मोक्षोपाय · अध्याय 6.214
त्वाम् अप्य् उदितनिर्वाणम् अहङ्कारपिशाचकः ।
बाधते किम् इति ब्रूहि मुने मन्मोहशान्तये ॥
अहम्भावं विना देहस्थितिस् तज्ज्ञाज्ञयोर् इह ।
आधेयस्य निराधारा न संस्थेवोपपद्यते ॥
अयं त्व् अत्र विशेषस् तं शृणु विश्रान्तचेतसः ।
श्रुतेन येनाहम्भावपिशाचश् शान्तिम् एति ते ॥
अहम्भावपिशाचो ऽयम् अज्ञानशिशुनामुना ।
अविद्यमान एवान्तẖ कल्पितस् तेन सूत्थितः ॥
अज्ञानम् अपि नास्त्य् एव प्रेक्षितं यन् न लभ्यते ।
विचारिणा दीपवता स्वरूपं तमसो यथा ॥
यथा यथा विलोक्यते तथा तथा विलीयते ।
इहाज्ञतापिशाचिका तथाविचारिता सती ॥
विलसन्त्याम् अविद्यायाम् अज्ञतोदेति शाश्वती ।
बुद्धिमोहात्मिका यक्षी निर्देहैव यथा निशि ॥
सति सर्गे त्व् अविद्यायास् सम्भवो नासति क्वचित् ।
सति द्वितीये शशिनि द्वितीयो विद्यते शशः ॥
सर्गस् त्व् अयम् अजातत्वाद् अज्ञज्ञातो न विद्यते ।
न जातẖ कारणाभावात् पूर्वम् एव खवृक्षवत् ॥
परमाकाशकोशान्तर् आदिसर्गे निरामये ।
पृथ्व्यादेर् उपलम्भस्य भवेत् किम् इव कारणम् ॥
बीजात् कारणतẖ कार्यम् अङ्कुरẖ किल जायते ।
न बीजम् अपि यत्रास्ति तत्र स्याद् अङ्कुरẖ कुतः ॥
कारणेन विना कार्यं न च नामोपपद्यते ।
कदा क इव खे केन दृष्टो लब्धस् स्फुटो द्रुमः ॥
सङ्कल्पेनाम्बरे यद् वा दृश्यते विटपादिकम् ।
स सङ्कल्पस् तथाभूतो न त्व् अत्रास्ति पदार्थता ॥
यो ऽयम् एवं चिदाकाशे सर्गादाव् अनुभूयते ।
शून्ये कूप इवाकाशस् सर्गस् स्थितिनिरर्गलः ॥
सम एव चिदाकाशẖ कचत्य् आत्मनि तत्तया ।
स्वभाव एव सर्गाख्यश् चित्त्वाच् चैतन्यम् ईश्वरः ॥
स्वप्नसर्गो ऽत्र दृष्टान्तḫ प्रत्यहं यो ऽनुभूयते ।
स्वयं संवेदनं स्वप्ने स्फुरत्य् अद्रिपुराकृति ॥
चित्स्वभावो यथा स्वप्न आस्ते सर्ग इवेह वः ।
असर्गे सर्गवद् भातस् तथा पूर्वं महाम्बरे ॥
अवेद्यं वेदनं शुद्धम् एव भात्य् अजम् अव्ययम् ।
सर्गादौ यद् अनाद्यन्तं स्थितस् सर्गस् स एव वः ॥
नेह सर्गो ऽस्ति नैवायं पृथ्व्यादिगणगोलकः ।
सर्वं शान्तम् अनालम्बं ब्रह्मैव ब्रह्मणि स्थितम् ॥
सर्वशक्त्यात्म तद् ब्रह्म यथा कचति यादृशम् ।
रूपम् अत्यजद् एवाच्छं तथा भवति तादृशम् ॥
यथा स्वप्नपुरं जन्तोश् चिन्मात्रप्रविजृम्भितम् ।
तथैव सर्गस् सर्गादौ शुद्धचिन्मात्रजृम्भितः ॥
स्वच्छे चित्परमाकाशे चिदाकाशो य आस्थितः ।
स्वभाव एव सर्गो ऽसाव् इति तेनैव भावितः ॥
भाव्यभावकभावादिभूमीनां भवनं भृशम् ।
सर्वं चिन्नभ एवाच्छम् आत्मनात्मनि संस्थितम् ॥
एवं स्थिते कुतस् सर्गẖ कुतो ऽविद्या क्व चाज्ञता ।
ब्रह्म शान्तं घनं सर्वं क्वाहङ्कारादयस् स्थिताः ॥
अहम्भावस्य संशान्तिर् एषासौ कथिता तव ।
अहम्भावḫ परिज्ञातḫ पिशाच इव शाम्यति ॥
मया त्व् एवम् अहम्भावḫ परिज्ञातो यदाखिलः ।
तदा मे विद्यमानो ऽपि निष्फलश् शरदभ्रवत् ॥
चित्राग्निदाहो विज्ञातो यथा दाह्येषु निष्फलः ।
तथाहम्भावसर्गादि ज्ञातं विफलताम् इयात् ॥
इति मे ऽहङ्कृतेस् त्यागे रागे च समता यदि ।
तदा व्योम्न इव व्योम्नि सर्गे ऽसर्गे च मे स्थितिः ॥
अहम्भावस्य नैवाहं नाहम्भावो ममेति च ।
तेन विद्धि चिदाकाशम् एवेदम् इति निर्घनम् ॥
यथा मम तथान्येषाम् इति बोधवताम् इह ।
अग्नित्वम् इव चित्राग्नेर् नास्त्य् अहम्बोधविभ्रमः ॥
नाहम् अस्मि न चान्यो ऽस्ति सर्वं वास्तीतिनिश्चयः ।
प्रकृतव्यवहारस् त्वं शिलामौनमयो भव ॥
आकाशकोशविशदाकृतिर् एव तिष्ठ निर्देहवच् चिरम् अपह्नुतसर्वभावः ।
अद्यादितश् च किल चिन्मयम् एव सर्वं नो दृश्यम् अस्ति शिवम् एवम् अशेषम् इत्थम् ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0