भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.203

6.203.1

परमार्थफले ज्ञाते भुक्ते परिणतिं गते ।
बोधे ऽथ स भवत्य् आशु परमार्थो मनोमृगः ॥

6.203.2

क्वापि सा मृगता याति प्रक्षीणस्नेहदीपवत् ।
परमार्थदशैवास्ते तत्रानन्तावभासिनी ॥

6.203.3

ध्यानद्रुमफलप्राप्तौ बोधताम् आगतं मनः ।
वज्रसारां स्थितिं धत्ते च्छिन्नपक्ष इवाचलः ॥

6.203.4

मनस्ता क्वापि संयाति तिष्ठ्तत्य् अच्छैव बोधता ।
निर्वाच्या निर्विभागान्ता सर्वा सर्वात्मिका सती ॥

6.203.5

अविविक्ततया चित्तसत्ता बोधतयोदिता ।
अनाद्यन्ता भवत्य् अच्छप्रकाशफलदायिनी ॥

6.203.6

स्वयम् एव ततस् तत्र निरस्तसकलैषणम् ।
अनाद्यन्तम् अनायासं ध्यानम् एवावशिष्यते ॥

6.203.7

यावन् नाधिगतं ब्रह्म न विश्रान्तं परे पदे ।
तावत् तन्मननत्वेन न ध्यानम् अवगम्यते ॥

6.203.8

परमार्थैकताम् एत्य न जाने क्व मनो गतम् ।
क्व वासनाẖ क्व कर्माणि क्व हर्षामर्षसंविदः ॥

6.203.9

केवलं दृश्यते योगी गतो ध्यानैकनिष्ठताम् ।
स्थितो वज्रसमाधाने विपक्ष इव पर्वतः ॥

6.203.10

विरसाखिलभोगस्य प्रशान्तेन्द्रियसंविदः ।
नीरसाशेषदृश्यस्य स्वात्मारामस्य योगिनः ॥

6.203.11

क्रमेण विगलद्वृत्तेर् बलाद् विश्रन्तिम् ईयुषः ।
अर्थायातं समाधानं केन नाम निवार्यते ॥

6.203.12

तावद् विषयवैरस्यं भावयत्य् उचिताशयः ।
न पश्यत्य् एव तान् यावद् भोगांश् चित्रनरो यथा ॥

6.203.13

अपश्यञ् जागतान् अर्थान् निर्वासनतयात्मवान् ।
बलाद् वज्रसमाधाने त्व् अन्येनेव निवेश्यते ॥

6.203.14

प्रावृषीव नदीपूरो यस् समाधिर् उपस्थितः ।
बलाद् एव तम् आयातं भूयश् चलति नो मनः ॥

6.203.15

सर्वार्थशीतलत्वेन बलाद् ध्यानं यद् आगतम् ।
ज्ञानाद् विषयवैरस्यं स समाधिर् हि नेतरः ॥

6.203.16

दृढं विषयवैरस्यम् एव ध्यानम् उदाहृतम् ।
तद् एव परिपाकेन वज्रसारं भवत्य् अलम् ॥

6.203.17

यद् एतद् भोगवैतृष्ण्यं ध्यानम् अङ्कुरितं हि तत् ।
तद् एव पीठबन्धेन भवति स्कन्धबन्धुरम् ॥

6.203.18

सम्यग्ज्ञानं समुच्छूनं यदैवोज्झितवासनम् ।
ध्यानं भवति निर्वाणम् आनन्दात् परम् आगतम् ॥

6.203.19

अस्ति चेद् भोगवैतृष्ण्यं किम् अन्यद् ध्यानदुर्धिया ।
नास्ति चेद् भोगवैतृष्ण्यं किम् अन्यद् ध्यानदुर्धिया ॥

6.203.20

दृश्यस्वदनमुक्तस्य सम्यग्ज्ञानवतो मुनेः ।
निर्विकल्पं समाधानम् अविरामं प्रवर्तते ॥

6.203.21

यस्मै न स्वदते दृश्यं स सम्बुद्ध इति स्मृतः ।
न स्वदन्ते यदा भोगास् सम्यग्बोधस् तदोदितः ॥

6.203.22

यस्य स्वभावविश्रान्तिẖ कथं तस्यास्ति भोगिता ।
अस्वभावो हि भोगित्वं तत्क्षये तत् कथं कुतः ॥

6.203.23

श्रुतिपाठजपान्तेषु समाधिनिरतो भवेत् ।
समाधिविरतश् शान्तश् श्रुतिपाठजपाञ् श्रयेत् ॥

6.203.24

निर्वाणम् आसीत निरस्तखेदं समस्तशङ्कास्तमयाभिरामम् ।
सुषुप्तसोम्यं समशान्तचित्तं शरद्घनाभोगविशुद्धम् अन्तः ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc