मोक्षोपाय · अध्याय 6.201
क्रमात् समाधानतरोर् आजीवं फलशालिनीम् ।
सलताकुसुमां ब्रूहि सत्तां विश्रान्तिदां मुने ॥
आजीवम् उद्यदुत्सेधं विवेकिजनकानने ।
पुष्पपत्त्रफलोपेतं समाधानतरुं शृणु ॥
यथा कथञ्चिद् उदितं दुẖखेन स्वयम् एव वा ।
संसारनवनिर्वेदं बीजम् अस्य विदुर् बुधाः ॥
शुभजालहलाकृष्टं रसासिक्तम् अहर्निशम् ।
प्रवहच्छ्वसनाकुल्यं क्षेत्रम् अस्य मनो विदुः ॥
समाधिबीजं संसारनिर्वेदḫ पतति स्वयम् ।
चित्तभूमौ विविक्तायां विवेकिजनकानने ॥
स्वचित्तभूमौ पतितं ध्यानबीजं महाधिया ।
सेकैर् अमीभिर् यत्नेन संसेक्तव्यम् अखिन्दता ॥
शुद्धैस् स्निग्धैḫ पवित्रैश् च मधुरैर् आत्मनेहितैः ।
सत्सङ्गमनवक्षीरैर् ऐन्दवैर् अमृतैर् इव ॥
अन्तश्शैत्यप्रदैḫ पूर्णैस् स्वच्छैर् अमृतशीतलैः ।
विसृतैर् मतिकुल्यासु शास्त्रार्थवरवारिभिः ॥
स्वचित्तभूमौ पतितं परिज्ञाय महाधिया ।
बीजं संसारनिर्वेदो रक्ष्यं ध्यानस्य यत्नतः ॥
तपḫप्राकारदानेन परार्थघटनोक्षितैः ।
तीर्थायतनविश्रान्तिधृतिविस्तारकल्पनैः ॥
कर्तव्यो ऽङ्कुरितस्यास्य रक्षिता शिक्षिताशयः ।
सन्तोषनामा प्रियया नित्यं मुदितयान्वितः ॥
पश्चात्स्थिताशाविहगान् परप्रणयपक्षिणः ।
अस्माद् आपततẖ कामगर्वगृध्रान् निवारयेत् ॥
मृदुभिस् सत्क्रियाकूर्चैर् विवेकार्कातपैर् इव ।
औचित्यालोकदैर् अस्मान् मार्जितव्यं रजस् तमः ॥
सम्पदḫ प्रमदाश् चैव तरङ्गा भोगभङ्गुराः ।
पतन्त्य् अशनयस् तस्मिन् दुष्कृताभ्रसमीरिताः ॥
धैर्यौदार्यदयामन्त्रैर् जपस्नानतपोदमैः ।
विनिवारयितव्यास् ताḫ प्रणवार्थत्रिशूलिना ॥
इति संरक्षिताद् अस्माद् ध्यानबीजात् प्रवर्तते ।
आभिजात्योन्नतश् श्रीमान् विवेकाख्यो नवाङ्कुरः ॥
तेन सा चित्तभूर् भाति सप्रकाशाप्रकाशिनी ।
भवत्य् आलोकरम्या च खं यथाभिनवेन्दुना ॥
तस्माद् अङ्कुरतḫ पत्त्रे उभे विकसतस् स्वयम् ।
एकं शास्त्राभिगमनं द्वितीयं साधुसङ्गमः ॥
स्तम्भम् एवाथ बध्नाति स्थैर्यं नाम समुन्नतम् ।
सन्तोषत्वग्विवलितं वैराग्यरसरञ्जितम् ॥
वैराग्यरसपुष्टात्मा शास्त्रार्थप्रावृषान्वितः ।
स्वल्पेनैव स कालेन पराम् एति समुन्नतिम् ॥
शास्त्रार्थसाधुसम्पर्कवैराग्यरसपीवरः ।
रागद्वेषकपिक्षोभैर् न मनाग् अपि कम्पते ॥
अथ तस्मात् प्रजायन्ते विज्ञानालङ्कृताकृतेः ।
लता रसविलासिन्य इमा विततदेशगाः ॥
स्फुटता सत्यता सत्ता धीरता निर्विकल्पता ।
समता शान्तता मैत्री करुणा कीर्तितार्यता ॥
लताभिर् गुणपत्त्राभिस् स ध्यानतरुर् ऊर्जितः ।
यशḫपुष्पाभिर् एताभिḫ पारिजातायते यतेः ॥
इत्य् असौ ज्ञानविटपी लतापल्लवपुष्पवान् ।
भविष्यद्ध्यानफलदो दिनानुदिनम् उन्नमन् ॥
यशẖकुसुमगुच्छाढ्यो गुणपल्लवलास्यवान् ।
वैराग्यरसविस्तारी प्रज्ञामञ्जरिताकृतिः ॥
सर्वाश् शीतलयत्य् आशाḫ प्रावृषीव पयोधरः ।
भवातपं शमयति सूर्यतापम् इवोडुपः ॥
प्रतनोति शमच्छायां छायाम् इव घनागमः ।
निरोधम् आस्फालयति समो ऽनिल इवाम्बुदम् ॥
निबध्नात्य् आत्मना पीठं कुलाचल इव स्थिरम् ।
फलस्य रचयत्य् ऊर्ध्वे घटिकां मङ्गलाचिताम् ॥
विवेकफलवृक्षे तु वर्धमाने दिने दिने ।
छायावितानवलिते पुंसो हृदयकानने ॥
प्रवर्तते शीतलता तलतापापहारिणी ।
अत्युल्लसन्मतिलतातुषारोदरसुन्दरी ॥
यस्याम् अवान्तरश्रान्तो विश्राम्यति मनोमृगः ।
आजन्मजीर्णपथिकḫ पथि कोलाहलाकुलः ॥
सत्तामात्रात्मशारीरशर्मार्थं प्रेक्षितो ऽरिभिः ।
नानातासारम् आत्मानं गोपयन् कुञ्जकोन्मुखः ॥
संसारारण्यविसरद्वासनापवनेरितः ।
अहन्तातापसरिता सर्वदा विप्रलम्भितः ॥
दारदीर्घदरीदूरचिरसञ्चारजर्जरः ।
पुत्रपत्त्रपरामर्शप्रपातात् पतितो ऽवटे ॥
लक्ष्मीलताविलुठनात् सङ्कटे कुट्टिताङ्गकः ।
तृष्णाश्रीसरितं गृह्णन् कल्लोलैर् दूरम् आहृतः ॥
व्याधिदुर्व्याधवैधुर्यपलायनपरायणः ।
अशङ्कितविधिव्याधपातातिचकिताकृतिः ॥
गेयास्वादसमापातदुẖखसायकशङ्कितः ।
वैरिविद्रावणव्यग्रो दृषदाहननाङ्कितः ॥
उन्नतानतसम्पातनिपातानतिघूर्णितः ।
न्यक्कारोपलनिर्घातैḫ पारम्पर्येण चूर्णितः ॥
तृष्णाशरलताजालप्रवेशवशविक्षतः ।
स्वप्रज्ञारचिताचारḫ परमायास्व् अशिक्षितः ॥
इन्द्रियग्रामम् आगत्य प्रपलायनतत्परः ।
सुदुर्ग्रहगजेन्द्रोग्रविस्फूर्जनविमर्दितः ॥
विषयाजगरोद्गारविषफूत्कारमूर्छितः ।
कामकौलेयकैर् भूमौ रसार्द्रायां विपोथितः ॥
कोपदावानलप्लुष्टस्पष्टविस्फोटदाहवान् ।
सदागतागतानेकदीर्घदुẖखप्रवाहवान् ॥
स्वाङ्गलग्नाभिलाषांशदंशदोषैर् उपद्रुतः ।
भोगलोभलसन्मेदस्सृगालचिरविद्रुतः ॥
स्वकर्मकन्दरोद्वान्तदारिद्र्यद्वीप्यनुद्रुतः ।
व्यामोहमिहिकान्धत्वकूटावटलुठत्तनुः ॥
मानसिंहसमुल्लासहृदयोत्कम्पनातुरः ।
मरणेनारणेयेन बुकपुष्पम् इवेक्षितः ॥
गर्धान् निगरणायाशु दूरतो जनसेवितः ।
कामैस् समन्ततो दत्तचिन्तानिचयवागुरः ॥
तारुण्यनाम्ना सुहृदा क्षणम् आलिङ्ग्य वर्जितः ।
दुस्सञ्चारेषु पवनैẖ कुपितैर् इव तर्जितः ॥
कदाचिन् निर्वृतिं यातẖ क्षणं शमतरौ क्वचित् ।
मनोहरिणको राजन् राजीवम् इव भास्वति ॥
तालीतमालबकुलादिकवृक्षगुल्मविश्रान्तिषु प्रचुरपुष्पविलासहासैः ।
नामापि यस्य न विदन्ति सुखस्य मूढाḫ प्राप्नोति तच् छमतरोस् स्वमनोमृगो वः ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0