मोक्षोपाय · अध्याय 6.198
अस्वभावस्वभावो ऽयं सर्गो ऽहन्तादिवेदनः ।
स्वभावैकस्वभावेन निर्वाणीक्रियतां स्वयम् ॥
यत्रादित्यो भवेत् तत्र यथालोकस् तथा भवेत् ।
परं विषयवैरस्यं यत्र तत्र प्रबुद्धधीः ॥
अकर्तृकर्मकरणम् अदृश्यद्रष्टृदर्शनम् ।
जगद् अग्राह्यम् अस्फारम् अभित्तौ चित्रम् उत्थितम् ॥
न चोत्थितं किञ्चन वा शान्ते शान्तं तथा स्थितम् ।
अनामयं परं ब्रह्म सत्यम् अव्ययम् एव तत् ॥
चिच्चमत्कारमात्रात्मकल्पनारङ्गरञ्जनाः ।
सङ्ख्यातुं केन शक्यन्ते खे जगच्चित्रपुत्रिकाः ॥
रसभावविकाराढ्यं नृत्यन्त्यो ऽभिनयैर् नवैः ।
परमाणुं प्रति प्रायẖ खे स्फुरन्त्यो ऽम्बरात्मिकाः ॥
सर्वर्तुशेखरधरा दिग्बाहुलतिकाकुलाः ।
पातालपादलतिका ब्रह्मलोकशिरोधराः ॥
चन्द्रार्कलोलनयनास् तारोत्करतनूरुहाः ।
सप्तलोकाङ्गलतिकाḫ परितो ऽच्छाम्बराम्बराः ॥
द्वीपाम्बुराशिवलया लोकालोकाद्रिमेखलाः ।
भूतभावचलज्जीवाḫ प्रवहत्प्राणमारुताः ॥
वनोपवनविन्यासहारकेयूरभूषिताः ।
पुराणवेदवचनाẖ क्रियाफलविलोचनाः ॥
त्रिजगत्पुत्रिकानृत्तं यद् इदं दृश्यते पुरः ।
ब्रह्मवारिद्रवत्वं तत् तद् ब्रह्मानिलचोपनम् ॥
अस्वभावस्थतैवास्य कारणं कारणात्मकम् ।
असुषुप्तस्थता स्वापे स्वप्नस्येवासती च सा ॥
असुषुप्तस् सुषुप्तस्थस् स्वभावं भावयन् भव ।
जाग्रत्य् अपि गतव्यग्रं मासत्स्वप्नम् इमं श्रय ॥
यज् जाग्रति सुषुप्तत्वं बोधाद् अरसम् आसनम् ।
तं स्वभावं विदुस् तज्ज्ञा मुक्तिस् तत्परिणामिता ॥
अकर्तृकर्मकरणम् अदृश्यद्रष्टृदर्शनम् ।
अरूपालोकमननं स्थितं ब्रह्म जगत्तया ॥
कान्ते कान्तं प्रकचति पूर्णे पूर्णं व्यवस्थितम् ।
द्वित्वैक्यरहिते भाति द्वित्वैक्यपरिवर्जितम् ॥
सति सत्यं स्थितं शान्तं सर्गात्मात्मात्मनि स्वयम् ।
आकाशकोशसदृशं शिलाजठरसन्निभम् ॥
सुरत्नजठराकारं घनम् अप्य् अम्बरोपमम् ।
प्रतिबिम्बम् इव क्षुब्धम् अप्य् अक्षुब्धम् असच् च सत् ॥
भविष्यन्नवनिर्माणं चेतसीव स्थितं पुरम् ।
ब्रह्मबृंहितभारूपम् अभेदीकृतमानसम् ॥
यथा सङ्कल्पनगरं सङ्कल्पान् नैव भिद्यते ।
तथायं जगदाभासḫ परमार्थान् न भिद्यते ॥
हेमपीठम् इवानेकभविष्यत्सन्निवेशवत् ।
लक्ष्यमाणम् अपि स्थानं शान्तम् अव्ययम् आस्थितम् ॥
अजस्रनाशोत्पादाढ्यम् एकरूपम् अनामयम् ।
अनाशोत्पादम् अजरम् अनेकम् इव कान्तिमत् ॥
ब्रह्मैव शान्तघनभावगतं विभाति सर्गोदयेन विगतास्तमयोदयेन ।
व्योमैव शून्यविभवेन गलत्स्वभावलाभं प्रति प्रसभम् एव न तु प्रबुद्धे ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0