भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.207

6.207.1

इमे ये जीवसङ्घाता दृश्यन्ते दशदिग्गताः ।
नरनागसुरागेन्द्रगन्धर्वाद्यभिधानकाः ॥

6.207.2

ते स्वप्नजागराẖ केचित् केचित् सङ्कल्पजागराः ।
केचित् केवलजाग्रत्स्थास् चिरजाग्रत्स्थिताḫ परे ॥

6.207.3

घनजाग्रत्स्थिताश् चान्ये जाग्रत्स्वप्नास् तथेतरे ।
क्षीणजागरकाẖ केचिज् जीवास् सप्तविधास् स्मृताः ॥

6.207.4

एतेषां भगवन् भेदो बोधाय मम कथ्यताम् ।
जीवानां सप्तरूपाणां जलानाम् अर्णवेष्व् इव ॥

6.207.5

कस्मिंश्चित् प्राक्तने कल्पे कस्मिंश्चिज् जगति क्वचित् ।
केचित् सुप्तास् स्थिता देहैर् जीवा जीवितधर्मिणः ॥

6.207.6

ये स्वप्नम् अभिपश्यन्ति तेषां स्वप्नम् इदं जगत् ।
विद्धि ते हि खलूच्यन्ते जीवकास् स्वप्नजागराः ॥

6.207.7

क्वचिद् एव प्रसुप्तानां यस् स्वप्नस् स्वयम् उत्थितः ।
विषये सो ऽयम् अस्माकं तेषां स्वप्ननरा वयम् ॥

6.207.8

तेषां चिरतया स्वप्नस् स जाग्रत्त्वम् उपागतः ।
स्वप्नजागरकास् ते तु जीवा ये तद्गतास् स्थिताः ॥

6.207.9

सर्वज्ञत्वात् सर्वगस्य सर्वं सर्वत्र विद्यते ।
तेन स्वप्नवतां तेषां वयं स्वप्ननरास् स्थिताः ॥

6.207.10

येषु कल्पेषु ते जाताẖ क्षीयन्ते कल्पकल्पनाः ।
यदि तास् तत् कथं तेषां प्रबुद्धानाम् अवस्थितिः ॥

6.207.11

इह स्वप्नभ्रमात् ते तु मुच्यन्ते वा विनिद्रताम् ।
प्राप्य सङ्कल्प्य ते देहांस् तथैवान्याञ् श्रयन्त्य् अलम् ॥

6.207.12

तथैवान्यं च पश्यन्ति जगत्कल्पं प्रकल्पितम् ।
कल्पनाभासनभसो न हि सङ्कटता भवेत् ॥

6.207.13

स्वकल्पनात्मकजगज्जीर्णोदुम्बरकीटकाः ।
स्वप्नजागरकाḫ प्रोक्ताश् शृणु सङ्कल्पजागरान् ॥

6.207.14

कस्मिंश्चित् प्राक्तने कल्पे कस्मिंश्चिज् जगति क्वचित् ।
अनिद्रालव एवान्तस् सङ्कल्पैकपरास् स्थिताः ॥

6.207.15

ध्यानाद् विलुठिता वाथ मनोराज्यवशानुगाः ।
सङ्कल्पदार्ढ्यम् आपन्ना गलिताग्रानुभूतयः ॥

6.207.16

सङ्कल्प एव जाग्रत्त्वं येषां चिरतया गतः ।
तत्रास्तमितचेष्टानां ते हि सङ्कल्पजागराः ॥

6.207.17

कल्पनोपशमे भूयस् तम् अन्यं वा श्रयन्ति ते ।
देहं तेषां वयम् इमे सङ्कल्पपुरुषास् स्थिताः ॥

6.207.18

सङ्कल्पजागराḫ प्रोक्ता एते सङ्कल्पशायिनः ।
जीवा जीवितहेवाकाश् शृणु केवलजागरान् ॥

6.207.19

प्राथम्येनावतीर्णास् ते ब्रह्मणो बृंहितात्मनः ।
प्रोक्ताẖ केवलजागर्याḫ प्रागुत्पत्त्यविकासिनः ॥

6.207.20

भूयोजन्मान्तरगतास् त एव चिरजागराः ।
कथ्यन्ते प्रौढिम् आयाताẖ कार्यकारणचारिणः ॥

6.207.21

त एव दुष्कृतावेशाज् जडास् स्थावरतां गताः ।
घनजाग्रतयḫ प्रोक्ता जाग्रत्सु घनतां गताः ॥

6.207.22

ये तु शास्त्रार्थसत्सङ्गबोधिता बोधम् आगताः ।
पश्यन्ति स्वप्नवज् जाग्रज् जाग्रत्स्वप्ना भवन्ति ते ॥

6.207.23

ये तु सम्प्राप्तसम्बोधा विश्रान्ताḫ परमे पदे ।
क्षीणजाग्रत्प्रभृतयस् ते तुर्यां भूमिकाम् इताः ॥

6.207.24

इति सप्तविधो भेदो जीवानां कथितस् तव ।
समुद्राणाम् इव मया बुद्ध्वा श्रेयḫपरो भव ॥

6.207.25

भ्रान्तिं परित्यज जगद्गणनात्मिकां त्वं बोधैकरूपघनताम् अलम् आगतो ऽसि ।
शून्यत्ववर्जितम् अशून्यतया च मुक्तम् एतद् द्वयैक्यकविमुक्तवपुस् त्वम् आद्यम् ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc