मोक्षोपाय · अध्याय 6.204
संसारभारसुश्रान्तस् सङ्कटेषु लुठत्तनुः ।
यो ऽभिवाञ्छति विश्रान्तिं तस्य क्रमम् इमं शृणु ॥
पूर्वं विवेककणिका यदास्य हृदि जायते ।
संसारनिर्वेदमयी कारणाद् वाप्य् अकारणात् ॥
तदाश्रयति सच्छायान् साधून् उन्नतिशालिनः ।
अध्वश्रमहरांस् तापतप्तो मार्गतरून् इव ॥
दूरे परिहरत्य् अज्ञान् यज्ञयूपान् इवाध्वगः ।
स्नानदानतपोयज्ञान् करोति विबुधानुगः ॥
पेशलं चानुरूपं च व्यवहारम् अकृत्रिमम् ।
लोक्यम् आह्लादनं धत्ते चन्द्रबिम्बम् इवामृतम् ॥
परप्रज्ञानुगो भावḫ परार्थपरिपूरकः ।
पवित्रकर्मरसिकẖ को ऽपि सोम्यḫ प्रवर्तते ॥
नवनीतस्थलीवाच्छा स्निग्धा मृद्वी मनोहरा ।
जनं सुखयति स्वाद्वी तदीया नवसङ्गतिः ॥
शीतलानि पवित्राणि चरितानि विवेकिनः ।
इन्दोर् इवांशुजालानि जनं शीतलयन्त्य् अलम् ॥
न तथोद्यानषण्डेषु पुष्पप्रकरहारिषु ।
विश्रम्यते वीतभयं यथा साधुसमागमे ॥
मन्दाकिनीपयांसीव सङ्गतानि विवेकिनाम् ।
प्रक्षालयन्ति पापानि प्रयच्छन्ति विशुद्धताम् ॥
विवेकिषु विरक्तेषु संसारोत्तरणार्थिषु ।
जनश् शीतलताम् एति हिमहारगृहेष्व् इव ॥
ननु नागरतोदारा या विवेकिनि विद्यते ।
सुरगन्धर्वकन्यासु सा नवासु न विद्यते ॥
प्रज्ञा प्रसादम् आयाति क्रमाद् उचितकर्मणः ।
अन्तẖ करोति शास्त्रार्थम् अर्थं मकुरभूर् इव ॥
सत्प्रज्ञोन्नतिम् आयाति शास्त्रार्थरसशालिनी ।
विवेकिनी विलासेन कदलीव महावने ॥
अन्तर् एवाशु वहति सर्वार्थान् प्रतिबिम्बितान् ।
आदर्शवद् अशेषेण प्रज्ञा नैर्मल्यशालिनी ॥
साधुसङ्गमशुद्धात्मा शास्त्रार्थपरिमार्जितः ।
प्राज्ञो भात्य् उद्धृतं वह्नेर् अग्निशौचम् इवांशुकम् ॥
कचत्काञ्चनकान्तेन विमलालोककारिणा ।
भुवनं भास्करेणेव भाति साधुस् स्वचेतसा ॥
तथानुगच्छति प्राज्ञश् शास्त्रसाधुसमागमौ ।
यथात्यन्तानुषङ्गेण ताव् एवाशु भवत्य् अयम् ॥
क्रमात् सज्जनताम् एत्य शास्त्रार्थभरभावितः ।
भाति भोगान् अधẖ कुर्वन् पञ्जराद् इव निर्गतः ॥
भोगाभिगमदौर्भाग्यं दिनानुदिनम् उज्झता ।
तेन तत् कुलम् आभाति ताराचक्रम् इवेन्दुना ॥
अभोगकृपणा कापि नवैवास्य प्रवर्तते ।
मुखे कान्तिर् अपूर्वैव चन्द्रे राहौ मृते यथा ॥
तृणीकृतत्रिजगतां महताम् अभिधेयताम् ।
स याति कल्पविटपी नभसीव दिवौकसाम् ॥
भोगानां द्वेषणेनान्तर् लज्जमानो मनस्व्य् अपि ।
भोगानाम् अन्यसम्पत्त्या परमं परितुष्यति ॥
स्वा एवोपहसत्य् अन्तस् तरणी तरलक्रियाः ।
खेदस्मेरमुखो जातीर् जातिस्मर इवाधमाः ॥
अथ तं द्रष्टुम् आयान्ति सौहार्देनैव साधवः ।
भूमाव् इवोदितं चन्द्रं विस्मयोत्फुल्ललोचनाः ॥
नित्यानादृतभोगो ऽसौ तम् अप्य् उचितया धिया ।
प्राप्तम् अप्य् उचितारम्भं भोगं न बहु मन्यते ॥
पूर्वं संसृतिवैरस्यम् अन्तर् एवोदितात्मनः ।
जायते जीर्णजाड्यस्य पाकाद् इव शरत्तरोः ॥
ततस् सज्जनसम्पर्कम् उदर्कश्रेयसे स्वयम् ।
करोति स्वस्थतागृध्नुर् भिषगाश्रयणं यथा ॥
तेनोदारमतिर् भूत्वा शास्त्रार्थेषु निमज्जति ।
महान् महाप्रसन्नेषु सरस्स्व् इव महागजः ॥
सज्जनो हि समुत्तार्य विपद्भ्यो निकटस्थितम् ।
नियोजयति सम्पत्सु स्वालोकेष्व् इव भास्करः ॥
परस्वादानविरतिḫ पूर्वम् एव प्रवर्तते ।
विवेकिनो निजार्थेषु सन्तोषश् चोपजायते ॥
परस्वादानविरतस् सन्तोषामृतनिर्भरः ।
विवेकी क्रमशस् स्वार्थान् अप्य् उपेक्षितुम् इच्छति ॥
ददाति कणपिण्याकशाकान्य् अपि हि याचते ।
तेनैवाभ्यासयोगेन स्वमांसानि ददात्य् असौ ॥
नूनं विरलचिन्तानां विवेकम् अनुधावताम् ।
मौर्ख्यं लघुत्वम् आयाति धावताम् इव गोष्पदम् ॥
परार्थादानविरतिं पूर्वम् अभ्यस्य यत्नतः ।
आहर्तव्या विवेकेन ततस् स्वार्थेष्व् अरक्तता ॥
ततो भोगनिरासेन सह स्वार्थनिराकृतिः ।
परमायै स्वविश्रान्त्यै क्रियते कृतिभिẖ क्रमात् ॥
न तादृशं जगत्य् अस्ति दुẖखं नरककोटिषु ।
यादृशं यावदायुष्कम् अर्थोपार्जनशासनम् ॥
आसने शयने याने गमने रमणे ऽर्जने ।
आढ्याश् चिन्तापरा एव न तु मूढा विदन्ति ताम् ॥
नन्व् अर्था विततानर्थास् सम्पदस् सन्ततापदः ।
भोगा भवमहारोगा विपरीतेन भाविताः ॥
तावन् नायाति वैवश्यं चिन्ताविषविजृम्भणैः ।
यावद् अर्थमहानर्थो न कदर्थार्थम् अर्थ्यते ॥
अनुत्तमसुखं यस्मै चिराय परिरोचते ।
जरत्तृणशिखादृष्ट्या सो ऽर्थं पश्यतु शाम्यतु ॥
भूरिभावविकाराणां जरामरणकर्मणाम् ।
दैन्यदौरात्म्यदाहानाम् अर्थस् सार्थपतिस् स्मृतः ॥
अस्मिञ् जगति जन्तूनां जरामरणशालिनाम् ।
अजरामरतां कर्तुं सन्तोषो ऽस्ति रसायनम् ॥
वसन्तो नन्दनोद्यानम् इन्दुर् अप्सरसस् स्मरः ।
इत्य् एकतस् समुदितं सन्तोषामृतम् एकतः ॥
सरसḫ प्रावृषेवान्तस् सन्तोषेणैति पूर्णताम् ।
गम्भीरां शीतलां हृद्यां प्रसन्नां रसशालिनीम् ॥
साधुर् ओजस्विताम् एत्य सन्तोषेण विराजते ।
सुपुष्पितवराकारो वसन्तेनेव पादपः ॥
पादपातपरामर्शपिष्टकीटवद् ईहते ।
दीनप्रकृतिर् अर्थार्थी दुẖखाद् दुẖखान्तरं व्रजन् ॥
कल्लोलविकलाẖ क्षुब्धसमुद्रपतिता इव ।
नाप्नुवन्ति स्थितिं स्वस्थां विकृताकृतयो ऽर्थिनः ॥
सम्पदḫ प्रमदाश् चैव तरङ्गोत्सङ्गभङ्गुराः ।
कस् तास्व् अहिफणच्छत्त्रच्छायासु रमते बुधः ॥
अर्थोपार्जनरक्षाणां जानन्न् अपि कदर्थनाम् ।
यẖ करोति स्पृहां मूढो नृपशुस् तं न संस्पृशेत् ॥
मनसो बाह्यम् आरम्भम् आन्तरं च लुनाति यः ।
समं वैतृष्ण्यदात्रेण तस्य क्षेत्रं प्रकाशते ॥
जगत्त्वम् अज्ञसम्बुद्धं ज्ञो विदन्न् असद् एव यत् ।
सतीव तत्र स्फुरति तद् अनभ्यासजृम्भितम् ॥
संसारनिर्वेदवशाद् उपेत्य सत्सङ्गमं शास्त्रम् उपेत्य तेन ।
शास्त्रार्थभावेन निरस्य भोगान् वैतृष्ण्यदार्ढ्यात् परमार्थम् एति ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0