मोक्षोपाय · अध्याय 6.1
उपशान्तिप्रकरणाद् अनन्तरम् इदं शृणु ।
त्वं निर्वाणप्रकरणं ज्ञातं निर्वाणकारि यत् ॥
कथयत्य् एवम् उद्दामवचनं मुनिनायके ।
श्रवणैकरसे मौनं स्थिते राजकुमारके ॥
मुनिवागर्थनिक्षिप्तमनस्य् अस्तेतरक्रिये ।
राजलोके गतस्पन्दं चित्रार्पित इव स्थिते ॥
वसिष्ठवचसाम् अर्थं विचारयति सादरम् ।
लसदङ्गुलिभङ्गे च मुनिसार्थे स्फुरद्भ्रुवि ॥
विस्मयालोकनोल्लासप्रोत्फुल्लनयनालिनि ।
पुरन्ध्रिवर्गे प्रग्रीवतरुमञ्जरितां गते ॥
खे वासरचतुर्भागदेशे दिनकरे स्थिते ।
श्रुतज्ञानतया सौम्ये किञ्चिच् छमम् उपेयुषि ॥
श्रवणायेव संशान्तवितानस्पन्दम् आस्थिते ।
मौनं मरुति मन्दारमधुरामोददायिनि ॥
पुष्पदामसु सुप्तासु मदाद् भ्रमरपङ्क्तिषु ।
ज्ञातज्ञेयतया नूनं सम्यग्ध्यानवतीष्व् इव ॥
जालमुक्ताकलापान्तस् तथा मकुरभूमिषु ।
कचत्य् अपगतस्पन्दं तापे श्रोतुम् इवास्थिते ॥
गृहान्तरं प्रविष्टेषु गवाक्षैर् दूरम् अंशुषु ।
विश्रमार्थम् इवादीर्घनभःपान्थेषु शीतलम् ॥
मुक्ताजालप्रभाजालभस्मनोद्धूलितात्मनि ।
शंसतीव शमं शाम्यद्दिनदेहे दिनातपे ॥
करलीलासरोजेषु शेखरेषु च भूभृताम् ।
शुष्यत्सु रससंशोषाद् अवृत्तिषु मनस्स्व् इव ॥
बालकेष्व् अज्ञलोकेषु लीलापक्षिषु सारवम् ।
भोजनार्थं वधूलोकम् उपरुन्धत्स्व् अनारतम् ॥
भ्रमद्भ्रमरपक्षोत्थवाताधूते रजस्य् अलम् ।
कौसुमे परिविश्रान्ते चामरेष्व् अक्षिपक्ष्मसु ॥
रश्मिष्व् अग्रग्रहोन्मुक्तच्छायाजालभयाद् इव ।
गवाक्षादिष्व् इवोड्डीय प्रविष्टेषु गृहान्तरम् ॥
आसीद् दिनचतुर्भागसत्तावेदनतत्परः ।
भेरीपणवशङ्खानां दिङ्मुखापूरको ध्वनिः ॥
तेन तत् तारम् अप्य् आशु वचो ऽन्तर्धानम् आययौ ।
मौनं जलदनादेन मायूर इव निस्स्वनः ॥
चुक्षुभे क्षुब्धपक्षाली पञ्जरस्था खगावली ।
भूकम्पेन लसत्तालीपल्लवेव वनावली ॥
आययुर् भयवित्रस्ता बाला धात्रीकुचान्तरम् ।
सारवं प्रावृशीवाब्दाः प्रोन्नतं शृङ्गकोटरम् ॥
उत्तस्थुर् अवतंसेभ्यो भूभृतां भ्रमरव्रजाः ।
दृषत्करालवाहाभ्यस् सरिद्भ्यो ऽम्बुकणा इव ॥
एवं प्रक्षुभिते तस्मिन् गृहे दाशरथे तदा ।
प्रोक्तवासरवृद्धत्वे शान्ते शङ्खस्वने शनैः ॥
संहरन् प्रस्तुतं वस्तु वचो मधुरवृत्तिमत् ।
उवाच मुनिशार्दूलस् सभामध्ये रघूद्वहम् ॥
राघवानघ वाग्जालं मयैतद् यत् प्रसारितम् ।
तेन चित्तखगं बद्ध्वा क्रोडीकृत्यात्मतां नय ॥
कच्चिद् गृहीतो भवता मद्गिराम् अर्थ ईदृशः ।
त्यक्त्वा दुर्बोधम् अक्षीणो हंसेनेवाम्भसः पयः ॥
विचार्यैतद् अशेषेण स्वधियैव पुनः पुनः ।
अनेनैव पथा साधो गन्तव्यं भवताधुना ॥
अनयैव धिया राम विहरन् नैव बध्यसे ।
अन्यथाधः पतस्य् आशु विन्ध्यखाते यथा गजः ॥
सुगृहीतं धिया राम मद्वचो न करोषि चेत् ।
तत् पतस्य् अवटे त्यक्तदीपः पान्थो यथा निशि ॥
असङ्गेन यथाप्राप्तो व्यवहारस् स्वसिद्धये ।
इत्य् एवं शास्त्रसिद्धान्तम् आदायोदयवान् भव ॥
हे सभ्या हे महाराज राम लक्ष्मण भूमिपाः ।
सर्व एव भवन्तो ऽद्य तावद् व्यापारम् आह्निकम् ॥
कुर्वन्त्व् अयं हि दिवसः प्रायः परिणताकृतिः ।
शेषं विचारयिष्यामो विचार्यं प्रातर् आगताः ॥
इत्य् उक्ते मुनिना तेन सा सर्वैव सभा तदा ।
प्रोत्तस्थौ पद्मवदना सविकासेव पद्मिनी ॥
राजानस् स्तुतराजानः कृतराघववन्दनाः ।
परिष्टुतवसिष्ठास् ते जग्मुर् आत्मनिवेशनम् ॥
विश्वामित्रेण सहितो वसिष्ठो गन्तुम् आश्रमम् ।
उत्तस्थाव् आसनाच् छ्रीमान् नमस्कृतनभश्चरः ॥
दशरथप्रभृतयो राजानो मुनयस् तथा ।
यथानुरूपं वक्तारम् अनुगम्य चिरं मुनिम् ॥
आपृच्छ्य केचिद् गगनं ययुः केचिद् वनान्तरम् ।
केचिद् राजगृहं सन्तो भृङ्गाः पद्मोत्थिता इव ॥
वसिष्ठपादयोस् त्यक्त्वा पुष्पाञ्जलिम् अनाबिलम् ।
पौरैर् अनुगतो राजा प्रविवेश गृहान्तरम् ॥
रामलक्ष्मणशत्रुघ्नाः प्राप्तस्य स्वाश्रमं गुरोः ।
अभ्यर्च्य चरणौ भक्ता आजग्मुर् नृपमन्दिरम् ॥
सदनानि समासाद्य श्रोतारस् सर्व एव ते ।
सस्नुर् आनर्चुर् अप्य् आशु देवान् विप्रान् पितॄंस् तथा ॥
यथाक्रमं च विप्राद्यैर् भृत्यान्तैश् च परिच्छदैः ।
समं बुभुजिरे भोज्यं वर्णधर्मक्रमोचितम् ॥
अस्तङ्गते दिनकरे समं दिवसकर्मभिः ।
अभ्यागते रात्रिकरे समं रजनिकर्मभिः ॥
स्थितास् तल्पेषु कौशेयशयनेष्व् आसनेषु च ।
भूचरा मुनिराजानो राजपुत्रा महर्षयः ॥
संसारोत्तरणोपायं वसिष्ठवचनेरितम् ।
यथावद् एकाग्रधियश् चिन्तयाम् आसुर् आदृताः ॥
ततः प्रहरमात्रेण निद्राम् आमुद्रिताननाः ।
तत्स्वप्नसुन्दरीम् ईयुः पद्मा इव दिनार्थिनः ॥
रामलक्ष्मणशत्रुघ्नाः प्रहरत्रयम् एव तत् ।
वासिष्ठम् उपदेशं ते चिन्तयाम् आसुर् अक्षतम् ॥
प्रहरस्यार्धमात्रं तु तत आमुद्रितेक्षणाः ।
तत्स्वप्नाम् आययुर् निद्रां क्षणाद् विद्रावितश्रमाम् ॥
इति शुभमनसां विवेकभाजाम् अधिगतसारतयोदिताशयानाम् ।
अभजत विरतिं तदा त्रियामा मलिननिशाकरवक्त्रतां जगाम ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0