भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.208

6.208.1

कथं केवलजाग्रत्त्वम् अकारणम् अकर्मकम् ।
पराद् विकसति ब्रह्मन् गगनाद् इव पादपः ॥

6.208.2

अकारणं महाबुद्धे न कार्यम् उपलभ्यते ।
तज् जाग्रतẖ केवलस्य न कश्चिद् इह सम्भवः ॥

6.208.3

तस्यातो ऽसम्भवाद् अन्ये जीवभेदास् सजीवकाः ।
सर्वे न सम्भवन्त्य् एव कारणाभावविक्षताः ॥

6.208.4

नेह प्रजायते किञ्चिन् नेह किञ्चन नश्यति ।
उपदेश्योपदेशार्थं शब्दार्थकलनोदयः ॥

6.208.5

कẖ करोति शरीराणि मनोबुद्ध्यादिचेतनैः ।
को मोहयति भूतानि स्नेहरागादिबन्धनैः ॥

6.208.6

न कश्चिद् एव कुरुते शरीराणि कदाचन ।
न मोहयति भूतानि कश्चिद् एव कदाचन ॥

6.208.7

अनाद्यन्तावभासात्मा बोध आत्मनि संस्थितः ।
नानापदार्थरूपेण कम् ऊर्म्यादितया यथा ॥

6.208.8

बाह्यं न विद्यते किञ्चिद् बोधस् स्फुरति बाह्यवत् ।
उदेति बोधो हृदयाद् बीजाद् इव वरद्रुमः ॥

6.208.9

बोधस्यान्तर् इदं विश्वं स्थितम् एव रघूद्वह ।
स्तम्भस्यान्तर् यथा सालभञ्जिका प्रकटीकृता ॥

6.208.10

सबाह्याभ्यन्तरात्मैकम् अनन्तं देशकालतः ।
बोधामोदप्रसरणं जगद् इत्य् अवबुध्यताम् ॥

6.208.11

अयम् एव परो लोको भाव्यतां वासनाक्षयः ।
शाम्यतां परलोकास्थं काẖ किलायान्ति वासनाः ॥

6.208.12

देशकालक्रियालोकरूपचित्तात्मसम्पदाम् ।
देशकालादिशब्दार्थरहितं न च शून्यकम् ॥

6.208.13

पदे पदविदाम् एव तस्मिञ् शून्ये गतिर् भवेत् ।
द्रष्टॄणां शान्तदृश्यानाम् एवान्येषां न राघव ॥

6.208.14

ये वै तरलगम्भीरम् अहन्तागर्तम् आश्रिताः ।
पश्यन्ति ते तम् आलोकं न कदाचन केचन ॥

6.208.15

चतुर्दशविधानन्तभूतजातसघुङ्घुमा ।
जगद्दृष्टिर् इयं ज्ञस्य शरीरावयवोपमा ॥

6.208.16

कारणाभावतस् सृष्टिर् नोदिता न च शाम्यति ।
यादृशं कारणं वा स्यात् तादृग् भवति कार्यकम् ॥

6.208.17

यादृक् स्यात् कारणे कार्यं स्थितं कारणतास्य का ।
कार्यम् एवोपलम्भान्तर् असद् द्वयम् अवेदनात् ॥

6.208.18

सोम्यस्यान्तर् यथैवाब्धेर् ऊर्म्यावर्तादयस् स्थिताः ।
ब्रह्मण्य् असम्भवत्क्षोभे जगच्चित्तादयस् तथा ॥

6.208.19

सर्वात्मैवामलं ब्रह्म पिण्ड एक इव स्थितम् ।
नानाभाण्डात्म हेमैव यथान्तस्स्थितरूपकम् ॥

6.208.20

स्वप्नकाले स्वप्न एव जाग्रद् व्यग्रापरिग्रहात् ।
जाग्रत्काले जाग्रद् एव स्वप्नो ऽसत्यावबोधतः ॥

6.208.21

चित्तमात्रतया बुद्धं मृगतृष्णाम्बुवत् स्थितम् ।
जाग्रत् स्वप्नत्वम् आयाति विचारविकलीकृतम् ॥

6.208.22

सम्यग्ज्ञानेन भूतानि ज्ञस्य देहतया सह ।
पीठबन्धं विमुञ्चन्ति गतकाला इवाम्बुदाः ॥

6.208.23

यथा गलितुम् आरब्धो घनो गगनताम् इयात् ।
तथा सत्यावबोधेन शाम्येत् सात्मग्रहं जगत् ॥

6.208.24

शरदभ्रवद् आलूना मृगतृष्णाम्बुवत् तथा ।
पुरस् सन्दृश्यमानैव बोधाद् गलति दृश्यता ॥

6.208.25

यथा दीप्तानले लीनं सुवर्णं घृतम् इन्धनम् ।
एकतां याति विज्ञाने तथा भुवनचित्तदृक् ॥

6.208.26

बोधेन तनुताम् एति पिण्डबन्धो जगत्त्रये ।
पिशाचबुद्धिस् सदने बोधितस्य यथा शिशोः ॥

6.208.27

बोधस्यानन्तरूपस्य स्वयम् एवात्मनात्मनि ।
जगच्चित्तादिता भाति पिण्डबन्धẖ किलात्र कः ॥

6.208.28

बोधबोधनम् एवेदं जगच् चित्तम् इवोदितम् ।
तद् एवास्तङ्गतं बोधात् पिण्डबन्धस्य कास्तिता ॥

6.208.29

जहाति पिण्डकाठिन्यं जगत् स्वप्नावबोधतः ।
परां पेलवताम् एति हेम द्रुतम् इवाग्निना ॥

6.208.30

यथास्थितो बोध एव घनताम् एष गच्छति ।
विनैव देशकालाभ्यां तौ विनिर्माय हेमवत् ॥

6.208.31

जाग्रत्य् एवं विचारेण स्वप्नाभे पेलवे स्थिते ।
क्षीयमाणे शरत्काले इवैति तनुतां रसः ॥

6.208.32

परां पेलवतां याता दृश्यलक्ष्म्यस् स्थिता अपि ।
स्वप्ना इव परिज्ञाता न स्वदन्ते विवेकिनः ॥

6.208.33

क्व किल स्वान्तविश्रान्तिẖ क्वैतद् विषयवेदनम् ।
सुषुप्तजाग्रतोर् ऐक्यं क्व च्छायातपयोẖ क्व वा ॥

6.208.34

द्रष्टृदृश्यदशा भ्रान्तिर् अभ्रान्तिस् स्वात्मनिष्ठता ।
कथं सदसतोर् ऐक्यं भ्रान्ताभ्रान्तात्मनोर् भवेत् ॥

6.208.35

चित्तमात्रे भ्रान्तिमात्रे स्वप्नमात्रात्मनि स्थिते ।
जगतीह पदार्थेभ्यस् सत्यबुद्धिर् निवर्तते ॥

6.208.36

कस्य स्वदन्ते ऽसत्यानि कथम् अप्य् अमहामतेः ।
मृगतृष्णाजलानीव दृश्यान्य् अपि पुरस्स्थितेः ॥

6.208.37

सत्यबुद्धौ विलीनायां जगत् पश्यति शान्तधीः ।
जलदीपांशुजालाभम् अपिण्डात्माम्बरात्मकम् ॥

6.208.38

जगतो ऽवस्तुनश् शून्यात् परिज्ञानान् निवर्तते ।
चित्तभ्रमात्मनो भ्रान्तिरूपा स्वदनभावना ॥

6.208.39

यद् अवस्त्व् इति विज्ञातं तत्रोपादेयता कुतः ।
केन स्वप्नं परिज्ञाय स्वप्नहेमाभिगम्यते ॥

6.208.40

स्वप्नाद् इव परिज्ञाताद् रसो दृश्यान् निवर्तते ।
द्रष्टृदृश्यदशादोषग्रन्थिच्छेदḫ प्रवर्तते ॥

6.208.41

नीरसश् शान्तमननो निर्वाणाहङ्कृतिẖ कृती ।
वीतरागो निरायासश् शान्तस् तिष्ठति बुद्धधीः ॥

6.208.42

रसे नीरसतां याते वासना प्रविलीयते ।
शिखायां प्रविलीनायां प्रदीपस्यांशवो यथा ॥

6.208.43

बोधाद् दीपांशुजालाभम् अघनं व्योम दृश्यते ।
भ्रान्तिरूपं जगत् कृत्स्नं गन्धर्वनगरं यथा ॥

6.208.44

नैवात्मानं न चाकाशं न शून्यं न च वेदनम् ।
अत्यन्तपरिणामेन पश्यन् पश्यति तत् पदम् ॥

6.208.45

यत्र नात्मा न शून्यं च न जगत् कलना न च ।
न चित्तदृश्योदयधीस् सर्वं चास्ति यथास्थितम् ॥

6.208.46

भूम्यादिताज्ञसम्बुद्धा ज्ञानाद् अस्तम् उपागता ।
ज्ञस्य शून्यैव सम्पन्ना संस्थितापि न विद्यते ॥

6.208.47

भवत्य् एकसमाधानस् सोम्यात्मा व्योमनिर्मलः ।
तिष्ठत्य् अपगतासङ्गस् स्थित एवाप्य् असत्समः ॥

6.208.48

अस्तङ्गतमना मौनी निरोधपदवीं गतः ।
तीर्णस् संसारजलधेẖ कर्मणाम् अन्तम् आगतः ॥

6.208.49

तनुभुवनगगनगिरिगणकरणपरं परमम् अज्ञानम् ।
विगलति गलिते तस्मिन् सकलम् इदं विद्यमानम् अपि ॥

6.208.50

शान्ततरान्तẖकरणो गलितविकल्पस् स्वरूपसारमयः ।
परमशमामृततृप्तस् तिष्ठति विद्वान् निरावरणः ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc