मोक्षोपाय · अध्याय 6.215
अहो नु विततोदारा विपुला विमलाचला ।
भवता भगवन् भूत्यै भूयो दृष्टिर् उदाहृता ॥
सर्वथा सर्वदा सार्वं सर्वं सर्वत्र सर्वदम् ।
सद् इत्य् एव स्थितं सत्यं समं समनुभूतितः ॥
अयम् अस्ति मम ब्रह्मन् संशयस् तं निवारय ।
किम् इदं भगवन् नाम पाषाणाख्यानम् उच्यते ॥
सर्वत्र सर्वदा सर्वम् अस्तीति प्रतिपादने ।
पाषाणाख्यानदृष्टान्तो मयायं तव कथ्यते ॥
नीरन्ध्रैकघनाङ्गस्य पाषाणस्यापि कोटरे ।
सन्ति सर्गसहस्राणि कथयेति प्रदर्श्यते ॥
भूताकाशे महत्य् अस्मिन् स्वं शून्यत्वम् अनुज्झति ।
सन्ति सर्गसहस्राणि कथयेति प्रदर्श्यते ॥
कुड्यादौ सन्ति सर्गौघा इति चेत् कथ्यते मुने ।
तत् खे विभान्ति सर्गौघा इति किं न प्रदर्श्यते ॥
एतत् ते वर्णितं राम मुख्यम् एव मयाखिलम् ।
यो ऽयम् आलक्ष्यते सर्गस् सर्ग एव खम् आस्थितम् ॥
आदाव् एव हि नोत्पन्नम् अद्यापि च न विद्यते ।
दृश्यं यच् चावभातीदं तद् ब्रह्म ब्रह्मणि स्थितम् ॥
नास्ति भूर् अणुमात्रापि सर्गैर् निर्विवरा न या ।
न च क्वचन विद्यन्ते सर्गा ब्रह्मखम् एव तत् ॥
वारिणो नाणुर् अप्य् अस्ति सर्गैर् निर्विवरो न यः ।
न च क्वचन सर्गास् ते सन्ति ब्रह्मखम् एव तत् ॥
न तेजसो ऽणुर् अप्य् अस्ति सर्गैर् निर्विवरो न यः ।
न च क्वचन विद्यन्ते सर्गा ब्रह्मखम् एव तत् ॥
न वायोर् अणुर् अप्य् अस्ति सर्गैर् निर्विवरो न यः ।
न च क्वचन सर्गास् ते सन्ति ब्रह्मखम् एव तत् ॥
खं नाणुमात्रम् अप्य् अस्ति सर्गैर् निर्विवरं न यत् ।
न च क्वचन विद्यन्ते सर्गा ब्रह्मखम् एव तत् ॥
न सा महाभूततास्ति सर्गैर् निर्विवरा न या ।
न च क्वचन विद्यन्ते सर्गा ब्रह्मखम् एव ते ॥
प्राण्यङ्गो नाणुर् अप्य् अस्ति सर्गैर् निर्विवरो न यः ।
न च क्वचन सर्गास् ते सन्ति ब्रह्मखम् एव तत् ॥
शैलानां नाणुर् अप्य् अस्ति स सर्गैर् यो न निर्घनः ।
न च क्वचन विद्यन्ते सर्गा ब्रह्मखम् एव तत् ॥
ब्रह्मणो नाणुर् अप्य् अस्ति सर्गैर् निर्विवरो न यः ।
न च क्वचन सर्गास् ते सन्ति ब्रह्मखम् एव तत् ॥
सर्गेषु नाणुर् अप्य् अस्ति न ब्रह्मात्मैव यस् सदा ।
ब्रह्म सर्गस् तथा त्व् एष वाचि भेदो न वस्तुनि ॥
सर्ग एव परं ब्रह्म परं ब्रह्मैव सर्गता ।
मनाग् अप्य् अस्ति न द्वैतम् अत्राग्न्यर्कौष्ण्ययोर् इव ॥
इमे सर्गा इदं ब्रह्म चेत्य् एता वाक्यदृष्टयः ।
विदार्यदारुरववद् भान्त्य् अर्थपरिवर्जिताः ॥
द्वैतम् ऐक्यं च यत्रास्ति न मनाग् अपि तत्र ते ।
सर्गब्रह्मादिशब्दार्थाẖ कथं कस्येव भान्तु ते ॥
शान्तम् एकम् अनाद्यन्तम् इदम् अच्छम् अनामयम् ।
व्यवहारवतो ऽप्य् अङ्ग ज्ञस्य मौनं शिलाघनम् ॥
निर्वाणम् एवम् अखिलं नभ एव दृश्यं त्वं चाहम् अद्रिनिचयाश् च सुरासुराश् च ।
तादृग् जगत् समवलोकय यादृग् अङ्ग स्वप्ने ऽन्यजन्तुमनसि व्यवहारजालम् ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0