भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.212

6.212.1

भावाभावग्रहोत्सर्गस्थूलसूक्ष्मचराचराः ।
आदाव् एव हि नोत्पन्नास् सर्गादौ कारणं विना ॥

6.212.2

न त्व् अमूर्तो हि चिद्धातुẖ कारणं भवितुं क्वचित् ।
खात्माशक्तस् समूर्तीनां बीजम् उर्वीरुहाम् इव ॥

6.212.3

स्वभावम् एव सततं भावयन् भावनात्मकम् ।
आत्मन्य् एव हि चिद्धातुस् सर्गानुभववत् स्थितः ॥

6.212.4

आस्वादयन् निजं भावं चिद्धातुर् गगनात्मकः ।
बद्धस् सर्गप्रलापेन क्षीवẖ क्षुब्धतया यथा ॥

6.212.5

यदा सर्वम् अनुत्पन्नं नास्त्य् एवापि च दृश्यते ।
तदा ब्रह्मैव विद्धीदं समं शान्तम् असत्समम् ॥

6.212.6

चिन्नभश् चिन्नभस्य् एव पयसीव पयोद्रवः ।
चित्त्वात् कचति यत् तेन तद् एव च जगत् कृतम् ॥

6.212.7

स्वप्ने चिद् एव जगद् इत्य् उदेति विमला यथा ।
काचकच्येन कचति तथेत्थं सादिसर्गखे ॥

6.212.8

चित्काचकच्यकचनं यथा स्वप्ने जगद् भवेत् ।
तथैव जाग्रदभिधं तत्खमात्रम् इदं स्थितम् ॥

6.212.9

आदिसर्गे हि चित्स्वप्नो जाग्रद् इत्य् अभिशब्द्यते ।
अद्यरात्रौ चितेस् स्वप्नस् स्वप्न इत्य् अभिशब्द्यते ॥

6.212.10

पूर्वप्रवृत्ता सरितां रूढाद्यापि यथा स्थिता ।
तरङ्गलेखा सृष्टीनां पदार्थरचना तथा ॥

6.212.11

यथा वारि तरङ्गश्रीस् सरितां रचनाम् इता ।
तथा चिद्व्योम्नि चिद्बीजसत्तान्तस् सृष्टिताम् इता ॥

6.212.12

मृतस्यानन्तनाशश् चेत् तन् निद्रासुखम् एव तत् ।
भूयश् चेद् एति संसारस् तत् सुखं नवम् एव तत् ॥

6.212.13

कुकर्मभ्यस् तु चेद् भीतिस् सा समेह परत्र च ।
तस्माद् एते समसुखे सर्वेषां मृतिजन्मनी ॥

6.212.14

मरनं जीवितं वास्तु सदृक्षे वासने तयोः ।
इति विश्रान्तचित्तो यस् सो ऽन्तश्शीतल उच्यते ॥

6.212.15

अत्यन्ताभावसंवित्त्या सर्वदृश्यस्य वेदनम् ।
उदेत्य् अपास्तसंवेद्यं सति चासति सर्गके ॥

6.212.16

यन् न चेत्यं न चिद्रूपं यच् चित्तैर् अप्य् अचेतितम् ।
तद्भावैक्यं गतास् तज्ज्ञाश् शान्ता व्यवहृतौ स्थितेः ॥

6.212.17

चित्काचकाचकच्यं यज् जगन् नाम्ना तद् उच्यते ।
अत्यच्छे परमाकाशे बन्धमोक्षदृशẖ कुतः ॥

6.212.18

चिन्नभस्स्पन्दमात्रात्म सङ्कल्पात्मतया जगत् ।
सभूतमयम् एवेदं न पृथ्व्यादिमयं क्वचित् ॥

6.212.19

नेह देशो न कालो ऽस्ति न द्रव्यं न क्रिया न खम् ।
सद् इवाखिलम् उच्छूनं चाप्य् अनुच्छूनम् अप्य् असत् ॥

6.212.20

भाति केवलम् एवेत्थं परमार्थघनं घनम् ।
यन् न शून्यं न चाशून्यम् अत्यच्छं गगनाद् अपि ॥

6.212.21

साकारम् अप्य् अनाकारम् असद् एवातिभासुरम् ।
अतिशुद्धैकचिन्मात्रं स्फारं स्वप्नपुरं यथा ॥

6.212.22

निर्वाणम् एवम् इदम् आततम् इत्थम् अन्तश् चिद्व्योम्न आबिलम् अनाबिलरूपम् एव ।
नानेव न क्वचिद् अपि प्रसृतं न नाना शून्यत्वम् अम्बर इवाम्बुनि वा द्रवत्वम् ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc