मोक्षोपाय · अध्याय 6.206
परिपुष्टविवेकानां वासनामलम् उज्झताम् ।
महत्ता महताम् अन्तẖ काप्य् अपूर्वैव जायते ॥
औदार्योदारमर्यादां मतिं गाम्भीर्यसुन्दरीम् ।
महतां नावगाहन्ते भुवनानि चतुर्दश ॥
चित्तभ्रान्तिर् जगद् इति प्ररूढे प्रत्यये सताम् ।
बाह्यञ् चान्तश् चरन्न् अर्थग्रहो मोहश् च शाम्यति ॥
द्वीन्दुवत् तापजलवत् केशोण्डुकवद् अम्बरे ।
विस्फुरन्त्यां जगद्भ्रान्तौ वासनाप्रत्ययẖ कुतः ॥
वासनाप्रत्ययशमे शून्यं व्योमैव शिष्यते ।
साप्य् अवस्था मनो ऽसच् चेत् ततस् त्याज्या विवेकिना ॥
त्रयम् एतत् तु यावस्था त्रयेणानेन वर्जिता ।
पश्यन्तीवाप्य् अपश्यन्ती सावस्था परमोदिता ॥
विचित्ररत्नरश्म्योघ इव नानात्मकं जगत् ।
आभासमात्रं नाम्ब्वात्म न घनं न च पार्थिवम् ॥
रूपालोकमनोमात्रं शून्यम् एव जगत् स्थितम् ।
खे विचित्रमणिव्यूहकरजालम् इवोत्थितम् ॥
नेह सत्यानि भूतानि न जगत्ता न शून्यता ।
इदं ब्रह्माख्यरत्नेशप्रभाजालविजृम्भितम् ॥
सृष्टयो दृष्टयो ब्राह्म्यो नानातामननात्मकाः ।
अमूर्ता एव भासन्ते कल्पान्तार्कगणाघनाः ॥
एवं तावद् घनीभूतḫ पिण्डग्राहो न विद्यते ।
सङ्कल्पिते ऽर्थे व्योम्नीव शून्यतैवावगम्यते ॥
अस्याम् अवस्तुभूतायां कथं भावनिबन्धनम् ।
भविष्यदाकाशतरौ विश्रान्तẖ को विहङ्गमः ॥
पिण्डत्वं नास्ति भूतानां शून्यता न च विद्यते ।
चित्तम् अप्य् अत एवास्तं शेषं सत् तत्र वस् स्थितिः ॥
अनाना समम् एवास्ते नानारूपो विबोधवान् ।
अन्तरालीननानार्थो यथा कनकपिण्डकः ॥
यथास्थितस्य साहन्त्वं विश्वं चित्रं विलीयते ।
ज्ञस्यावाच्यम् अचित्तं सत्स्वरूपम् अवशिष्यते ॥
क्लिष्यते केवलं बुद्धिर् उत्तराधरदर्शनैः ।
स्तोकयाभ्यस्तया बुद्ध्या सत्यो ऽर्थो ह्य् अवगम्यते ॥
विराडोजो विरहितं कार्यकारणतादिभिः ।
भूतभव्यभविष्यत्स्थं जगद् अङ्ग ह्य् असम्भवम् ॥
येन बोधात्मना बुद्धं स ज्ञ इत्य् अभिधीयते ।
अद्वैतस्योपशान्तस्य तस्य विश्वं न विद्यते ॥
पूर्वोक्तास् सर्व एवैते उपदेशविशेषणाः ।
ज्ञस्यानुभवम् आयान्ति सतस् साधुकथा इव ॥
पिण्डत्वं नास्ति भूतानां शून्यत्वं चाप्य् असम्भवम् ।
अत एव मनो नास्ति शेषं सत् तत्र वस् स्थितिः ॥
चेत्योन्मुखत्वम् एवान्तश् चेतनस्यास्य चेतनम् ।
उदितं तद् अनर्थाय श्रेयसे ऽनुदितं भवेत् ॥
तस्यानुदयसंवित्तेर् भव नित्यं समाहितः ।
सस्पन्दो वा गतस्पन्दश् शङ्काम् उत्सृज्य तां भवे ॥
उदितं बाह्यताम् एत्य तत्र गच्छति पिण्डताम् ।
स्वयं संवेदनाद् एव जाड्याद् अम्ब्व् इव शैलताम् ॥
स्वप्नाद्यर्थवद् आदत्ते बोधो ऽबोधेन पिण्डताम् ।
तद्ग्राहकतया चित्तं भूत्वा बध्नाति देहकम् ॥
एतावतीष्व् अवस्थासु बोधस्योदेति नान्यता ।
शब्दकल्पनया भेदẖ केवलं परिकल्पितः ॥
बहिर् अन्तश् च बोधस्य भात्य् आत्मैवार्थदृष्टिभिः ।
कुतो ऽन्या चेत्यता तस्य स्याद् यद्य् उन्मुखतात्मनः ॥
बहिर् अन्तश् च बोधस्य भात्य् आत्मैवार्थदृष्टिभिः ।
अन्तस्त्वेन बहिष्ट्वेन चैवास्य मनसो यथा ॥
बोधस्याकाशकल्पत्वात् कालाकाशादि तद्वपुः ।
पदार्थाश् चैव खात्मानस् स्वप्नवन् नार्थरूपि खम् ॥
बाह्यार्थतां चान्तरत्वं बोधो ऽबोधवशाद् व्रजेत् ।
नासद् दृश्यं हि बोधत्वं गन्तुं शक्तं जडं क्वचित् ॥
बोधो दृश्यदशां नैति प्राप्तो वापि च तां स्थितिम् ।
सद् यथास्थितम् एवास्ते मनाग् अप्य् एति नान्यताम् ॥
अत्यर्थं शुद्धबोधैकपरिणामे कृतोदये ।
बोधाबोधार्थशब्दानां स्मृतिर् अप्य् अस्तम् एष्यति ॥
आतिवाहिकदेहानां चित्तानाम् एव जायते ।
आधिभौतिकताबोधो दृढभावनया स्वयम् ॥
आकाशविशदैश् चित्तैर् भावितैषातिवाहिकैः ।
आधिभौतिकता मिथ्या नटैर् इव पिशाचता ॥
भ्रान्तिर् अभ्रमणाभ्यासात् प्रज्ञातैषोपशाम्यति ।
नोन्मत्तो ऽस्मीति सम्बोधाच् छाम्यत्य् उन्मत्तता किल ॥
भ्रान्तेस् स्वयं परिज्ञानाद् वासना विनिवर्तते ।
स्वप्ने स्वप्नतया बुद्धे कस्य स्यात् किल भावना ॥
वासनातानवेनैव संसार उपशाम्यति ।
वासनैव महान् ग्रन्थिर् एतच्छेदपरा बुधाः ॥
अज्ञानोन्मत्तता पुंसा यथाभ्यासेन भाविता ।
तथैव बोधस्वभ्यासात् सा कालेनोपशाम्यति ॥
आतिवाहिकदेहो ऽयम् आधिभौतिकतां यथा ।
नीयते भावनात् तज्ज्ञैर् बोधसत्तां प्रसादतः ॥
आतिवाहिकदेहो ऽपि नीत्वा जीवपदं तथा ।
दृढेन बोधाभ्यासेन नेतव्यो ब्रह्मताम् अपि ॥
स्वयम्भुवश् चेद् उत्पत्तिर् बुध्यते बोधरूपिणी ।
तदातिवाहिका बुद्धिẖ कथम् इत्य् अपि बुध्यते ॥
नो चेत् तत् प्रति वाक्यार्थं न ग्रन्थिर् विनिवर्तते ।
भूतोत्सादनसूत्रस्य प्रति मन्त्रपदं यथा ॥
जगद्बोधैकता बुद्ध्या बोद्धव्या तावद् अव्रणम् ।
अत्यन्तपरिणामेन यावत् सापि न बुध्यते ॥
सबाह्याभ्यन्तरे चित्ते शान्ते भाति स्वभावता ।
शीतलां व्योमनिर्भासां ताम् एवाश्रित्य शाम्यताम् ॥
ज्ञानवाञ् ज्ञानयज्ञस्थो ध्यानयूपं विरोपयन् ।
जगद् विजित्य यजति सर्वत्यागैकदक्षिणः ॥
पतत्य् अङ्गारवर्षे वा वाति वा प्रलयानिले ।
भूतले व्रजति व्योम्नि समम् आस्ते ज्ञ आत्मनि ॥
वैतृष्ण्यशान्तमनसो निरोधम् अलम् ईयुषः ।
स्थितिर् वज्रसमाधानं विनान्या नोपपद्यते ॥
यथा बाह्यार्थवैतृष्ण्येनोपशाम्यत्य् अलं मनः ।
न तथा शास्त्रसन्दर्भैर् नोपदेशतपोदमैः ॥
मनस्तृणस्य सर्वार्थवैतृष्ण्याग्निर् विबोध्यताम् ।
सर्वत्यागानिलैस् सम्पद् अत्यापद् इति भावनात् ॥
बहिर् अन्तश् च मोहश् च पिण्डग्राहो ऽर्थवेदनम् ।
ज्ञप्तिर् एवेति कचति ज्ञत्वान् मणिर् इवात्मनि ॥
नरनागसुरागारगिरिगह्वरदृष्टिभिः ।
चितिर् एवातिविसृता धूमो ऽम्बुदतयेव खे ॥
चोपन्ति विद्रवत्वेन ब्रह्माण्डजडभाण्डगाः ।
स्वविवर्ततरङ्गिण्यो जीवशक्त्या पतद्रसाः ॥
जीवका जीर्णशफरा व्योमवारिविहारिणः ।
मोहजालेन वलिता न स्मरन्त्य् आत्मनि स्थितिम् ॥
घनीभूता घनत्वेन चिद्घना गगनाङ्गने ।
नानापदार्थरूपेण स्फुरन्ति स्वात्मनात्मनि ॥
सर्व एवम् अमी जीवा वासनावातरेणवः ।
शुष्कपर्णवद् उद्ग्रीवा जडाश् श्वसनवेणवः ॥
आहृत्य पौरुषबलान्य् अवजित्य तन्द्रीम् उत्थाय तर्जितसमर्जितवासनौघम् ।
संसारपाशघनपञ्जरम् अञ्जसैव भङ्क्त्वाभ्युदेयम् इति नाज्ञसमेन भाव्यम् ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0