मोक्षोपाय · अध्याय 6.210
यथाचेत्ये चेतनता यथाकाले च कालता ।
यथा च व्योमताव्योम्न्य् अजडे च जडता यथा ॥
यथावायौ च वायुत्वम् अभूतादौ च भूतता ।
यथास्पन्दात्मनि स्पन्दो यथामूर्ते च मूर्तता ॥
यथाभिन्ने च भिन्नत्वं यथानन्ते च सान्तता ।
यथादृश्ये च दृश्यत्वं यथासर्गेषु सर्गता ॥
एतत् क्रमेण हे ब्रह्मन् वद मे वदतां वर ।
आदितḫ परिपाट्यैव बोध्यन्ते ह्य् अल्पबोधिनः ॥
तद् अनन्तं महाकाशं महाचिद्घनम् उच्यते ।
अवेद्यविद्रसमयं शान्तम् एकं समस्थिति ॥
ब्रह्मविष्ण्वीश्वराद्यन्ते महाप्रलयनामनि ।
शब्दार्थे रूढिम् आपन्ने यच् छुद्धम् अवशिष्यते ॥
सर्गस्य कारणं तत्र न किञ्चिद् उपपद्यते ।
मलम् आकारबीजादि मायामोहभ्रमादिकम् ॥
केवलं शान्तम् अत्यच्छम् आद्यन्तपरिवर्जितम् ।
तद् विद्यते यत्र किल खम् अपि स्थूलम् अश्मवत् ॥
न च नास्तीति तद् वक्तुं शक्यते विद्वपुर् यतः ।
न चैवास्तीति तद् वक्तुं युक्तं शान्तम् अलं यतः ॥
निमेषयोजनशतं प्राप्तायाम् आत्मसंविदि ।
मध्ये तस्यां तु यद् रूपं रूपं तस्य पदस्य तत् ॥
तस्मिन् पदे जगद्रूपं यद् इदं दृश्यते स्फुरत् ।
सकारणम् इवाकारकरालम् इव भेदवत् ॥
तत् सर्वं कारणाभावान् न जातं न च विद्यते ।
नाकारयुक्तं न जगन् न च द्वैतैक्यसंयुतम् ॥
यद् अकारणकं तस्य सत्ता नेहोपपद्यते ।
स्वयं नित्यानुभूते ऽर्थे को ऽत्रापह्नवशक्तिमान् ॥
न च शान्तम् अनाद्यन्तं जगतẖ कारणं भवेत् ।
ब्रह्मामूर्तं सुमूर्तस्य दृश्यस्याब्रह्मरूपिणः ॥
तस्मात् तत्र जगद्रूपं यद् आभानं तद् एव तत् ।
स्वयम् एव तद् आभाति चिदाकाशं चिति स्थितम् ॥
जगच् चिद् ब्रह्म भावाश् च तथाभावो भ्रमादि च ।
सर्वम् एकम् अजं शान्तम् अद्वैतैक्यम् अनामयम् ॥
पूर्णात् पूर्णं प्रसरति पूर्णे पूर्णं विराजते ।
पूर्णम् एवोदितं पूर्णात् पूर्णे पूर्णं व्यवस्थितम् ॥
शान्तं समं समुदयास्तमयैर् विहीनम् आकारमुक्तम् अजम् अम्बरम् अच्छम् एव ।
सर्वं सदा सदसद् एव तथोदितात्म निर्वाणम् आद्यम् इदम् उत्तमबोधरूपम् ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0