मोक्षोपाय · अध्याय 6.202
इति विश्रान्तिमान् एष मनोहरिणको ऽरिहन् ।
तत्रैव रतिम् आयाति न याति विटपान्तरम् ॥
एतावताथ कालेन स विवेकद्रुमḫ फलम् ।
अन्तस्स्थं परमार्थात्म शनैḫ प्रकटयत्य् अलम् ॥
ध्यानद्रुमफलं पुण्यं तद् असौ स्वमनोमृगः ।
अधस्स्थितḫ प्रान्तगतं तस्य पश्यति सत्तरोः ॥
आरोहति ततो वृक्षं तद् आस्वादयितुं फलम् ।
अन्यगर्धपरित्यागे वितताध्यवसायवान् ॥
विवेकरसम् आक्रामन् वृत्तीस् त्यजति भूगताः ।
उत्तमं पदम् आसाद्य भूयो नाधस् समीहते ॥
तेनोत्तमफलार्थेन संस्कारान् प्राक्तनान् असौ ।
विवेकपदम् आरूढस् त्यजत्य् अहिर् इव त्वचम् ॥
हसत्य् उच्चैḫ पदारूढम् आत्मानम् अवलोकयन् ।
एतावन्तम् अहं कालं कृपणẖ को ऽभवं त्व् इति ॥
करुणादिषु तेष्व् अस्तभ्रमश् शाखान्तरेषु सः ।
लोभव्यालम् अधẖ कुर्वन् सम्राड् इव विराजते ॥
हृदयेन्दोर् घनश्रेणीर् मुखाब्जतिमिरावलीः ।
कृष्णायश्शृङ्खलास् तृष्णा दिनानुदिनम् उज्झति ॥
उपेक्षते न सम्प्राप्तं नाप्राप्तम् अभिवाञ्छति ।
सोमसोम्यो भवत्य् अन्तश्शीतलस् सर्ववृत्तिषु ॥
शास्त्रार्थपल्लवेष्व् एव निषण्णात्मावतिष्ठते ।
उन्नतावनतापाता अधḫ पश्यञ् जगद्गतीः ॥
भीमद्रुमलतोत्कीर्णपुष्पप्रकरदन्तुराः ।
प्राक्तनीस् स्वास् स्थलीḫ पश्यन् हसत्य् अन्तर् वराकताम् ॥
तेषु तत्स्कन्धदेशेषु तयोड्डीनविडीनया ।
हारिण्या विहरन् गत्या राजेव परिराजते ॥
पुत्रदारकलत्राणि मित्राणि च धनानि च ।
जन्मान्तरकृतानीव स्वप्नजानीव पश्यति ॥
रागद्वेषभयोन्मादमानमोहमहार्तयः ।
नटस्येवास्य दृश्यन्ते शीतलामलचेतसः ॥
उन्मत्तचेष्टिताकारा हसत्य् अपि पुरो ऽसतीः ।
तरङ्गभङ्गुराधारास् संसारसरितो गतीः ॥
न स चेतयते काश्चिल् लोकदारधनैषणाः ।
अपूर्वपदविश्रान्तो जीवन्न् एव यथा शवः ॥
केवलं केवले शुद्धे बोधात्मनि महोन्नतौ ।
दत्तदृष्टिḫ फले तस्मिन् दूरं समधिरोहति ॥
स्मृत्वा स्मृत्वापदḫ पूर्वास् सन्तोषामृतपोषितः ।
अर्थानाम् अप्य् अनर्थानां नाशे न परितप्यते ॥
व्यवहारेषु कार्येषु भोगसम्पादकेष्व् अपि ।
परम् उद्वेगम् आयाति सनिद्र इव बोधितः ॥
दीर्घाध्वग इवोदाराम् अनारतम् अबाधिताम् ।
चिरं मौर्ख्यश्रमाक्रान्तो विश्रान्तिम् अभिवाञ्छति ॥
निश्श्वासबोधितो ऽप्य् अग्निर् अनिन्धन इवात्मनि ।
श्वासमात्रभ्रमे ऽप्य् अन्तर् अतिष्ठन्न् एव शाम्यति ॥
आपतन्तीं बलाद् एव पदार्थेष्व् अरतिं शनैः ।
न शक्नोति निराकर्तुं वृष्टिम् अभ्रच्युताम् इव ॥
तां महापदवीं गच्छन् परमार्थफलप्रदाम् ।
भूमिं काम् अप्य् उपायाति वचसाम् अप्य् अगोचराम् ॥
कुतो ऽप्य् अचेष्टितेष्व् एव सम्प्राप्तेषु विधेर् वशात् ।
भोगेष्व् अरतिम् आयाति पान्थो मरुमहीष्व् इव ॥
घूर्णन् क्षीव इवानन्दी सुप्तस् संसारवृत्तिषु ।
अन्तḫपूर्णमना मौनी काम् अपि स्थितिम् ऋच्छति ॥
स तादृग्रूपताम् एत्य परमार्थफलस्य तत् ।
क्रमान् निकटम् आप्नोति खगो ऽर्कपदवीम् इव ॥
ततस् तद् अखिला बुद्धीर् विहाय वियता समः ।
गृह्णात्य् अथास्वादयति भुङ्क्ते ऽथ परितृप्यति ॥
सकलार्थपरित्यागाद् दिनानुदिनम् आततात् ।
शुद्धस्वभावविश्रान्तिḫ परमार्थाप्तिर् उच्यते ॥
भेदबुद्धौ विलीनायां बोध एवावशिष्यते ।
शुद्धम् एकम् अनाद्यन्तं तद् ब्रह्मेति विदुर् बुधाः ॥
लोकैषणाविरक्तेन त्यक्तदारैषणेन च ।
धनैषणाविमुक्तेन तस्मिन् विश्रम्यते पदे ॥
परेण परिणामेन मिथश् चित्परमार्थयोः ।
तापेन हिमलेखेव भेदबुद्धिर् विलीयते ॥
तज्ज्ञस्याक्लिष्टमुक्तस्य स्वभावं सुसमं विना ।
स्थितिस् स्रग्दामकस्येव न सम्भवति काचन ॥
यथाप्रकटिताङ्गान्तस् संस्थिता सालभञ्जिका ।
न सती नासती स्तम्भे तथा विश्वस्थितिḫ परे ॥
ध्यानं न शक्यते कर्तुं न चैतद् उपयुज्यते ।
अबोधेन विबुद्धस् तु स्वयम् अत्रैव तिष्ठति ॥
आत्यन्तिकी विरसता यस्य दृश्येषु दृश्यते ।
स बुद्धो नाप्रबुद्धस्य दृश्यत्यागे हि शक्तता ॥
दृश्यस्य बोधताबोधो यो बोधाद् अपरिक्षयः ।
स समाधानशब्देन कथ्यते सुसमाहितैः ॥
द्रष्टृदृश्यैकतारूपḫ प्रत्ययो मनसो यदा ।
उदेत्य् एकसमाधाने तदा विश्राम्यति स्वयम् ॥
स्वभावो दृश्यवैरस्यम् एव तत्त्वविदो जनाः ।
दृश्यस्वदनम् एवाहुर् अतत्त्वज्ञत्वम् उत्तमाः ॥
अतज्ज्ञस्यैव विषयास् स्वदन्ते न तु तद्विदः ।
न हि पीतामृतायान्तस् स्वदते कटु काञ्चिकम् ॥
वितृष्णस्यात्मनिष्ठत्वाद् एषणात्रयम् उज्झतः ।
ज्ञस्याप्य् अनिच्छतो ध्यानम् अर्थायातं प्रवर्तते ॥
बोधस् स्फुरति तृष्णायां सैव यस्य न विद्यते ।
तस्य स्वं रूपम् उत्सृज्य क्वासौ तिष्ठति कẖ कथम् ॥
ज्ञस्यानाधारको ऽध्येयो बोधो नेयत्तया भवेत् ।
अनन्तो ऽसाव् अतृष्णस्य निर्विभागोदितस् स्वयम् ॥
अनन्तम् अपतृष्णस्य स्वयम् एव प्रवर्तते ।
ध्यानं गलितपक्षस्य संस्थानम् इव भूभृतः ॥
शुद्धबोधात्मनि ज्ञत्वाद् असमाहिततोदिता ।
लभ्यते न समिद्धे ऽग्नौ बुकपुष्पम् इव स्थितम् ॥
परं विषयवैतृष्ण्यं समाधानम् उदाहृतम् ।
आहृतं येन तन् नूनं तस्मै नृब्रह्मणे नमः ॥
नूनं विषयवैतृष्ण्ये परिप्रौढिम् उपागते ।
शक्नुवन्ति निहन्तुं न ध्यानं सेन्द्रास् सुरासुराः ॥
परं विषयवैतृष्ण्यं वज्रध्यानं प्रसाध्यताम् ।
भेदे विगलिते ज्ञानाद् अन्यानन्दतृणेन किम् ॥
मूर्खस्थो विश्वशब्दार्थो न तज्ज्ञविषयो यथा ।
तज्ज्ञस्थो विश्वशब्दार्थो न मूर्खविषयस् तथा ॥
तज्ज्ञाज्ञयोस् तयोश् चैव स्थितयोर् विश्वयोर् यथा ।
यत्रैकीभूय कचनं तत्र विश्रम्यतां बुधाः ॥
बोधभूमिषु सिद्धानाम् अर्थानां वाविवेकिनाम् ।
सत्तासत्ते द्वयैक्ये च निर्णीते नेह केनचित् ॥
उपाय एकश् शास्त्रार्थो द्वितीयो ज्ञसमागमः ।
ध्यानं तृतीयो निर्वाणे श्रेष्ठस् त्व् अत्रोत्तरोत्तरः ॥
जीवादर्शो मिथो रूपं गृह्णात्य् एषां महद् वपुः ।
जगत्य् उदेति सङ्घट्टाद् अविशेषं समे ऽसमे ॥
ज्ञातपूर्वापराशेषजगदष्टापदस्थितेः ।
एकसिद्धौ द्वयोस् सिद्धिर् भोगवैतृष्ण्यदा ययोः ॥
मतिवात्या धुतो व्योम्नि दग्धो ज्ञानाग्निनाखिलः ।
जगत्तूलḫ परे शान्ते न जाने क्वाशु गच्छति ॥
चित्राग्निनेव बोधेन तेन जाड्यं न शाम्यति ।
निर्मूलापि जगद्भ्रान्तिर् येनाशु न विलीयते ॥
यथाज्ञस्य जगज्ज्ञप्तिर् अपज्ञानात् प्रदीप्यते ।
तथा ज्ञस्य परिज्ञानात् तदज्ञप्तिḫ प्रदीप्यते ॥
तज्ज्ञस्य त्रिजगज्ज्ञप्तिशब्दार्थरहिता स्थिता ।
यथा स्थिथैव त्रिजगज्ज्ञप्तिश् चित्र इवोदिता ॥
शून्यत्वेनेव रचिता स्वप्नत्वेनेव निर्मिता ।
भासते भामयीवाच्छा जगज्ज्ञप्तिर् ज्ञचेतसि ॥
नूनं बोधे विरूढस्य नाहन्ता न जगत्स्थितिः ।
भासते परमाभासरूपिणẖ काप्य् अवस्थितिः ॥
बोधाबोधात्मकं चित्तं भाति शुष्कार्द्रकाष्ठवत् ।
बोधाद् एकं जगद्भावैर् जाड्यान् नानात्वम् आगतम् ॥
मिथो ऽबोधाद् विवदति मैत्रीं भजति बोधतः ।
य एवास्याधिको भागस् तन्मयत्वेन तिष्ठति ॥
बुद्धस् संस् तत्त्वम् आवेत्ति जगतो ऽभावभावयोः ।
जाग्रत्स्वप्नसुषुप्तानां स्वभावम् इव तुर्यगः ॥
वासनैव मनस् सेयं स्वविचारेण नश्यति ।
अवस्तुत्वाद् अतो मोक्षे नात्मनाशḫ प्रवर्तते ॥
ध्यानद्रुमात् स्वयम् अनल्पम् उपोढपाकात् कालेन बोधम् उपयातवतẖ क्रमेण ।
भुक्त्वा रसायनफलं परबोधम् आद्यम् इत्थं मनोहरिणको निगडाद् विमुक्तः ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0