भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.205

6.205.1

रूढे संसारनिर्वेदे स्थिते साधुसमागमे ।
शास्त्रार्थे भाविते बुद्ध्या भोगवैतृष्ण्य आगते ॥

6.205.2

जाते विषयवैरस्ये सज्जनत्वे तथोदिते ।
प्रकाशे सम्मुखीभूते हृदये कलितोदये ॥

6.205.3

धनानि नाभिवाञ्छ्यन्ते तमांसीव विवेकिना ।
त्यज्यन्ते विद्यमानानि संशुष्कामेध्यपर्णवत् ॥

6.205.4

नीरागपान्थदृष्ट्यैव दृश्यन्ते दारबन्धवः ।
यथाशक्ति यथाकालम् उपचर्यन्त एव च ॥

6.205.5

इन्द्रियेष्व् अपि संलग्ना इन्द्रियार्थाḫ पुनḫ पुनः ।
न भोगा अनुभूयन्ते नूनं शान्तमनस्तया ॥

6.205.6

एकान्तेषु दिगन्तेषु सरस्सु विपिनेषु च ।
उष्यन्ते पुण्यदेशेषु निजेष्व् एव गृहेषु वा ॥

6.205.7

सुहृत्केलिविलासेषु सभोद्यानाशनादिषु ।
शास्त्रतर्कविवादेषु न तथास्थीयते स्थिरम् ॥

6.205.8

उपशान्तेन दान्तेन स्वात्मारामेण मौनिना ।
ज्ञतैवान्विष्यते ज्ञेन विज्ञानैकान्तवादिना ॥

6.205.9

एवम् अभ्यासवशतḫ परे विश्रम्यते पदे ।
निम्ने ऽम्भसेव शान्तेन स्वयम् एव विवेकिना ॥

6.205.10

सबाह्याभ्यन्तरं शान्ता ज्ञतैवार्थतयोदिता ।
न सम्भवति भिन्नो ऽर्थ इत्य् एव परमं पदम् ॥

6.205.11

नार्थोपलब्धिर् नो शून्यम् अस्ति बोधात्मतां विना ।
इत्य् अन्तरनुभूतिस्थम् आहुस् तत् परमं पदम् ॥

6.205.12

अबोधबोधबोधेन द्वैतैक्योपशमे सति ।
निर्वाणम् आसितं शान्तम् आहुस् स्वं परमं पदम् ॥

6.205.13

स्वसंविन्मात्रविश्रामवताम् अमनसां सताम् ।
न स्वदन्ते हि विषयाḫ पयांसि दृषदाम् इव ॥

6.205.14

निरोधपदम् आपन्नो निर्मना मौनमन्थरः ।
स्वभावे स्थित एवास्ते चित्रे कृत इवात्मवान् ॥

6.205.15

सर्वार्थम् अर्थरहितं महद् एव पराणुवत् ।
अशून्यम् एव शून्यात्म हृदयं वेद्यवेदिनः ॥

6.205.16

अहन्त्वंजगदीहादि दिक्कालकलनादि च ।
ज्ञस्य ज्ञानादि शून्यादि स्थितम् एव न विद्यते ॥

6.205.17

ज्ञेनामलपदस्थेन दीपेनेव न चेत्यते ।
तमो हार्दं यथा बाह्यं रागद्वेषभयादिवत् ॥

6.205.18

रजोरहितसर्वाशं सत्त्वात् परम् उपागतम् ।
असम्भवत्तमोरूपं प्रणमेत् तज्ज्ञभास्करम् ॥

6.205.19

भेदप्रविलये जाते चित्ते चादृश्यतां गते ।
या स्थितिḫ प्राप्तबोधस्य न वाग्गोचरम् एति सा ॥

6.205.20

ददात्य् एतन्मयबुद्धेर् निर्वाणं परमेश्वरः ।
अहर्निशं परमया चिरं भक्त्या प्रसादितः ॥

6.205.21

ईश्वरẖ को मुनिश्रेष्ठ कथं भक्त्या प्रसाद्यते ।
एतन् मे तत्त्वतो ब्रूहि सर्वतत्त्वविदां वर ॥

6.205.22

ईश्वरो न महाबुद्धे दूरे न च सुदुर्लभः ।
महाबोधमयैकात्मा स्वात्मैव परमेश्वरः ॥

6.205.23

तस्मिन् सर्वं ततस् सर्वं स सर्वं सर्वतश् च सः ।
सो ऽन्तस् सर्वमयो नित्यं तस्मै सर्वात्मने नमः ॥

6.205.24

तस्माद् इमाḫ प्रतीयन्ते सर्गप्रलयविक्रियाः ।
अकारणं कारणतो गतयḫ पवनाद् इव ॥

6.205.25

अनिशं पूजयन्त्य् एनं सर्वास् स्थावरजङ्गमाः ।
यथाभिमतदानेन सर्वतो भूतजातयः ॥

6.205.26

सुबहून्य् एष जन्मानि यथाभिमतयेच्छया ।
यदा सम्पूजितस् तेन प्रसादम् अधिगच्छति ॥

6.205.27

प्रसन्नस् सन् महादेवस् स्वयम् आत्मा महेश्वरः ।
बोधाय प्रेरयत्य् आशु दूतं पूतं शुभेहितैः ॥

6.205.28

आत्मना परमेशेन को दूतḫ प्रेर्यते मुने ।
स दूतो बोधनं चापि करोति वद मे कथम् ॥

6.205.29

आत्मसम्प्रेरितो दूतो विवेको नाम नामतः ।
हृद्गुहायां स वरदस् तिष्ठतीन्दुर् इवाम्बरे ॥

6.205.30

स एष वासनात्मानं जन्तुं बोधयति क्रमात् ।
संसारसागरात् तस्मात् तारयत्य् अविवेकिनम् ॥

6.205.31

बोधात्मैषो ऽन्तरात्मैव परमḫ परमेश्वरः ।
अस्यैव वाचको राम प्रणवो वेदसम्मतः ॥

6.205.32

जपहोमतपोदानपाठयज्ञक्रियाक्रमैः ।
एष प्रसाद्यते नित्यं नरनागसुरासुरैः ॥

6.205.33

द्यौर् मूर्धा पृथिवी पादौ तारका रोमराजयः ।
भूतान्य् अस्थीनि हृदयं व्योमास्य परमेष्ठिनः ॥

6.205.34

सर्वत्रैष चिदात्मत्वाद् वाति जिघ्रति पश्यति ।
तेनैष सर्वतोलक्ष्यकरकर्णाक्षिपादभृत् ॥

6.205.35

विवेकदूतम् उद्बोध्य हत्वा चित्तपिशाचकम् ।
आत्मना पदवीं स्फारां जीवẖ काम् अपि नीयते ॥

6.205.36

त्यक्त्वा सर्वविकल्पौघान् विधूयानर्थसङ्कटम् ।
पौरुषेणात्मनैवात्मा स्वयम् एव प्रसाद्यताम् ॥

6.205.37

भ्रमन्मनḫपिशाचे ऽस्मिन् कल्लोलजलदाकुले ।
संसाररात्रितिमिरे स्वात्मैवापूर्णचन्द्रमाः ॥

6.205.38

अबोधमरणावर्ते कल्लोलाकुलकोटरे ।
तृष्णाकल्लोलतरले स्वमनश्चण्डमारुते ॥

6.205.39

महाजडजवाधारे संसारविषमार्णवे ।
इन्द्रियग्राहगहने विवेकḫ पोतको महान् ॥

6.205.40

पूर्वं यथाभिमतपूजनसुप्रसन्नो दत्त्वा विवेकम् इह पावनदूतम् आत्मा ।
जीवं पदं नयति निर्मलम् एकम् आद्यं सत्सङ्गशास्त्रपरमार्थपरावबोधैः ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc