भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.213

6.213.1

सर्वत्र सर्वदा सर्वं सर्वथा व्योम्नि चिन्मये ।
साधु सम्भवति स्वच्छं शून्यत्वम् ख इवाखिले ॥

6.213.2

यत्र वित् तत्र सर्गश्रीर् अव्योम्नि व्योम्नि चास्ति वित् ।
चिन्मयत्वात् पदार्थानां सर्वेषां नास्त्य् अवित् क्वचित् ॥

6.213.3

पदार्थजातं शैलादि यथा स्वप्ने पुरादि वा ।
चिद् एवैकं परं व्योम तथा जाग्रत्पदार्थभूः ॥

6.213.4

पाषाणाख्यानम् अत्रेदं शृणु श्रुतिरसायनम् ।
पूर्वं मयैव यद् दृष्टं चित्रं प्रकृतम् एव वा ॥

6.213.5

अहं विदितवेद्यत्वात् कदाचित् पूर्णमानसः ।
त्यक्तुम् इच्छुर् इमं लोकं व्यवहारघनभ्रमम् ॥

6.213.6

ध्यानैकनिष्ठताम् एत्य शनैर् विश्रान्तये चिरम् ।
त्यक्ताजवञ्जवीभाव एकान्तार्थी शमं व्रजन् ॥

6.213.7

इदं चिन्तितवान् अस्मि कस्मिंश्चिद् अमरालये ।
संस्थितो विविधाḫ पश्यन् भङ्गुरा जागतीर् गतीः ॥

6.213.8

विरसा खल्व् इयं लोकस्थितिर् आपातसुन्दरी ।
न जातु सुखदा मन्ये कस्यचित् केनचित् क्वचित् ॥

6.213.9

उद्वेगं जनयन्त्य् अन्तस् तीव्रसंवेगखेदतः ।
इमा दृश्यदृशो द्रष्टुर् इष्टानिष्टफलप्रदाः ॥

6.213.10

किम् इदं दृश्यते किं वा प्रेक्ष्यते को ऽहम् एव वा ।
सर्वं शान्तम् अजं व्योम चिन्मात्रात्म निरिङ्गनम् ॥

6.213.11

तस्मात् समस्तसिद्धेन्द्रदेवदैत्यादिदुर्गमम् ।
सुप्रदेशम् इतो गत्वा सङ्गोप्यात्मानम् आत्मना ॥

6.213.12

अदृश्यस् सर्वभूतानां निर्विकल्पसमाधिगः ।
समे स्वच्छे पदे शान्ते आसे विगतवेदनम् ॥

6.213.13

तस्मात् को नु प्रदेशस् स्याद् अत्यन्तं शून्यतां गतः ।
यत्रैता नानुभूयन्ते पञ्चबाह्यार्थवेदनाः ॥

6.213.14

शब्दकाननवार्यब्दभूता ध्यानिनम् आकुलाः ।
क्षोभयन्त्य् अप्य् असङ्क्षुब्धास् तस्मान् मे गिरयो ऽरयः ॥

6.213.15

नानाविधा नगेन्द्राणाम् अन्तरा वलिता जनैः ।
देशा विषमया एव निश्शेषा विषयाहिभिः ॥

6.213.16

जनैर् जलचरैर् व्याप्तास् सागरागारकुक्षयः ।
विविधारम्भसंरब्धैर् नगराणीव नागरैः ॥

6.213.17

तटान्य् अद्र्यम्बुराशीनां लोकपालपुराणि च ।
भूताकुलानि शृङ्गाणि पातालकुहराणि च ॥

6.213.18

गायन्त्य् अनिलशीत्कारैर् नृत्यन्ति लतिकाकरैः ।
पुष्पैर् हसन्त्य् अगेन्द्राणां गुहा गहनकोटराः ॥

6.213.19

मौनिमीनमुनिस्पर्शकम्पिनालचलाम्बुजाः ।
सरस्यो विरसा एव वार्यावर्तविराविताः ॥

6.213.20

पवनस्पन्दसङ्क्षुब्धतृणपांसुपताकिनी ।
रटत्य् अनिलभाङ्कारैर् निर्जनोर्व्य् अप्य् असंयता ॥

6.213.21

तस्माद् आकाशम् आशून्यं कस्मिंश्चिद् दूरकोणके ।
अत्र तिष्ठाम्य् अवष्टभ्य योगयुक्तिम् अनिन्दिताम् ॥

6.213.22

कस्मिंश्चिद् एककोणे ऽत्र कृत्वा कल्पनया कुटीम् ।
वज्रोदरदृढां तस्याम् अन्तस् तिष्ठाम्य् अवासनम् ॥

6.213.23

इति सञ्चिन्त्य यातो ऽहम् आकाशम् असिनिर्मलम् ।
यावत् तद् अपि पश्यामि सकलं विततान्तरम् ॥

6.213.24

क्वचिद् भ्रमत्सिद्धगणं क्वचिद् उद्गर्जदम्बुदम् ।
क्वचिद् विद्याधरधरं यक्षोत्क्षिप्तक्षयं क्वचित् ॥

6.213.25

क्वचित् भ्रमत्पुरवरं प्रारब्धसमरं क्वचित् ।
क्वचिद् द्रवज्जलधरं क्वचिद् उन्नृत्तयोगिनि ॥

6.213.26

क्वचिद् दैत्यपुरोड्डीनं सगन्धर्वपुरं क्वचित् ।
क्वचिद् भ्रमद्ग्रहगणं तारकाकुलितं क्वचित् ॥

6.213.27

क्वचित् खखगसङ्घुष्टं क्वचित् क्षुब्धमहानिलम् ।
क्वचिद् उत्पातवलितं क्वचिन् मङ्गलमण्डितम् ॥

6.213.28

क्वचिच् चापूर्वभूतौघं नागैश् चागोपितं क्वचित् ।
क्वचिद् अर्करथाक्रान्तं क्वचिद् अर्करथोद्धुरम् ॥

6.213.29

क्वचिद् आदित्यदाहार्तं शशिशैत्यान्वितं क्वचित् ।
क्वचित् क्षुद्रजनासह्यं क्वचिद् अग्न्यौष्ण्यदुर्गमम् ॥

6.213.30

क्वचिद् उत्तालवेतालं गरुडोड्डामरं क्वचित् ।
क्वचित् सप्रलयाम्भोदं क्वचित् सप्रलयानिलम् ॥

6.213.31

ततो भूतगणांस् त्यक्त्वा दूराद् दूरतरं गतः ।
प्राप्तवान् अहम् एकान्तं शून्यम् अत्यन्तविस्तृतम् ॥

6.213.32

अत्यन्तमन्दपवनं स्वप्ने ऽप्य् अप्राप्तभूतकम् ।
मङ्गलोत्पातरहितम् अगम्यं सिद्धसन्ततेः ॥

6.213.33

कल्पिताथ मया तत्र कुटी प्रकटकोटरा ।
नीरन्ध्रकुड्यनिबिडा पद्मकुट्मलसुन्दरी ॥

6.213.34

घुणक्षुण्णाङ्गपूर्णेन्दुबिम्बोदरमनोहरा ।
कल्हारकुन्दमन्दारपुष्पश्रीकोशशोभिता ॥

6.213.35

समग्रभूतागम्यत्वं तत्र सङ्कल्प्य चेतसा ।
अगम्ये सर्वभूतानाम् अहम् आसं तदा ततः ॥

6.213.36

बद्धपद्मासनश् शान्तमनाḫ परममौनवान् ।
संवत्सरशतान्तेन निर्णीयोत्थानम् आत्मनः ॥

6.213.37

निर्विकल्पसमाधिस्थो निद्रामुद्राम् इवागतः ।
समस् सोम्यो नभस्स्वच्छस् समुत्कीर्ण इवाम्बरात् ॥

6.213.38

शुद्धं यद् अनुसन्धत्ते चेतḫ पश्यति तत् क्षणात् ।
चिरेण वा शापवरव्यक्तिवद् विततं यदा ॥

6.213.39

तदा वर्षशतेनात्र बोधबीजं धृताङ्कुरम् ।
आसीन् मे हृदयक्षेत्रे कालसेकविकासतः ॥

6.213.40

सम्प्रबुद्धो ऽभवन् मे ऽथ जीवो सम्बुद्धवेदनः ।
शिशिरक्षीणगात्रस्य मधाव् इव रसस् तरोः ॥

6.213.41

तच् छतं तत्र वर्षाणां निमेष इव मे गतम् ।
बह्व्यो ऽपि कालगतयो भवन्त्य् एकधियां मनाक् ॥

6.213.42

विकासम् आगतो बाह्यं ततो बुद्धीन्द्रियक्रमः ।
वासन्तḫ पुष्परूपेण द्रुमस्येव रसो मम ॥

6.213.43

मां प्राणपूरितम् उपागतसंविदंशम् अभ्यागतस् त्व् अहम् इति प्रसृतḫ पिशाचः ।
इच्छाङ्गनाविवलितो ऽथ कुतो ऽपि सद्म प्रोन्नामसन्नमनवायुर् इवाग्रवृक्षम् ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc