मोक्षोपाय · अध्याय 6.216
अनन्तरं नभẖकोशकुटीकोटरके मुने ।
तव ध्यानात् प्रबुद्धस्य वृत्तं वर्षशतेन किम् ॥
ततो ध्यानात् प्रबुद्धो ऽहं श्रुतवांस् तत्र निस्स्वनम् ।
मृद्व् अव्यक्तपदं हृद्यं न च वाद्यान् न गेयतः ॥
स्त्रीस्वभावाद् इव मृदु मधुरं चानिनादि च ।
स्वल्पाङ्गत्वाद् अनिर्ह्रादि मया तद् वाक्यम् ऊहितम् ॥
इन्दिन्दिररुताकारं तन्त्रीरणनरञ्जनम् ।
न रोदनं न पठनं वंशकोशसमस्वनम् ॥
तद् आकर्ण्याशु तत्रेदम् अहं चिन्तितवान् अथ ।
शब्दकर्त्रीक्षणात् पश्यन् दिशो दश सविस्मयः ॥
व्योम्नो ऽयं सिद्धसञ्चारमार्गशून्यम् अनन्तरम् ।
भागो योजनलक्षाणि समतिक्रम्य संस्थितः ॥
तद् इहेदृग्विधस्यास्य कुतश् शब्दस्य सम्भवः ।
शाब्दिकं न च पश्यामि यत्नेनापि विलोकयन् ॥
अनन्तम् इदम् आशून्यं पुरो मे निर्मलं नभः ।
इह भूतं प्रयत्नेन प्रेक्ष्यमाणं न दृश्यते ॥
यदेति चिन्तयित्वाहं भूयो भूयो विलोकयन् ।
शब्देश्वरं न पश्यामि तदा चिन्तितवान् इदम् ॥
आकाश एव भूत्वाहम् आकाशेनैकतां गतः ।
आकाशगुणशब्दार्थान् करोम्य् आकाशकोशके ॥
देहाकाशम् इदं स्थाप्य ध्यानेनेह यथास्थितम् ।
चिदाकाशवपुर् व्योम्ना याम्य् ऐक्यं वार् इवाम्बुना ॥
चिन्तयित्वेत्य् अहं त्यक्तुं देहं पद्मासने स्थितः ।
आसं समाधिम् आधातुं पुनर् आमीलितेक्षणः ॥
त्यक्त्वा बाह्यान् अपि स्पर्शान् ऐन्द्रियान् आन्तरान् अपि ।
चित्ताकाशे ऽहम् अभवं संवित्स्पन्दमयात्मकः ॥
क्रमात् तद् अपि सन्त्यज्य बुद्धितत्त्वपदं गतः ।
सम्पन्नो ऽहं चिदाकाशो जगज्जालैकदर्पणः ॥
ततस् तेन स्वभावेन भूतव्योमैकताम् अहम् ।
सम्प्रयातो ऽम्बुनेवाम्बु सौरभं सौरभेण वा ॥
सम्पन्नो ऽथ महाकाशो व्याप्य् अनन्तो ऽथ सर्वगः ।
अनाकारो ऽप्य् अनाधारस् सर्वार्थाधारतां गतः ॥
यावत् त्रैलोक्यवृन्दानि संसाराणां शतानि च ।
तत्र ब्रह्माण्डलक्षाणि पश्याम्य् अगणितान्य् अपि ॥
परस्परम् अदृष्टानि मिथẖ खान्य् अमलानि च ।
नानाचारविचाराणि शून्यान्य् एव परस्परम् ॥
स्वप्नरूपाणि सुप्तानां तुल्यकालं नृणाम् इव ।
महारम्भाण्य् अदृष्टानि शून्यानि च परस्परम् ॥
जायमानानि नश्यन्ति वर्धमानानि भूरिशः ।
वर्तमानान्य् अतीतानि भविष्यन्ति च सर्वशः ॥
अनेकचित्तजातानि महाभित्तीनि खानि च ।
मनस्य् एवोग्रराज्यानि कृतानि विविधैर् जनैः ॥
निरावरणरूपाणि तथैकावरणानि च ।
पञ्चावरणरूपाणि षडेकावरणानि च ॥
दशावरणचित्राणि षोडशावरणानि च ।
चतुर्विंशत्यावृतीनि षट्त्रिंशत्यावृतीनि च ॥
शून्यानि भूतपूर्णानि पञ्चभूतमयानि च ।
एकपृथ्व्यादिभूतानि चतुष्पृथ्व्यादिकानि च ॥
त्रिपृथ्व्यादीनि चान्यानि द्विपृथ्व्यादीन्य् अथापि च ।
तथा सप्तमहाभूतान्य् एकजातिमयानि च ॥
त्वादृशानुभवाभोगविरुद्धानीदृशानि तु ।
तथा नित्यान्धकाराणि सूर्यादिरहितानि च ॥
तथा मीलितसर्गाणि एकनाथावृतानि च ।
विलक्षणप्रजेशानि विचित्राचारवन्ति च ॥
जात्यन्धपारम्पर्येण सङ्केताचारवन्ति च ।
तथा नित्यप्रकाशानि ज्वलिताग्निमयानि च ॥
तथा जलैकपूर्णानि पवनैकात्मकानि च ।
स्तब्धानि परमाकाशे वहन्ति च तथानिशम् ॥
जायमानानि पुष्यन्ति परिपुष्टानि चाभितः ।
तिर्यग् गच्छन्ति चान्यानि मूकसर्गमयान्य् अपि ॥
देवमात्रैकसर्गाणि नरमात्रमयानि च ।
दैत्यवृन्दमयान्य् एव क्रिमिनिर्विवराणि च ॥
अन्तर् अन्तस् तदन्तश् च स्वकोशेष्व् अणुकं प्रति ।
जातानि जायमानानि कदलीदलपीठवत् ॥
परस्परम् अदृष्टानि नानुभूतानि वै मिथः ।
सैनिकस्वप्नजालानि जातानीव महान्त्य् अपि ॥
विविधान्य् अप्य् अनन्तानि स्वच्छाकाशात्मकान्य् अलम् ।
अन्योऽन्यम् अन्यवृत्तीनि न मिथो ऽन्यस्थितीनि च ॥
मिथश् चान्यान्यशास्त्राणि मिथो ऽनन्तानि यानि च ।
अन्यान्यसन्निवेशानि मिथो ऽन्यान्यानि यानि च ॥
अन्योऽन्यं परलोकानि मिथस् सिद्धपुराणि च ।
अन्यादृशमहाभूतान्य् अन्यादृक्षगिरीणि च ॥
त्वादृशानुभवेहानाम् अगम्यान्य् आततानि च ।
असमञ्जसरूपाणि कथ्यमानानि मादृशैः ॥
अणुवत् प्रोह्यमानानि चिदादित्यांशुमण्डले ।
परमार्थश्रियो व्योम्नि रश्मिजालानि कुण्डले ॥
कानिचित् तानि तान्य् एव भूत्वा भूत्वा भवन्त्य् अलम् ।
कानिचित् तादृशान्य् एव जातानि वनपर्णवत् ॥
अन्यान्य् अत्रार्धसदृशान्य् अन्यानि सदृशान्य् अपि ।
कञ्चित् कालं सुसदृशान्य् अन्यान्य् अनघ कानिचित् ॥
अन्यान्य् अज्ञातकालानि यदृच्छावशतस् स्वयम् ।
जायमानानि पुष्यन्ति सुस्थिराणि स्थितानि च ॥
फलानि तान्य् अनन्तानि परमार्थमहातरोः ।
अनन्यान्य् एव चान्यानि तन्मयान्य् एव वै ततः ॥
कानिचित् स्वल्पकल्पानि दीर्घकल्पानि कानिचित् ।
अन्यान्य् अनियतं भूरि नियतं भूरि कानिचित् ॥
तानि शून्यत्वजालानि परमाकाशकोशके ।
अपरिज्ञातकालानि दृढान्य् अज्ञातदोषके ॥
अब्ध्यर्काकाशमेर्वादिशतैर् आवलितान्य् अलम् ।
चिच्चमत्कारखे स्वप्नजालान्य् आभान्ति चाबिलम् ॥
अनुभूतेर् भ्रमात्मत्वात् कारणानाम् अभावतः ।
पृथ्व्यादीनाम् अहेतूनाम् अत्यन्तं सन्त्य् असन्ति च ॥
मृगतृष्णाम्बुभरवद् द्विचन्द्रव्योमवर्णवत् ।
सम्पन्नानि न सत्यानि सत्यान्य् अप्य् अनुभूतितः ॥
चित्सङ्कल्पनभस्य् एव भासमानानि भूरिशः ।
वासनावातनुन्नानि विनुन्नान्य् आत्मचेष्टितैः ॥
सुरासुरादिमषकान्य् आकाशोडुम्बरद्रुमे ।
फलानि रसपूर्णानि घूर्णमानानि मारुतैः ॥
अभिजातस्वभावस्य सर्वारम्भकरस्य च ।
शुद्धचित्तत्त्वबालस्य सङ्कल्पनगराणि खे ॥
त्वम् अहं स इदं चेति धियाचलदृढान्य् अलम् ।
सम्पन्नान्य् अर्कदीप्त्येव पङ्कक्रीडनकानि च ॥
धृतानि रसशालिन्या नियत्या नित्यतृप्तया ।
वनान्य् उग्रफलानीव वसन्तरसलेखया ॥
महाकर्तॄण्य् अकर्तॄणि न कृतान्य् एव खानि च ।
स्वयंसम्पन्नरूपाणि चिद्व्योम्नैव कृतानि च ॥
परमार्थमयान्य् एव तदन्यत्वोदितानि च ।
अलब्धान्य् एव लब्धानि सदासन्त्य् एव सन्ति च ॥
चतुर्दशदशैकादिविधभूतगणानि च ।
पुनस् तान्य् एव तान्य् अन्तर् अन्यान्य् अन्यान्य् अथो बहिः ॥
नरकस्वर्गपातालबन्धुमित्रमयान्य् अपि ।
महारम्भमयान्य् एव शून्यानि परमार्थतः ॥
क्षीराम्बुधेर् जलानीव स्नेहसाराणि सर्वतः ।
तरङ्गभङ्गुराण्य् अन्तर् बहिश् चावृत्तिमन्ति च ॥
आभासमात्ररूपाणि तेजांस्य् आत्मविवस्वतः ।
जातानीव स्वतस् तानि स्पन्दनानि नभस्वतः ॥
वृक्षरूपाणि पत्त्राणां बुद्ध्यहङ्कारचेतसाम् ।
असताम् अप्य् असन्त्य् एव स्वप्नो ऽन्यस्थो नृणाम् इव ॥
पुराणवेदसिद्धान्तकल्पनातल्पपालिषु ।
घननिद्राणि सुप्तानि बिभ्रन्ति शवताम् इव ॥
परमार्थमहारण्ये चिद्गन्धर्वकृताणि खे ।
सूर्यदीपकदीप्तीनि गृहाणि गहनान्य् अति ॥
प्रजायमानानि नभस्य् अनन्ते विशीर्यमाणानि च निर्निमित्तम् ।
तदा त्व् अहं तैमिरिकाक्षदृष्टकेशोण्डुकानीव जगन्त्य् अपश्यम् ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0