मोक्षोपाय · अध्याय 6.209
बोधो जगद् इवाभाति मुने येन क्रमेण हे ।
तं क्रमेण क्रमं ब्रूहि भूयो ऽबोधनिवृत्तये ॥
दक्षस्येव विमूढस्य यद् दृष्टौ तत् स्वचेतसि ।
यन् न दृष्टं न तच् चित्ते भवत्य् अल्पतरस्मृतेः ॥
भव्यḫ पश्यति शास्त्रार्थम् एव पूर्वापरान्वितम् ।
न दृष्टिविषयं वस्तु यत् पश्यति करोति तत् ॥
भव्यानुष्ठाननिष्ठस् सञ् शास्त्रार्थैकमना मुनिः ।
भूत्वोपदेशं त्वम् इमं शृणु श्रवणभूषणम् ॥
इयं दृश्यभरभ्रान्तिर् नन्व् अविद्येति योच्यते ।
वस्तुतो विद्यते नैषा तापनद्यां यथा पयः ॥
उपदेश्योपदेशार्थम् एनां मदुपरोधतः ।
सत्याम् इव क्षणं तावद् आश्रित्य श्रूयताम् इदम् ॥
कुत एषा कथं चेति विकल्पान् अनुदाहरन् ।
नेदम् एषा न चास्तीति स्वयं ज्ञास्यसि बोधतः ॥
यद् इदं दृश्यते किञ्चिज् जगत् स्थावरजङ्गमम् ।
सर्वं सर्वविकाराढ्यं कल्पान्ते तद् विनश्यति ॥
अस्य भागविभागात्मा नाशो ऽवश्यम् अवारितः ।
बिन्दुना बिन्दुनाम्भोधेर् उद्धृतस्यास्ति हि क्षयः ॥
एवं स्थिते द्रव्यनाशे ब्रह्मणस् तन्मयत्वतः ।
नानन्तत्वं न चास्तित्वं न चैतत् सम्भवत्य् अलम् ॥
मदशक्तिर् इव ज्ञानम् इति नास्मासु सिध्यति ।
देहावज्ञानतो ऽस्माकं स्वप्नवत् तन् न तत्त्वतः ॥
नश्यत्य् एति च दृश्यश्रीस् सैवान्यैव नवैव वा ।
इत्थं भवेत् समुचितं कृतं शास्त्रं न चान्यथा ॥
सैवैतीत्य् असमुल्लेखं कथं नष्टस्य सम्भवः ।
तद्रूपान्येति युक्तं स्याद् अनुभूतार्थगा वयम् ॥
सैव व्योमतयैवासीद् इत्य् असत् सैव सा कथम् ।
तथैव व्योमसंस्था चेन् नाशं तर्हि न सा गता ॥
कार्यकारणयोर् एकरूपतैवं यदा तदा ।
कार्यकारणताभावाद् ऐक्यम् एवास्मदागमः ॥
शून्यं त्व् अनुपलम्भत्वं यद् गतं नष्टम् एव तत् ।
अन्यस् तर्हि भवेन् नाशẖ कीदृशẖ किल कथ्यताम् ॥
नष्टं भूयस् तद् उत्पन्नम् इति तत् प्रत्ययो ऽत्र कः ।
नश्यत्य् अवश्यं तेनेदं पुनर् अन्यत् प्रवर्तते ॥
मध्यमध्योद्यदुत्सेधफलाद्यवयवैकिका ।
आदाहं बीजसत्तास्ति कार्यकारणता कुतः ॥
देशकालक्रियात्मैकं यथादृष्टम् इह स्थितम् ।
बीजम् एवैककम् अतो न घटḫ पटकार्यकृत् ॥
सर्वदर्शनविश्रान्ते नाम्नि भेदो न वस्तुनि ।
परमार्थमये तेन विवादेन किम् अत्र नः ॥
इदं शान्तम् अनाद्यन्तं तद्रूपत्वाद् विचारतः ।
व्योमाभं बोधतामात्रम् अनुभूतिप्रमाणतः ॥
यथैतन् नानुभूतं सद् यथैतन् नानुभूयते ।
यथैतत् सिद्धिम् आप्नोति तद् इदं कथ्यते क्रमात् ॥
महाकल्पान्त उन्नष्टे सर्वस्मिन् दृश्यमण्डले ।
आमहादेवपर्यन्तं समनोबुद्धिकर्मणि ॥
व्योमन्य् अपि शमं याते काले ऽप्य् अकलितस्थितौ ।
वायाव् अपि क्वापि गते तेजस्य् अत्यन्तम् अस्थिते ॥
तमस्य् उपगते ध्वंसं वार्यादौ सुचिरं क्षते ।
अलम् अन्तम् अनुप्राप्ते सर्वशब्दार्थसञ्चये ॥
शिष्यते शान्तबोधात्म सद् अच्छं बोध्यवर्जितम् ।
अनादिनिधनं बोध्यं किम् अप्य् अमलम् अव्ययम् ॥
अवाच्यम् अनभिव्यक्तम् अतीन्द्रियम् अनामकम् ।
सर्वभूतात्मकं शून्यं सद् असच् च परं पदम् ॥
तन् न वायुर् न चाकाशं न बुद्ध्यादि न शून्यकम् ।
न किञ्चिद् अथ सर्वात्म किम् अप्य् अन्यत् परं नभः ॥
तद्विदा तत्पदस्थेन तन् मुक्तेनानुभूयते ।
अन्यैẖ केवलम् आम्नातैर् आगमैर् एव वर्ण्यते ॥
न कालो न तमो नात्मा न सन् नासन् न देशदिक् ।
न मध्यम् एतयोर् नान्तो न बोधो नाप्य् अबोधितम् ॥
किम् अप्य् एतद् अत्यच्छं च बुध्यते बोधपारगैः ।
शान्तसंसारविसरैḫ परां भूमिम् उपागतैः ॥
प्रतिषिद्धा मयैते तु ये ऽर्थास् सर्वे ऽत्र ते स्थिताः ।
अस्मद्बुद्ध्यापरिच्छेद्यास् सोम्याम्बोधेर् इवोर्मयः ॥
यथास्थितं स्थितास् सर्वे भावास् तत्र तथा यथा ।
अनुत्कीर्णा महास्तम्भे विविधास् सालभञ्जिकाः ॥
एवं तत्र स्थितास् सर्वे भावास् तत्र न च स्थिताः ।
असर्वात्मैव सर्वात्म तद् एतद् अतद् एव च ॥
पदं यथैतत् सर्वात्म सर्वार्थपरिवर्जितम् ।
यथावत् तत् प्रपश्यन्ति तत्रैकपरिणामिनः ॥
सर्वार्थास्तमये जाते सर्वार्थरहितं पदम् ।
सर्वार्थपरिपूर्णं च तद् आद्यं परिदृश्यते ॥
तव तावन् महाबुद्धे सर्वार्थोपशमात्मकम् ।
न सम्यग्ज्ञानम् उत्पन्नं संशयो ऽत्र निदर्शनम् ॥
यḫ प्रबुद्धो निराभासं परम् आभासम् आगतः ।
स्वस्थान्तẖकरणश् शान्तस् तं स्वभावं स पश्यति ॥
अयं त्वम् अहम् इत्यादिस् त्रिकालगजगद्भ्रमः ।
तत्रास्ति हेमपिण्डे ऽन्तर् इव रूपकजालकम् ॥
हेमपिण्डाद् यथा भाण्डजालं नानुपलभ्यते ।
तथा न लभ्यते भिन्नं परमार्थघनाज् जगत् ॥
सर्वदैवापि भिन्नात्मा स्वाङ्गभूतोपलम्भदृक् ।
सजगच् चाजगच् चैतद् धेमेवाङ्गदरूपकम् ॥
रिक्तं देशादिशब्दार्थैर् देशकालक्रियात्मकम् ।
यथास्थितम् इदं तत्र सर्वम् अस्ति न चास्ति च ॥
यथोर्म्यादि समे तोये चित्रं चित्रकृदीहिते ।
भाण्डवृन्दम् अयḫपिण्डे तथेदं ब्रह्मणि स्थितम् ॥
यथैतद् अत्र नो भिन्नं नाभिन्नं नास्ति चास्ति च ।
नित्यं तन्मयम् एवाच्छं शान्ते शान्तम् इदं तथा ॥
अनिखातैव भातीयं त्रिजगत्सालभञ्जिका ।
सुरसस्यैव दृश्यत्वम् इता ब्रह्मणि दारुणि ॥
निखाता दृश्यतां यान्ति स्तम्भस्थास् सालभञ्जिकाः ।
अखाता एव भान्त्य् अत्र त्रिजगत्सालभञ्जिकाः ॥
अस्मिन्न् अक्षोभ्य एवान्तस् तरङ्गास् सृष्टिदृष्टयः ।
सरस्य् अतिरसे भान्ति चिद्घनामृतवृष्टयः ॥
अविभागे विभागस्था अक्षोभे क्षुभिता इव ।
अविभाता विभान्तीव चिद्घने सृष्टिवृष्टयः ॥
परमाणौ परमाणाव् अत्र संसारमण्डलम् ।
विभाति भासुरारम्भैर् अपि भाति न किञ्चन ॥
आकाशकालपवनादिपदार्थजातम् अप्य् अङ्गम् अङ्गरहितस्य तद् अप्य् अनङ्गम् ।
सर्वात्मकं सकलभावविकारशून्यम् अप्य् एतद् आहुर् अजरं परमात्मतत्त्वम् ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0