देन बोधार्थं तव व्यवहराम्य् अहम् ।
दृश्यं त्व् इदं न सन् नासन् न स्वप्नो ब्रह्म केवलम् ॥

6.219.35

अथ राघव सा कान्ता मया कान्तानुषङ्गिणी ।
संविदं तन्मयीं कृत्वा पृष्टेदं दृष्टरूपिणी ॥

6.219.36

व्यवहारो यथोदेति स्वप्ने स्वप्नजनैस् सह ।
तथा तदा तया सार्धं व्यवहारो ममोदितः ॥

6.219.37

यथैव स्वप्नसङ्काशो व्यवहारẖ खम् एव सः ।
तथैव त्वम् इमं विद्धि ममात्मानं जगच् च खम् ॥

6.219.38

यथा स्वप्ने जगद्रूपं खम् एवैवम् इदं जगत् ।
जाग्रदाख्यो महास्वप्नस् सर्गादौ वियदुद्भवः ॥

6.219.39

स्वप्नो ऽयं जगदाभोगो नकिञ्चिद् वा खम् एव वा ।
निर्मलं ज्ञप्तितामात्रम् इत्य् असन्मात्रखं स्थितम् ॥

6.219.40

स्वप्नस्य विद्यते द्रष्टा साकारो युष्मदादिकः ।
द्रष्टा तु सर्गस्वप्नस्य चिद्व्योमैवामलं स्वतः ॥

6.219.41

यथा द्रष्टामलं व्योम दृश्यं तद्दृग्गतं तथा ।
स्वप्नरूपं कचत्य् उच्चैर् जगत् तेनामलं नभः ॥

6.219.42

चिद्व्योम्नो ऽनाकृतेस् स्वप्नो हृदि स्फुरति यस् स्वतः ।
सर्गस् तस्य कुतस् तेन साकृतित्वं कथं भवेत् ॥

6.219.43

साकारस्यैव यत् स्वप्नजगत् तद् व्योम केवलम् ।
निराकारस्य चिद्व्योम्नस् सर्गस्वप्नẖ कथं न खम् ॥

6.219.44

निरुपादानसम्भारम् अभित्ताव् एव चिन्नभः ।
पश्यत्य् अकृतम् एवेमं जगत्स्वप्नं कृतं यथा ॥

6.219.45

मृद्व्या चिदाकाशमृदा ब्रह्मणा ब्राह्मणेन खे ।
कृतो ऽपि न कृतस् सर्गमण्डपो ऽक्षगवाक्षकः ॥

6.219.46

नो कर्तृता न च जगन्ति न भोक्तृतास्ति नास्तीति नास्ति न च किञ्चिद् अतो बुधस् सन् ।
पाषाणमौनम् अवलम्ब्य यथाप्रवाहम् आचारम् आचर शरीरम् इहास्तु मा वा ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc