भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.199

6.199.1

चित्तवत् कचनं शान्ते यत् तत् तस्मान् न भिद्यते ।
अव्याकृतामलतया क्वातस् सर्गादिसम्भवः ॥

6.199.2

चित्तदीपे गते यान्ति भ्रान्तिवद् भान्ति खे स्थिते ।
रूपालोकमनस्कारास् संविदम्बुद्रवोर्मयः ॥

6.199.3

निरस्तकारणापेक्षं मरुतस् स्पन्दनं यथा ।
यथा विसरणं भासस् तथा जगद् इदं परे ॥

6.199.4

द्रवत्वम् इव कीलाले शून्यत्वम् इव चाम्बरे ।
स्पन्दनं मरुतीवेदं किम् अप्य् आत्ममयं परे ॥

6.199.5

महाचिति महाकाशे यद् इदं भासते जगत् ।
तच् चित्त्वम् एव कचति निर्मलत्वं मणाव् इव ॥

6.199.6

यथा द्रवत्वं पयसि यथा शून्यत्वम् अम्बरे ।
यथा प्रस्पन्दनं वायौ महाचिति तथा जगत् ॥

6.199.7

वेत्ति वायुर् यथा स्पन्दं तथा वेत्ति जगच् चितिः ।
न द्वैतैक्यादिभेदानां मनाग् अप्य् अत्र सम्भवः ॥

6.199.8

अविवेकविवेकाभ्यां भासुरं भङ्गुरं जगत् ।
बोधे सद् एवासद्रूपम् अभासुरम् अभङ्गुरम् ॥

6.199.9

ज्ञप्तिमात्राद् ऋते शुद्धाद् आदिमध्यान्तवर्जितात् ।
नान्यद् अस्तीति निर्णीतं महाचिन्मात्ररूपिणः ॥

6.199.10

तत् कस्यचिच् छिवं शान्तं कस्यचिद् ब्रह्म शाश्वतम् ।
कस्यचिच् छून्यतामात्रं कस्यचिज् ज्ञप्तिमात्रकम् ॥

6.199.11

तद् अनन्तात्म चिद्रूपं चेत्यताम् एव भावयत् ।
स्वसंस्थम् एव ज्ञेयत्वम् अवगच्छति चिन्तया ॥

6.199.12

नास्ति सत्तां विना वायोर् यथा स्पन्देषु कारणम् ।
तथा महाचितो ऽच्छायास् सर्गसंवित्तिवृत्तिषु ॥

6.199.13

नित्यं सत्त्वम् असत्त्वं वा हेतुर् अन्यानपेक्षणात् ।
इत्य् अत्रार्थे ऽभविष्यत् सद् द्वित्वैकत्वास्तितावशात् ॥

6.199.14

को ऽत्र कल्पयिता द्वित्वम् एकत्वं वा महाम्बरे ।
विष्वग् विश्वम् अपारैका परमाकाशकोशता ॥

6.199.15

यथा स्पन्दानिलद्वित्वशब्द एव न वास्तवः ।
विश्वविश्वेश्वरद्वित्वं तथैवासन्मयात्मकम् ॥

6.199.16

सद् एवासम्भवद्द्वित्वं महाचिन्मात्रकं तु यत् ।
विश्वाभासं तद् एवेदं न विश्वं सन् न विश्वता ॥

6.199.17

देशकालादिसत्त्वेन कदाचिद् धेम्नि सत्यता ।
कटकत्वस्य भिन्नस्य विश्वस्य न तथा परे ॥

6.199.18

द्वित्वैक्यासम्भवे चात्र कार्यकारणता कुतः ।
स्याच् चेत् तत् कल्पनामात्रम् एवैतन् नान्यवस्तुता ॥

6.199.19

शून्यता नभसीवात्र द्रवत्वम् इव वाम्भसि ।
खे खतेवाप्य् अभिन्नैव किलास्ति जगदादिता ॥

6.199.20

यद्रूपं ब्रह्म तद्रूपं जगत् क्वात्र द्वितैकते ।
यद्रूपं व्योम तद्रूपम् एव शून्यं किलाखिलम् ॥

6.199.21

एकात्मनि तते स्वच्छे चिन्मात्रे सर्वरूपिणि ।
शिलापुत्रकसेनायां पाषाणत्व इव स्थिते ॥

6.199.22

कार्यकारणवैचित्र्यं कथं सम्भवति क्व वा ।
कथम् अव्योमता व्योम्नि द्वितीयासम्भवाद् भवेत् ॥

6.199.23

प्रतिभात्मैव भारूपो भाति सर्गो महाचिति ।
पुत्रिकेवोपलोत्कीर्णा तन्मयत्वात् तदात्मकः ॥

6.199.24

साधोर् यथास्थितस्यैवं बुद्ध्वा विश्वं प्रलीयते ।
काष्ठमौनदशाभासं तत्सारम् अवशिष्यते ॥

6.199.25

यथा निमीलिताक्षस्य रूपालोकमनोभ्रमः ।
स्वप्ने जाग्रत्य् अनग्रस्थो ऽप्य् असन्न् एवास्ति भावनात् ॥

6.199.26

भावनोपशमं कृत्वा शिलीभूय यथास्थितम् ।
अशिलीभूतम् एवान्तस् स्वभावे समम् आस्यताम् ॥

6.199.27

स्वविवेकोपहारेण यथाप्राप्तार्थपूजनैः ।
बोधाय पूज्यतां बुद्ध्या स्वो भावḫ परमेश्वरः ॥

6.199.28

विवेकपूजितस् स्वात्मा सद्यस् स्थानवरप्रदः ।
रुद्रोपेन्द्रादिपूजात्र जरत्तृणलवायते ॥

6.199.29

विचारशमसत्सङ्गबलिपुष्पैकपूजितः ।
सद्यो मोक्षकरस् साधोस् स्वात्मैव परमेश्वरः ॥

6.199.30

सत्यालोकनमात्रैकपूजितो ऽनुत्तमार्थदः ।
यत्रास्त्य् आत्मेश्वरस् तत्र मूढẖ को ऽन्यं समाश्रयेत् ॥

6.199.31

सत्सङ्गशमसन्तोषविवेकैḫ पूजितात्मनः ।
शिरीषकुसुमायन्ते शस्त्राहिविषवह्नयः ॥

6.199.32

देवार्चनतपस्तीर्थदानान्य् अतिकृतान्य् अपि ।
भस्मायन्ते निरर्थत्वाद् अविवेकहतात्मनाम् ॥

6.199.33

एतान्य् अपि विवेकेन क्रियन्ते सफलानि चेत् ।
विवेक एव तत् कस्मात् स्फुटम् अन्तर् न साध्यते ॥

6.199.34

यथाभूतार्थविज्ञानाद् वासनोपरमे पदे ।
यत्नो विवेकशब्दाख्यो भवत्य् आत्मप्रसादतः ॥

6.199.35

तथा तथा विवेको ऽन्तर् वृद्धिं नेयश् शमामृतैः ।
यथा यथा पुनश् शोषम् उपयाति न विभ्रमैः ॥

6.199.36

देहसत्ताम् अनादृत्य यथाभूतार्थदर्शनात् ।
लज्जां भयं विषादेर्ष्ये सुखं दुẖखं त्यजेत् समम् ॥

6.199.37

जगदादि शरीरादि नास्त्य् एवादौ कुतो ऽद्य तत् ।
कार्यं चेत् कारणस्यैतत् तथापि ब्रह्ममात्रकम् ॥

6.199.38

प्रतिभामात्रम् एवाच्छं न तु ज्ञप्तिर् घटादिवत् ।
ज्ञानात्मिकैव प्रतिभा ज्ञप्तिर् एवाखिलं ततः ॥

6.199.39

ज्ञप्तिर् अप्य् आत्मतत्त्वश्रीḫ परिज्ञातापि शाम्यति ।
ज्ञेयाभावे त्व् अनिर्वाच्या शिष्यते शाश्वतं शिवम् ॥

6.199.40

अशरीराद्य् अविश्वात्म सर्वं शान्तम् इदं ततम् ।
ज्ञानज्ञेयज्ञप्तिमात्रं दृषन्मौनम् अवस्थितम् ॥

6.199.41

शान्तान्तẖकरणास् स्वच्छाश् शिलापुत्रककोशवत् ।
चलन्तश् चाचलन्तश् च ज्ञरूपा एव तिष्ठत ॥

6.199.42

अज्ञेयज्ञत्वसद्रूपास् सदसत्साररूपिणः ।
आकाशकोशविशदा भवताभवभूमयः ॥

6.199.43

यथास्थितं च तिष्ठन्तो गच्छन्तश् च यथागतम् ।
यथाप्राप्तैककर्माणस् सम्पद्यन्ते बुधाḫ परम् ॥

6.199.44

अथ वा सर्वसन्त्यागशान्तान्तẖकरणोज्ज्वलाः ।
एकान्तेष्व् एव तिष्ठन्ति चित्रकर्मार्पिता इव ॥

6.199.45

सङ्कल्पशान्तौ सङ्कल्पपुरवत् सर्वदाखिलम् ।
स्वप्नवच् च प्रबुद्धस्य सद् एवास्तङ्गतं जगत् ॥

6.199.46

सनेत्ररूपानुभवं जातितो ऽन्ध इवागमैः ।
निर्वाणं वर्णयन्न् अज्ञस् ताम्यत्य् अन्तर् न शाम्यति ॥

6.199.47

कल्पनांशोपदेशेन लोको ऽविद्यामयात्मना ।
येन केनचिद् अज्ञत्वात् कृतार्थो ऽस्मीति मन्यते ॥

6.199.48

अकृतार्थẖ कृतार्थत्वं जानन् मौर्ख्यविमोहितः ।
विज्ञास्यत्य् अकृतार्थत्वं क्षणान्तरकदर्थनैः ॥

6.199.49

उपायं कल्पनात्मानम् अनुपायं विदुर् बुधाः ।
दुẖखदत्वान् निमेषेण भावाभावैषणभ्रमैः ॥

6.199.50

जगद्भ्रमं परिज्ञाय यद् अवासनम् आसितम् ।
विरसाशेषविषयं तद् धि निर्वाणम् उच्यते ॥

6.199.51

आख्यायिकार्थप्रतिभानरूपम् अचेत्यचिद्वारिभरद्रवात्मा ।
अवेद्यविद्रूपम् अशेषम् अच्छं पश्यन् विनिर्वामि जगत्स्वरूपम् ॥

6.199.52

जात्यन्धरूपानुभवानुरूपं यद् आगमैर् बुद्धम् अबोधरूपम् ।
अधस्पदीकृत्य तद् अन्तर् अस्मिन् बोधे निपत्यानुभवे भवाभूः ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc