मोक्षोपाय · अध्याय 6.211
जगन्नाम नभस् स्वच्छं सद् ब्रह्म नभसि स्थितम् ।
नभो नभसि भातीदं जगच्छब्दार्थ इत्य् अजम् ॥
त्वम् अहं जगद् इत्यादिशब्दार्थैर् ब्रह्म ब्रह्मणि ।
शान्तं समसमाभासं स्थितम् अस्थितम् एव सत् ॥
समुद्रगिरिमेघोर्वीविस्फोटमयम् अप्य् अजम् ।
काष्ठमौनवद् एवेदं जगद् ब्रह्मावतिष्ठते ॥
द्रष्टाद्रष्टैव दृश्यस्याभावात् स्वात्मनि संस्थितः ।
कर्ताकर्तैव कर्तव्याभावतẖ करणाद् ऋते ॥
न ज्ञत्वं न च कर्तृत्वं न जडत्वं न भोक्तृता ।
न शून्यता न चार्थत्वम् इह नापि नञर्थता ॥
शिलाजठरवत् सत्यं घनम् एकम् अजं ततम् ।
सर्वं शान्तम् अनाद्यन्तम् एकं विधिनिषेधयोः ॥
मरणं जीवितं सत्यम् असत्यम् अशुभं शुभम् ।
सर्वम् एकम् अजं व्योम वीचिजालं जलं यथा ॥
विद्भाग एव दृश्यत्वं द्रष्टृत्वं चैव गच्छति ।
एतच् च कल्पनं स्वप्नपुरादिष्व् अनुभूयते ॥
एवम् अच्छं पराकाशे स्वप्नपत्तनवज् जगत् ।
भाति प्रथमम् एवेदं ब्रह्मैवेत्थम् अतस् स्थितम् ॥
तद् इदं तादृशं विद्धि सर्वं सर्वात्मकं च यत् ।
देशाद् देशान्तरप्राप्तौ विदो मध्यम् अनङ्कितम् ॥
चिद्व्योम्नश् शान्तशान्तस्य मध्यम् एवैवम् आस्थितम् ।
जगत्तयेव सलिलम् एवोर्म्यादितया यथा ॥
यद् उदेत्य् उदितं यच् च यच् च नोदेति नोदितम् ।
देशाद् देशान्तरप्राप्तौ विदो मध्यान् न भेदि तत् ॥
अतẖ किलास्य सर्गस्य कारणं शशशृङ्गवत् ।
प्रयत्नेनापि चान्विष्टं न किञ्चिद् उपलभ्यते ॥
यद् अकारणकं भाति तद् अभातं भ्रमात्मकम् ।
भ्रमस्यासत्यरूपस्य सत्यता कथम् उच्यते ॥
कारणेन विना कार्यं किल किं नाम विद्यते ।
यद् अपुत्रस्य सत्पुत्रदर्शनं स भ्रमो न सत् ॥
यस् त्व् अकारणको भाति स स्वभावो विजृम्भते ।
सर्वरूपेण सङ्कल्पगन्धर्वनगरादिवत् ॥
देशाद् देशान्तरप्राप्तौ क्षणान् मध्यं विदो वपुः ।
स्वरूपम् अजहत् त्व् एव राजते ऽर्थविवर्तवत् ॥
बोध एव कचत्य् अर्थरूपेण स च खाद् अणुः ।
दृष्टान्तो ऽत्रानुभूतो ऽन्तस् स्वप्नसङ्कल्पपर्वतः ॥
विद्यते वटबीजे ऽन्तर् यथा भावी महाद्रुमः ।
परमाणौ तथा सर्गो ब्रह्मन् कस्मान् न विद्यते ॥
यत्रास्ति बीजं तत्र स्याच् छाखा विततरूपिणी ।
जन्यते कारणैस् सा च वितता सहकारिभिः ॥
समस्तभूतप्रलये बीजम् आकारि किं भवेत् ।
सहकार्य् अथ किं तस्य जायते यद्वशाज् जगत् ॥
यत् तु ब्रह्म परं शान्तं का तत्राकारकल्पना ।
परमाणुत्वयोगो ऽपि नात्र केवात्र बीजता ॥
कारणस्येति बीजस्य सत्यासत्यैककारिणः ।
असम्भवाज् जगत्सत्ता कथं केन कुतẖ क्व वा ॥
जगद् आस्ते परस्याणोर् अन्तर् इत्य् अपि नोचितम् ।
सार्षपे कणके मेरुर् आस्त इत्य् अज्ञकल्पना ॥
सति बीजे प्रवर्तन्ते कार्यकारणदृष्टयः ।
निराकारस्य किं बीजं क्व जन्यजनकक्रमः ॥
अतो यत् परमं तत्त्वं तद् एवेदं जगत् स्थितम् ।
नेह प्रजायते किञ्चिन् न च किञ्चन नश्यति ॥
चिदाकाशश् चिदाकाशे हृदि चित्त्वाज् जगद्भ्रमम् ।
अशुद्धवद् इवाशुद्धे शुद्धश् शुद्धे प्रपश्यति ॥
स्वम् एव भासते तस्य रूपं स्पन्द इवानिले ।
सर्गशब्दार्थकलना नेह काश्चन सन्ति नः ॥
यथा शून्यत्वम् आकाशे द्रवत्वं च यथा जले ।
अनन्यात्ममये शुद्धा सर्गतेयं तथात्मनि ॥
भारूपम् इदम् आशान्तं जगद् ब्रह्मैव नस् ततम् ।
अनादिनिधनं सत्यं नोदेति न च नश्यति ॥
देशाद् देशान्तरप्राप्तौ क्षणान् मध्ये विदो वपुः ।
यत् तज् जगद् इतीवेदं व्योमात्मात्मन्य् अवस्थितम् ॥
यथा स्पन्दो ऽनिले तोये द्रवत्वं व्योम्नि शून्यता ।
तथा जगद् इदं भातम् अनन्यत् त्व् इदम् आत्मनि ॥
संविन्नभो ननु जगन्नभ इत्य् अनङ्कम् आत्मन्य् अवस्थितम् अनस्तमयोदयाङ्कम् ।
तत्राङ्गभूतम् अखिलं तदनन्यद् एव शून्यं निरस्तकलनो ऽम्बरशान्तम् आस्स्व ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0