मोक्षोपाय · अध्याय 6.197
रूपालोकमनस्कारबुद्ध्यादीन्द्रियवेदनम् ।
स्वरूपं विदुर् अम्लानम् अस्वभावस्य वस्तुनः ॥
अस्वभावतनुत्वेन स्वभावस्थितिशान्तता ।
यदोदेति तदा सर्गो भ्रमाभḫ प्रतिभासते ॥
यदा स्वभावविश्रान्तिस् स्थितिम् एति शमात्मिका ।
जगद् दृश्यं तदा स्वप्नस् सुषुप्त इव शाम्यति ॥
भोगा भवमहारोगा बन्धवो दृढबन्धनम् ।
अनर्थायार्थसम्पत्तिर् आत्मनात्मनि शाम्यताम् ॥
अस्वभावात्मता सर्गस् स्वभावैकात्मता शिवः ।
भूयतां परमव्योम्ना शाम्यतां मेह ताम्यताम् ॥
नात्मानम् अवगच्छामि न दृश्यं न जगद्भ्रमम् ।
ब्रह्म शान्तं प्रविष्टो ऽस्मि ब्रह्मैवास्मि निरामयः ॥
त्वम् एव पश्यसि त्वत्त्वं मत्त्वशब्दार्थजृम्भितम् ।
पश्यामि शान्तम् एवाहं केवलं परमं नभः ॥
ब्रह्मण्य् एव पराकाशे रूपालोकमनोमयाः ।
विभ्रमास् तव सञ्जाताẖ कल्पस्पन्दा इवानिले ॥
ब्रह्मात्मा वेत्ति नो सर्गं सर्गात्मा ब्रह्म वेत्ति नो ।
सुषुप्तो वेत्ति न स्वप्नं स्वप्नस्थो न सुषुप्तकम् ॥
प्रबुद्धो ब्रह्मजगतोर् जाग्रत्स्वप्नदृशोर् इव ।
रूपं जानाति वारूपं जीवन्मुक्तḫ प्रशान्तधीः ॥
यथाभूतम् इदं सर्वं परिजानाति बोधवान् ।
संशाम्यति च शुद्धात्मा शरदीव पयोधरः ॥
स्मृतिस्थẖ कल्पनास्थो वा यथाख्यातश् च सङ्गरः ।
सदसद् भ्रान्ततामात्रं तथाहन्त्वजगद्भ्रमः ॥
आत्मन्य् अपि नास्ति हि या द्रष्टा यस्या न विद्यते कश्चित् ।
न च शून्यं नाशून्यं भ्रान्तिर् इयं भासते सेति ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0