भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.218

6.218.1

चिदाकाशाश् चिदाकाशे पयसीव पयोरयाः ।
चित्त्वाज् जीवास् स्फुरन्त्य् एते ये त एव मनांसि नः ॥

6.218.2

विशदाकाशरूपाणि तान्य् एव च मनांसि नः ।
जगन्ति तान्य् अनन्तानि सम्पन्नान्य् अभितस् स्वयम् ॥

6.218.3

सर्वभूतगणे मोक्षं महाकल्पक्षये गते ।
पुनẖ कस्य कथं सर्गसंवित्तिर् उपजायते ॥

6.218.7

तस्मान् न कस्यचित् किञ्चित् कदाचिन् नश्यति क्वचित् ।
न चैव जायते ब्रह्म शान्तं दृश्यम् अजं स्थितम् ॥

6.218.9

वपुर् जगद् इदं तस्या ननु नाम महाचितेः ।
कथं नश्यत्य् अनष्टायां तस्यां सा च न नश्यति ॥

6.218.10

संविदो हृदयं स्वप्ने यथा भाति जगत्तया ।
व्योमात्मैव तथैवादिसर्गात् प्रभृति भासते ॥

6.218.11

चिद्व्योमावयवस् सर्गस् सर्गस्यैता दशाः क्षयाः ।
उदयाश् चेति खं सर्वं किं नाशि किम् अनाशि वा ॥

6.218.14

यद् यद् यदात्मकं तत्त्वं तद् विनाशं विनाक्षयि ।
तस्माद् ब्रह्मात्मकं दृश्यं विद्धि ब्रह्मवद् अक्षयम् ॥

6.218.16

चिन्मात्रे परमे व्योम्नि कुत एव भवाभवौ ।
कुतो भावविकारादिẖ कथं व्योम्नि निराकृतौ ॥

6.218.17

महाकल्पादयो भावा रामैतानि जगन्ति च ।
ब्रह्मात्मकतयैवास्मिन् संविद्ब्रह्मणि संस्थितम् ॥

6.218.18

निराकृत्य् अच्छचिन्मात्रं दृश्यं सङ्कल्प्य तद्वशम् ।
याति येनैव घटितो यक्षस् तं घट्टयेत् किल ॥

6.218.20

अवयवावयविनोर् दृश्ययोर् वाप्य् अदृश्ययोः ।
एकात्मनोर् एव सदा न भेदो ऽस्ति कदाचन ॥

6.218.22

इतो भाव इतो ऽभाव इतस् सर्ग इतẖ क्षयः ।
स्वभावम् एवानुभवद् इति ब्रह्माचलं स्थितम् ॥

6.218.23

एवम्मये ऽपि परमे ब्रह्माकाशे न रञ्जनाः ।
काश्चिद् एवाङ्ग सन्तीन्दुबिम्बे विषलता यथा ॥

6.218.24

निर्मले परमाकाशे क्व भावाभावरञ्जनाः ।
क्वादिमध्यान्तकलनाẖ क्व लोकान्तरविभ्रमः ॥

6.218.25

अपरिज्ञानम् एवैकम् अत्र दोषवद् उत्थितम् ।
केवलं तत् परावृत्य प्रेक्षणात् परिशाम्यति ॥

6.218.26

अज्ञानं ज्ञप्तिबोधेन परामृष्टं प्रणश्यति ।
येनैवाभ्युत्थितं तेन पवनेनेव दीपकः ॥

6.218.27

अज्ञानं सम्परिज्ञातं नासीद् एवेति बुध्यते ।
अबन्धमोक्षं ब्रह्मैव सर्वम् इत्य् अवगम्यते ॥

6.218.28

एवम्बोधाद् धि यो राम मोक्ष उक्तस् स्वसंविदा ।
विचारयन्न् आलभते नात्र कश्चन संशयः ॥

6.218.29

इदं जगज्जालम् अनाद्य् अजातं ब्रह्मेत्थम् आभातम् इतीह दृष्ट्वा ।
विचारदृष्ट्याष्टगुणेश्वरत्वं पश्यंस् तृणं स्वात्मनि जीव आस्ते ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc