मोक्षोपाय · अध्याय 6.217
ततो ऽहम् अभितो भ्रान्तस् तादृशḫ प्रविचारयन् ।
बहुकालम् असंरुद्धसंविदाकाशतां गतः ॥
शब्दं पश्चात् तम् अश्रौषम् अहं वीणास्वनोपमम् ।
क्रमात् स्फुटपदं जातं तत आर्यात्वम् आगतम् ॥
शब्ददेशपतद्दृष्टिर् दृष्टवान् वनिताम् अहम् ।
पार्श्वे कनकनिष्ष्यन्दप्रभया भासिताम्बराम् ॥
आलोलमाल्यवसनाम् अलकाकुललोचनाम् ।
लोलधम्मिल्लवलनाम् अन्यां श्रियम् इवागताम् ॥
कान्तकाञ्चनगौराङ्गीम् अङ्गस्थनवयौवनाम् ।
वनदेवीम् इवामोदिसर्वावयवसुन्दरीम् ॥
सा पूर्णचन्द्रवदना पुष्पप्रकरहासिनी ।
यौवनोद्दामवदना पक्ष्मलेक्षणशालिनी ॥
आकाशकोशसदना शशाङ्ककरसुन्दरी ।
मुक्ताकलापरचना कान्ता मदनुसारिणी ॥
स्वरेण मधुरेणेमाम् आर्याम् आर्यविलासिनी ।
पपाठाकठिनं वामा मत्पार्श्वे मृदुहासिनी ॥
असदुदितरिक्तचेतनसंसृतिमृगसरिति मुह्यमानानाम् ।
अवलम्बनतटविटपिनम् अभिनौमि भवन्तम् एव मुने ॥
इत्य् आकर्ण्याहम् आलोक्य तां चारुवचनस्वनाम् ।
ललनेयं किम् अनयेत्य् अनादृत्यैव तां गतः ॥
ततो जगद्वृन्दमयीं मायां सम्प्रेक्ष्य विस्मितः ।
अनादृत्यैव तां व्योम्नि विहर्तुम् अहम् उद्यतः ॥
ततस् तां तत्कृतां चिन्ताम् अलम् उत्सृज्य खे स्थिताम् ।
जगन्मायां कलयितुं व्योमात्माहं प्रवृत्तवान् ॥
यावत् तानि तथोग्राणि जगन्ति सकलानि खम् ।
शून्यम् एव यथा स्वप्ने सङ्कल्पकथने तथा ॥
न पश्यन्ति न शृण्वन्ति कदाचित् कानिचित् क्वचित् ।
तानि कल्पमहाकल्पजातान् एकत्र तान् मिथः ॥
प्रमत्तपुष्करावर्तान् उन्मत्तोत्पातमारुतान् ।
स्फुटिताद्रीन्द्रडाक्कारघट्टितब्रह्ममण्डपान् ॥
ज्वलत्कल्पाग्निविस्फोटस्फुटदैडबिडास्पदान् ।
प्रतपद्द्वादशाकारकटुमार्ताण्डमण्डलान् ॥
लुठत्सुरपुरव्रातवितताक्रन्दघर्घरान् ।
रणन्मेर्वादिकटकश्रेणीनिगरणोद्भटान् ॥
कल्पाग्निज्वलनोल्लासपटत्पटपटारवान् ।
आत्मभ्रंशबृहत्क्षोभक्षुब्धाम्बरमहार्णवान् ॥
देवासुरनरागारघर्घराक्रन्दकर्कशान् ।
सप्तार्णवमहापूरपूरितार्केन्दुमन्दिरान् ॥
न विचेतन्ति कल्पान्तान् सर्वाण्य् एव परस्परम् ।
एकमन्दिरसंसुप्तास् स्वप्ने रणरयान् इव ॥
तत्र रुद्रसहस्राणि ब्रह्मकोटिशतानि च ।
दृष्टानि विष्णुलक्षाणि कल्पवृन्दान्य् अलं मया ॥
तत्र क्वचिद् अनादित्ये निरहोरात्रभूतले ।
अकल्पयुगवर्षान्ते जगद्व्यूहैẖ क्षयोदयः ॥
चिति सर्वं चितस् सर्वं चित् सर्वं सर्वतश् च चित् ।
चित् सर्वैकात्मिकेत्य् एतद् दृष्टं तत्र मयाखिलम् ॥
त्वं का चिद् इति चेद् वक्षि तन् न किञ्चिद् इवाङ्ग चित् ।
सा हि शून्यतमा व्योम्नो न च नाम नकिञ्चन ॥
तद् आकाशम् इदं भाति जगद् इत्य् अभिशब्दितम् ।
तेनैव शब्दनभसा सर्वं हि परमं नभः ॥
दृश्यदृष्टिर् इयं भ्रान्तिर् आकाशतरुमञ्जरी ।
चिद्व्योमाङ्गकम् एवेति तत्राहम् अनुभूतवान् ॥
बुद्ध्याकाशैकरूपेण व्यापिना बोधरूपिणा ।
तत्रानन्ते नसङ्कल्पम् अनुभूतम् इदं मया ॥
ब्रह्मव्योम जगज्जालं ब्रह्मव्योम दिशो दश ।
ब्रह्मव्योम कलाकालदेशद्रव्यक्रियादिकम् ॥
तत्राहम् इव संसारशते सार्धे मुनीश्वराः ।
दृष्टा वसिष्ठनामानो ब्रह्मपुत्रा मदुत्तमाः ॥
ब्रह्मद्वासप्ततेस् त्रेतास् सर्वा एव सराघवाः ।
तत्र दृष्टं कृतशतं द्वापराणां शतं तथा ॥
भेदोदयेन चेद् दृष्टास् तास् तास् सर्गदशास् तथा ।
बोधेन चेत् तद् अत्यच्छम् एकं ब्रह्मनभस् ततम् ॥
भेदब्रह्मणि नामास्ति जगद् ब्रह्मण्य् अथ त्व् इदम् ।
ब्रह्मैवाजम् अनाद्यन्तं तत् सर्वं त्वन्मदादिकम् ॥
पाषाणमौनप्रतिमं नकिञ्चिद् अभिशब्दितम् ।
यत् तत् किञ्चिद् इवोद्द्योतरूपं ब्रह्म जगत् स्मृतम् ॥
विभात्य् अचेत्यचिद्व्योम्नि स्वसत्तैव जगत्तया ।
निराकारे निराकारा स्वप्नानुभवसन्निभा ॥
अनन्यद् आत्मनो ब्रह्म सर्वं भामात्ररूपकम् ।
प्रकाशनम् इवालोकẖ करोति न करोति च ॥
तेषु रामानुभूयन्ते जगल्लक्षेषु तत्र वै ।
उष्णानि चन्द्रवृन्दानि सूर्याश् शीतलमूर्तयः ॥
प्रजास् तमसि पश्यन्ति पश्यन्त्य् एव न तेजसि ।
उलूकस्य समाचारास् तस्यैव सदृशस्वनाः ॥
इतश् शुभेन नश्यन्ति यान्ति पापैस् तथा दिवम् ।
विषाशनेन जीवन्ति म्रियन्ते ऽमृतभोजनैः ॥
यद् यथा बुध्यते बोधो यथोदेत्य् अथ वा स्वतः ।
तथाशु स्फुटताम् एति सद् वासद् वा सद् एव तत् ॥
विटपाकारमूलौघदर्शनाद् वज्रशोभिभिः ।
घूर्णते पुष्पपत्त्राढ्यैḫ पादपैर् व्योम्नि काननम् ॥
सिकताḫ पीडितास् सत्यस् स्रवन्ति स्नेहजं रसम् ।
शिलाफलहकेभ्यश् च जायन्ते कमलान्य् अलम् ॥
दारुण्य् अश्मनि भित्तौ च चञ्चलास् सालभञ्जिकाः ।
गृहाङ्गनाभिस् सहिता गायन्ति कथयन्ति च ॥
मेघान् परिदधत्य् उच्चैर् भूतान्य् उच्चैḫपटान् इव ।
प्रतिवर्षं विजातीयान्य् उत्पद्यन्ते फलान्य् अगे ॥
सन्निवेशे न नियतैर् अङ्गानां विविधाङ्गकैः ।
शिरोभिस् सर्वभूतनि परिक्रामन्ति भूमिगैः ॥
शास्त्रवेदविहीनानि निर्धर्माण्य् एव कानिचित् ।
यत्किञ्चनैककारीणि तिर्यग्वत् त्रिजगन्त्य् अधः ॥
कामसंवित्तिहीनानि निस्स्त्रीजातीनि कानिचित् ।
भूतैस् संशुष्कहृदयैर् व्याप्तान्य् अश्ममयैर् इव ॥
पवनाशनभूतानि समरत्नाश्मकानि च ।
अज्ञातार्थान्य् अलुब्धानि निर्गर्धानि च कानिचित् ॥
क्वचित् प्रत्येकम् आत्मानं पश्यत्य् आप्नोति नेतरत् ।
बहुभूतकम् अप्य् अस्ति जगद् इत्य् एकभूतकम् ॥
नखकेशादिके यद्वत् तद्वद् अन्यत्र संस्थितिः ।
आत्मवत् सर्वभूतानाम् एकभूतात्मभावना ॥
अनन्तापारपर्यन्तं शून्यम् एव बहु क्वचित् ।
यन् न नस् संविद् आप्नोति तस्यान्ते ऽपि जगत् पुनः ॥
अत्यन्ताबुद्धबुद्धीनि मोक्षशब्दार्थदृष्टिषु ।
दारुयन्त्रमयाशेषभूतौघान्य् एव कानिचित् ॥
ऋक्षचक्रविहीनानि निष्कालकलनानि च ।
मूकसङ्केतसाराणि भूतजालानि कानिचित् ॥
कानिचिद् वर्जितान्य् एव नेत्रशब्दार्थसंविदा ।
व्यर्थदीप्तार्कतेजांसि भूतानीत्य् एकचिन्तया ॥
घ्राणसंविद्विहीनानि व्यर्थामोदानि कानिचित् ।
मूकानि शब्दवैयर्थ्याच् छ्रुतिहीनानि कानिचित् ॥
वाक्यसंविद्विहीनत्वात् प्रमूकान्य् एव कानिचित् ।
स्पर्शसंविद्विहीनत्वाद् अश्माङ्गान्य् एव कानिचित् ॥
संविन्मात्रमयान्य् एव दृष्टान्य् अपि च कानिचित् ।
व्यवहारीण्य् अथाग्राह्याण्य् एव नित्यं पिशाचवत् ॥
भूमयान्य् एकनिष्ठानि निष्पिण्डान्य् एव कानिचित् ।
जगन्ति व्योमरूपाणि तावत् तत्र कचन्ति खे ॥
कानिचिद् वारिपूर्णानि वह्निपूर्णानि कानिचित् ।
जगन्ति व्योमरूपाणि तावत् तत्र कचन्ति खे ॥
धरापीठैकपूर्णेषु तिष्ठन्त्य् अन्येषु देहिनः ।
भेका इव शिलाकोशे कीटा इव धरोदरे ॥
जलैकपरिपूर्णेषु निरब्ध्युर्वीवनाद्रिषु ।
भ्रमन्त्य् अन्येषु भूतानि नित्यम् एवोग्रमीनवत् ॥
अन्येष्व् अग्न्येकपूर्णेषु जलादिरहितान्य् अपि ।
भूतान्य् अग्निमयान्य् एव स्फुरन्त्य् अलम् अलातवत् ॥
अन्येष्व् अनिलपूर्णेषु भूतान्य् अस्तेतराण्य् अपि ।
वातमात्रमयाङ्गानि स्फुरन्त्य् अर्जुनवातवत् ॥
अन्येषु व्योममात्रात्मदेहेषु व्योमरूपिणः ।
प्राणिनस् सन्ति सर्गेष्व् अदर्शनव्यवहारिणः ॥
पातालपातिषु तथाम्बरम् उत्पतत्सु तिष्ठत्सु विभ्रमपरेष्व् अथ दिङ्मुखेषु ।
नानाजगत्सु किम् इवास्ति मया न दृष्टं यन् नाम चिज्जलधिचञ्चलबुद्बुदेषु ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0