मोक्षोपाय · अध्याय 6.196
सञ्जातकृत्रिमक्षीणसंसृतिप्रत्ययḫ पुमान् ।
असङ्कल्पो न सङ्कल्पं वेत्ति तेनासद् एव सः ॥
श्वासान् म्लानिर् इवादर्शे कुतो ऽप्य् अहम् इति स्थिता ।
विद् धि साकारणा दृष्टा नश्यत्य् आशु न लभ्यते ॥
यस्य क्षीणावरणता शान्तसन्देहतोदिता ।
परमामृतपूर्णात्मा सत्तयैव स राजते ॥
सर्वसन्देहदुẖखान्तमिहिकामातरिश्वना ।
भाति भास्वद्धिया देशस् तेन पूर्णेन्दुनेव खम् ॥
विसंसृतिर् असन्देहो लब्धज्योतिर् निरावृतिः ।
शरदाकाशविशदो ज्ञेनैव ज्ञायते बुधः ॥
निस्सङ्कल्पो निराधारश् शान्तस् स्पर्शात् पवित्रताम् ।
अन्तश्शीतल आधत्ते ब्रह्मलोकाद् इवानिलः ॥
असद्रूपोपलम्भानाम् इयं वस्तुस्वभावता ।
यत् सर्गवेदनं स्वप्नवन्ध्यापुत्रोपलम्भवत् ॥
अविद्यमानम् एवेदं जगद् यद् अनुभूयते ।
असद्रूपोपलम्भस्य सैषा वस्तुस्वभावता ॥
असत्येष्व् एव संसारेष्व् आस्ताम् अर्थḫ कुतो भवेत् ।
स्वर्गापवर्गयोश् शब्दाव् एव वन्ध्यासुतोपमौ ॥
जगद् ब्रह्मतया सत्यम् अनिर्मितम् अभावितम् ।
अनिष्ठितं चान्यथा तु नाहं नावगतं च तत् ॥
आत्मस्वभावविश्रान्तेर् इयं वस्तुस्वभावता ।
यद् अहन्तादिसर्गादिदृश्याद्यनुपलम्भता ॥
क्षणाद् योजनलक्षान्तं प्राप्ते देशान्तरं त्व् इतः ।
चेतने तस्य यद् रूपं मार्गमध्ये निरञ्जनम् ॥
अस्पन्दवातसदृशं खकोशाभाच्छचिन्मयम् ।
अचेत्यं शान्तम् उदितं लताविकसनोपमम् ॥
सर्वस्य वस्तुजातस्य तत् स्वभावं विदुर् बुधाः ।
सर्वोपलम्भो गलति तत्रस्थस्य विवेकिनः ॥
सुषुप्ते स्वप्नधीर् नास्ति स्वप्ने नास्ति सुषुप्तधीः ।
सर्गनिर्वाणयोर् भ्रान्ती सुषुप्तस्वप्नयोर् इव ॥
भ्रान्तिर् वस्तुस्वभावो ऽसौ न स्वप्नो न सुषुप्तता ।
न सर्गो न च निर्वाणं सत्यं शान्तम् अशेषतः ॥
भ्रान्तिस् त्व् असन्मात्रमयी प्रेक्षिता चेन् न लभ्यते ।
शुक्तिरुप्यम् इवासत्यं किल सम्प्राप्यते कथम् ॥
यन् न लब्धं च तन् नास्ति तेन भ्रान्तेर् न सम्भवः ।
स्वभावाद् उपलम्भो ऽन्यो नास्ति कश्चन कस्यचित् ॥
स्वभाव एव सर्वस्मै स्वदते किल सर्वदा ।
अनानैव हि नानेव किं वादैस् स विभाव्यताम् ॥
अस्वभावे महद् दुẖखं स्वभावे केवलं शमः ।
इति बुद्ध्या विचार्यान्तर् यद् इष्टं तद् विधीयताम् ॥
सूक्ष्मे बीजे ऽस्त्य् अगस् स्थूलो दृष्टम् इत्य् उपपद्यते ।
शिवे ऽमूर्ते जगन् मूर्तम् अस्तीत्य् उत्तमसङ्कथा ॥
रूपालोकमनस्कारबुद्ध्यहन्तादयḫ परे ।
स्वरूपभूतास् सलिले द्रवत्वम् इव खात्मकाः ॥
मूर्तो यथा स्वसदृशैẖ करोत्य् अवयवैẖ क्रियाः ।
आत्मभूतैस् तथा भूतैश् चिदाकाशम् अकर्तृ सत् ॥
आत्मस्थाद् अहम् इत्यादिर् अस्मदादेर् असंसृतेः ।
शब्दो ऽर्थभावमुक्तो ऽयं पटहाद् इव जायते ॥
यद् भ्रान्तं प्रेक्षया नास्ति तन् नास्त्य् एव निरन्तरम् ।
जगद्रूपम् अरूपात्म ब्रह्म ब्रह्मणि संस्थितम् ॥
येषाम् अस्ति जगत्स्वप्नस् ते स्वप्नपुरुषा मिथः ।
न सन्त्य् आत्मनि मिथ्याङ्गा नास्मास्व् अम्बरपुष्पवत् ॥
मयि ब्रह्मैकरूपं ते शान्तम् आकाशकोशवत् ।
वायौ स्पन्दैर् इवाभिन्नैर् व्यवहारश् च तैर् मयि ॥
अहं तु सन्मयस् तेषां स्वप्नस् स्वप्नवताम् इव ।
ते तु नूनम् असन्तो मे सुषुप्ते स्वप्नका इव ॥
तैस् तु यो व्यवहारो मे तद् ब्रह्म ब्रह्मणि स्थितम् ।
ते यत् पश्यन्ति पश्यन्तु तत् तैर् अलम् अलं मम ॥
अहम् आत्मनि नैवास्मि ब्रह्मसत्तेयम् आतता ।
त्वदर्थं समुदेतीव तथारूपैव वाग् इयम् ॥
अनिरुद्धस्य रुद्धस्य शुद्धसंविन्मयात्मनः ।
न भोगेच्छा न मोक्षेच्छा हृदि स्फुरति तद्विदः ॥
स्वभावमात्रायत्ते ऽस्मिन् बन्धमोक्षक्रमे नृणाम् ।
कदर्थनेत्य् अहो मोहाद् गोष्पदे ऽप्य् उदधिभ्रमः ॥
अभावसाधने मोक्षे भावोपशमरूपिणि ।
न धनान्य् उपकुर्वन्ति न मित्राणि न च क्रियाः ॥
तैलबिन्दुर् भवत्य् उच्चैश् चक्रम् अप्पतितो यथा ।
तथाशु चेत्यसङ्कल्पे स्थिता भवति चिज् जगत् ॥
जाग्रति स्वप्नवृत्तान्तस्थितिर् यादृग्रसा स्मृतौ ।
तादृग्रसाहन्त्वजगज्जालसंस्था विवेकिनः ॥
तेनैवाभ्यासयोगेन याति तत् तनुतां तथा ।
यथा नाहं न संसारश् शान्तम् एवावशिष्यते ॥
यदा यदा स्वभावार्कस् स्थितिम् एति तदा तदा ।
भोगान्धकारो गलति न सन्न् अप्य् अनुभूयते ॥
सो ऽयम् अहन्तारहितस् स्फुरति सृतौ भवति भासते च तथा ।
बुद्ध्यादिकरणनिकरो यस्माद् दीपाद् इवालोकः ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0