मोक्षोपाय · अध्याय 6.200
अहन्तादि जगच् चेदं परिज्ञानाद् असत्यताम् ।
याति सानुभवे मोहात् सत्यम् एवान्यथाधियाम् ॥
अज्ञानज्वरमुक्तस्य बोधशीतलितात्मनः ।
एतद् एव भवेच् चिह्नं यद् भोगाम्बु न रोचते ॥
अलम् अन्यैḫ परिज्ञानैर् वाच्यवाचकविभ्रमैः ।
अनहंवेदनामात्रं निर्वाणं तद् विभाव्यताम् ॥
अभिज्ञाता यथा स्वप्ने पदार्था रमयन्ति नो ।
न च सन्ति तथैवास्मिन् नाहं जगद् इति भ्रमे ॥
यथा स्वभावनाद् यक्षस् तरौ सस्वजनं पुरम् ।
पश्यत्य् असत्यम् एवैवं जीवḫ पश्यति संसृतिम् ॥
विभ्रमात्मा यथा यक्षो यक्षालोकश् च तौ मिथः ।
सद्रूपौ संस्थितौ मिथ्या तथाहन्त्वजगद्भ्रमौ ॥
अनावरणतो ऽरण्ये यक्षाद् विभ्रमरूपिणः ।
यथा स्फुरन्ति भूतानि तथेमानि चतुर्दश ॥
भ्रममात्रम् अहं मिथ्यैवेति बुद्ध्या विभावयन् ।
यक्षो ऽयक्षत्वम् आयाति चित्तं चाचित्तताम् इदम् ॥
निरस्तसकलाशङ्कं त्यागग्रहणवर्जितम् ।
अविसारिसमस्तेच्छं शान्तम् आस्स्व यथास्थितम् ॥
अत्यन्तासम्भवद्दृश्यं द्रष्ट्रात्मकम् इदं ततम् ।
अथ वा नैव द्रष्ट्रात्म सवाच्यं किम् अवाप्यते ॥
वसन्तरसपूरस्य यथा विटपगुल्मता ।
स्वरूपमात्रभरतस् संविदस् सर्गता तथा ॥
यद् इदं जगदाभासं शुद्धचिन्मात्रवेदनम् ।
कात्रैकता द्विता का वा निर्वाणम् अलम् आस्यताम् ॥
भूयतां चिन्मयव्योम्ना पीयतां परमो रसः ।
स्थीयतां विगताशङ्कं निर्वाणानन्दनन्दने ॥
किम् एतास्व् अतिशून्यासु संसारारण्यभूमिषु ।
मानवा वातहरिणा भ्रमथोद्भ्रान्तबुद्धयः ॥
जगत्त्रयमरीच्यम्बुविप्रलब्धान्धबुद्धयः ।
मा धावत घनव्यग्रम् आशयोपहताशयाः ॥
रूपालोकमनस्कारमृगतृष्णाम्बुपायिनः ।
व्यर्थं मा यूयम् आयूंषि नराẖ क्षपयतैणकाः ॥
जगद्गन्धर्वनगरागारगर्धेन नश्यथ ।
सुखरूपाणि दुẖखानि शासनायैव पश्यथ ॥
जगत्केशोण्डुकं भ्रान्त्यै मा महाम्बरमध्यगम् ।
अवलोकयताभ्रान्ते स्वरूपे परिणम्यताम् ॥
मानवा वातलोलोच्चपत्त्रप्रान्ताम्बुभङ्गुराः ।
मा नवासु नवास्व् अन्धगर्भशय्यासु शय्यताम् ॥
अविरामम् अनाद्यन्तं स्वभावे शान्तम् आस्यताम् ।
द्रष्टृदृश्यदशादोषाद् अस्वभावाद् विरम्यताम् ॥
अज्ञावबुद्धस् संसारस् साहं नास्ति मनाग् अपि ।
अविशिष्टं तु यत् सत्यं तस्य नाम न विद्यते ॥
त्रोटयित्वा तु तृष्णायश्शृङ्खलावलितं बलात् ।
संसारपञ्जरं तिष्ठ सर्वस्योर्ध्वे मृगेन्द्रवत् ॥
आत्मात्मीयग्रहभ्रान्तिशान्तिमात्रं विमुक्तता ।
यथातथास्थितस्यापि सा स्वसत्तैव योगिनः ॥
निर्वाणतावासनता परोपशमता ज्ञता ।
संसाराध्वनि खिन्नस्य शीता विश्रमभूमयः ॥
तज्ज्ञज्ञातो न मूर्खाणां मूर्खज्ञातो न तद्विदाम् ।
विद्यते जगदर्थो ऽसाव् अवाच्यो ऽन्यस् तयोर् मिथः ॥
विश्वता भ्रान्तिसंशान्तौ संस्थितैव न लभ्यते ।
महार्णवाम्बुवलिता पुत्रिकेव पयोमयी ॥
भ्रान्तिशान्तौ विमुक्तस्य विनिर्वाणस्य विश्वता ।
यथा स्थितैव गलिता विद्यते च यथास्थितम् ॥
निर्दग्धतृणभस्माली क्वापि याति यथानिलैः ।
सतां स्वभावविश्रामैẖ क्वापि याति तथा जगत् ॥
जगद् ब्रह्मपदार्थस्य सन्निवेशस् स तूत्तमः ।
ब्रह्मशब्दार्थरूपात्मा न जगच्छब्दकार्थभाक् ॥
नवजातस्य बालस्य पदार्था यादृशा इमे ।
विदुषस् तादृशा एव तिष्ठतẖ क्षीणवासनम् ॥
या निशा सर्वभूतानां तस्यां जागर्ति संयमी ।
यस्यां जाग्रति भूतानि सा रात्रिḫ पश्यतो मुनेः ॥
स्थितम् एव विरामाय जाग्रज् ज्ञस्य सुषुप्तवत् ।
चित्रावलोकिन इव जाग्रत्य् अस्य रसैषणाः ॥
जात्यन्धरूपानुभवसमं भुवनवेदनम् ।
भ्रान्तप्रायम् असद्रूपं ज्ञस्य भाति न भाति च ॥
विमूढबुद्धं त्रिजगद् विबुद्धविषयं न सत् ।
विबुद्धबुद्धं त्रिजगद् विमूढविषयं न सत् ॥
स्वप्ने स्वप्नतया ज्ञाते रूपालोकमनẖक्रियाः ।
न स्वदन्ते यथा तद्वज् जाग्रत्स्वप्ने स्फुरन्तु मा ॥
निर्विभागस् समाश्वस्तो निरोधं परम् आगतः ।
आशीतलान्तẖकरणो निर्वाणो ज्ञो ऽवतिष्ठते ॥
तज्ज्ञस्याक्लिष्टमुक्तस्य समं ध्यानं विना स्थितिः ।
निम्नं विनेव तोयस्य न सम्भवति काचन ॥
अर्थ एव मनस्कारो मन एवार्थरञ्जनम् ।
एक एवैष आभासस् सबाह्याभ्यन्तरात्मकः ॥
आसमुद्रं नदीवाहशतसङ्गमयात्मकम् ।
यथैकश्लेषपिण्डात्म नयत्य् अम्बु तरङ्गितम् ॥
सबाह्याभ्यन्तराकारम् अर्थानर्थमयात्मकम् ।
मन एव स्फुरत्य् अर्थनिर्भासं व्याततं तथा ॥
नास्त्य् अर्थमनसोर् द्वित्वं यथा जलतरङ्गयोः ।
एकाभावे द्वयोश् शान्तिḫ पवनस्पन्दयोर् इव ॥
नूनम् एकोपशान्त्यैव निस्सारे परमार्थतः ।
एकत्वाद् अर्थमनसी समम् एवाशु शाम्यतः ॥
अर्थस् सङ्कल्परूपात्मा नेहितव्यो विजानता ।
मनश् च सम्यग्ज्ञानेन शान्तिर् एवं भवेत् तयोः ॥
अनष्टे नश्यतश् चैव ज्ञस्यार्थमनसी स्वतः ।
मृण्मये द्विषति ज्ञानाद् द्विषद्भावभये यथा ॥
यथासंस्थं स्थिते एव ज्ञस्यार्थमनसी सदा ।
किम् अप्य् अपूर्वम् एवान्यत् सम्पन्ने ऽभावरूपिणी ॥
सञ्चितार्थजगज्जालो ऽप्य् अज्ञो ज्ञविषये ऽप्य् असन् ।
पार्श्वसुप्तनरस्वप्न इव क्षीवाग्रयक्षवत् ॥
ज्ञस्य साज्ञं जगन् नास्ति धीरस्येव पिशाचधीः ।
ज्ञम् अज्ञो भावयत्य् अज्ञं स्वभावं सर्वगं विदुः ॥
मनश्शब्दार्थरहितं विभागान्तविवर्जितम् ।
बोधवारि मनो विद्धि तरङ्गम् इव निर्मलम् ॥
क्व सम्भवत एवातẖ के वार्थमनसी किल ।
निरर्थकैव विद्भ्रान्तिस् स्वभावमयम् आस्यताम् ॥
शुद्धबोधस्वभावस्थैर् आकाशैर् इव शारदैः ।
जाग्रत्स्वप्नसुषुप्तान्तैर् मनस्त्वं नानुभूयते ॥
विधूयानन्तनानात्वम् असम्भवम् अनामये ।
ज्ञेयं रज इवाशेषं स्वभावे तिष्ठ चिद्घने ॥
ज्ञप्तिर् एवान्तरं बाह्यं चार्थत्वम् अधितिष्ठति ।
बीजं शाखाफलानीव क्वातो ऽर्थमनसी वद ॥
ज्ञेयासम्भवतो ज्ञप्तिर् अप्य् अनाख्यं पदं गता ।
शान्ताशेषविशेषात्मा तेन शेषो ऽसि सन् स्वभाः ॥
अर्थ एव मनस्कारस् स चाभावात्मको भ्रमः ।
मन एवार्थसंस्कारस् स चाभावात्मको भ्रमः ॥
सर्वात्मत्वाद् अजस्यैतद् अपकारणकं मनः ।
भ्रमानुभवतो ऽर्थश् च मिथ्यैवास्तीव भासते ॥
अकारणकम् एवार्थनिर्भासं भासते मनः ।
विद्युद्विलसिताकारम् अस्थिरं तरलायते ॥
त्वं मनस्कारमात्रात्मा संसृतौ विभ्रमायसे ।
स्वभावैकपरिज्ञानान् नासि नापि भ्रमायसे ॥
मनस्तैव हि संसार आत्मबोधेन शाम्यति ।
शुक्तिरुप्यभ्रमाकारो जनो मिथ्यैव ताम्यति ॥
अभावभावस् तु परं बोधरूपम् असंसृतिः ।
निर्वाणाद् इतरा सत्ता दुẖखायाहम् इति भ्रमः ॥
मृगतृष्णाम्बुरूपो ऽहम् असच् छून्यस्वरूपकः ।
इत्य् एवात्मपरिज्ञानाद् अहम् इत्य् आशु शाम्यति ॥
ज्ञात्वा ज्ञानपरो भूत्वा सबाह्याभ्यन्तरार्थताम् ।
गतं स्वम् अत्यजद् रूपं तरङ्गत्वं यथा पयः ॥
मूलशाखाग्रपर्यन्ता सत्ता विटपिनो यथा ।
निर्विकारामला ज्ञप्तिर् ज्ञेयान्तैकैव भासते ॥
यथा योजनलक्षाभम् एकम् एवामलं नभः ।
एकम् एव तथा ज्ञानं ज्ञेयान्तं भात्य् अखण्डितम् ॥
शून्यत्वाद् एकम् अमलं यथा सर्वगम् एव खम् ।
तथैकम् अमलं ज्ञत्वाज् ज्ञानं ज्ञेयदशास्व् अपि ॥
घृतेनात्मा घनीभूय पाषाणीक्रियते यथा ।
चिता चेत्यतयात्मैव स्वश् चित्तीक्रियते तथा ॥
देशकालं विनैवात्मा बोधाद् बोधेन चित्तताम् ।
अबुद्धो नीयते न्याय एवम् एवैष सुस्थितः ॥
अत्र यद्य् अपि बोधादेस् सम्भवो नास्ति कश्चन ।
तथापि कल्प्यते ऽत्रैवं बोधनाय परस्परम् ॥
महानुभावा विगताभिमाना विमूढभावोपशमे लगन्ति ।
निर्भ्रान्तयो ऽनन्ततयैव शान्ता नित्यं समाधानमया भवन्ति ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0