मोक्षोपाय · अध्याय 6.195
चित् पश्यति जगन् मिथ्या स्ववेदनविबोधिता ।
व्योम्नि मायाञ्जनासिक्ता दृग् इवाचलनर्तनम् ॥
ब्रह्मसर्गश् चित्तसर्गो द्वाव् एतौ सदृशौ मतौ ।
परमार्थस्वरूपत्वाद् अक्षुब्धत्वात् सदैव च ॥
ज्ञानरूपतयाबाह्यं बाह्यं चानुभवात् तथा ।
सत्यरूपम् अतस् सत्यां विद्धि बाह्यार्थरूपताम् ॥
बाह्यार्थवादविज्ञानवादयोर् ऐक्यम् एव नः ।
वेदनैकात्मरूपत्वात् सर्वदा सदसत्स्थितेः ॥
अक्षुब्धा खानिलालोकजलभूशान्तिशालिनी ।
तता शून्या महारम्भा ब्रह्मसत्तैव सर्वतः ॥
तस्मिन् सर्वं ततस् सर्वं तत् सर्वं सर्वतश् च तत् ।
तच् च सर्वमयं नित्यं तस्मै सर्वात्मने नमः ॥
चिन्मयत्वाद् यदा चेत्यम् एति द्रष्टृचितैकताम् ।
तदा दृश्याङ्गयैवैतच् चेत्यते नान्यया चिता ॥
यदा चिन्मात्रम् एवेयं द्रष्टृदर्शनदृश्यदृक् ।
तदानुभवनं तत्र सर्वस्य फलितं स्थितम् ॥
द्रष्टृदृश्ये न यद्य् एकम् अभविष्यच् चिदात्मके ।
तद् दृश्यास्वादम् अज्ञास्यन् न द्रष्टेक्षोर् इवोपलः ॥
चिन्मयत्वाच् चितौ चेत्यं जलम् अप्स्व् इव मज्जति ।
तेनानुभूतिर् भवति नान्यथा काष्ठयोर् इव ॥
सजातीयैकताभावाद् यथा काष्ठं न चेतति ।
दारु तद्वद् अपि द्रष्टा दृश्यं नाज्ञास्यद् आजडम् ॥
यादृक्सत्तानि काष्ठानि तादृग्रूपं स्वचेतनम् ।
जानन्ति नेतरत् तस्माद् दृश्यचिद्दृश्यचेतनम् ॥
महाचिदात्मतैवास्ति जलानिलधराश्मनाम् ।
नैतेषु स्पन्दबुद्ध्यादि प्राणजीवाद्यभावतः ॥
प्राणबुद्ध्यादयस् सत्तां भावनावशतो गताः ।
भावना चिच्चमत्कारस् स यथेच्छम् उदेति च ॥
जगत्तया शान्ततया ब्रह्मसत्तावतिष्ठते ।
पुंस्तयागतयेवात्मा रेतोवटकणीकयोः ॥
सर्वाङ्गाणुमयं वीर्यं यो यस्माद् अङ्गतो ऽणुकः ।
स स तत् तद् भवत्य् अङ्गं वीर्यं च स्वात्मनि स्थितम् ॥
ब्रह्म सर्वपराण्वात्म यो यस्माद् अर्थतो ऽणुकः ।
स स तत् तद् भवेद् वस्तु ब्रह्म ब्रह्मैव तिष्ठति ॥
द्रव्यम् एव यथा द्रव्यं तिर्यग् ऊर्ध्वम् अधस् तथा ।
सर्वम् एव तथा ब्रह्म येन तेन यथा तथा ॥
हेमत्वम् एव नान्यत्वं हेम्नो रूपशते यथा ।
शान्तत्वम् एव शान्तस्य सर्गाहन्त्वगणे तथा ॥
पार्श्वस्थस्वप्नमेघोर्जा यथा तव न काश्चन ।
सर्गप्रलयसंरम्भास् तथा खात्मान एव मे ॥
पङ्कताकल्पिता व्योम्नो या पुत्रकपताकिनी ।
सा यथा शान्ततामात्रं खम् एवेदं तथा जगत् ॥
सङ्कल्पभ्रम एवान्तḫ पुष्टीभूय जगत् स्थितम् ।
जलावनितलक्लिन्नबीजं कल्प इव द्रुमः ॥
अनहन्तात्मनो ज्ञस्य सत एव त्व् इवासतः ।
जरत्तृणलवायन्ते ननु रामाणिमादयः ॥
त्रैलोक्ये तन् न पश्यामि सदेवासुरमानुषे ।
एकरोमांशविश्वस्य यल् लोभाय महात्मनः ॥
यथातथास्थितस्यापि यत्र तत्र गतस्य च ।
द्वैतसङ्कल्पसन्देहा न सन्त्य् अधिगतात्मनः ॥
विश्वम् एव नभो यस्य शून्यं सर्वं महात्मनः ।
कुतẖ कस्य कथं तस्य भवत्व् इच्छा निरात्मनः ॥
शान्ताशेषविशेषस्य निरेषणविशेषिणः ।
सत्ताम् असत्तासदृशीं क आकलयितुं क्षमः ॥
मारैर् न किञ्चिन् म्रियते जीवैẖ किञ्चिन् न जीवति ।
शुद्धसंविन्मयस्यास्य समलोकस्य खस्य च ॥
मिथ्या लोकस्य कचतो भ्रान्ती मरणजन्मनी ।
असत्य् अपि भ्रान्तिभाजि मृगतृष्णानदीतटे ॥
सम्यक्परीक्षितं यावन् न भ्रान्तिर् न परीक्षकः ।
न नाम जन्ममरणे केवलं शान्तम् अव्ययम् ॥
दृश्याद् यो विरतिं यात आत्मारामश् शमं गतः ।
स सन्न् एवासदाभासḫ परितीर्णभवार्णवः ॥
दीपनिर्वाणनिर्वाणम् अस्तङ्गतमनोमतिम् ।
आत्मन्य् एव शमं यातं सन्तम् एवामलं विदुः ॥
आबुद्ध्यादि जगद् दृश्यं यस्मै न स्वदते स्वतः ।
आकाशस्येव शान्तस्य तम् आहुर् मुक्तम् उत्तमाः ॥
अहम् अस्त्य् अविचारेण विचारेणाहम् अस्ति नो ।
अभावाद् अहमर्थस्य क्व जगत् क्व च संसृतिः ॥
संवित्संवेदनाद् एव बुद्ध्याद्याकारवत् स्थितम् ।
रूपालोकमनोरूपं जगद् वेत्ति विदम्बरम् ॥
सर्वार्थशान्तमनसस् सतस् सर्वात्मनस् तव ।
सर्वथा सर्वदा सार्वं सर्वम् आचरणं शिवम् ॥
यत् करोषि यद् अश्नासि यज् जुहोषि ददासि यत् ।
यच् च पश्यसि हंस्य् एषि तत् सर्वं शिवम् अव्ययम् ॥
यद् अहम् यत् त्वम् आशा यद् यत् क्रियाकालखादयः ।
यल् लोकालोकगिरयस् तच् चिद्व्योम शिवं ततम् ॥
यद् रूपलोकमननं यत् कालत्रितयं जगत् ।
यज् जरामरणार्त्यादि तन् महाचिन्नभश् शिवम् ॥
निर्विवित्सो निराभासो निरिच्छो निर्मना मुनिः ।
भूत्वा निरात्मा निर्वाणस् तिष्ठ सन्तिष्ठसे यथा ॥
गतेच्छामननं शान्तम् अनन्तस्स्थम् अभावनम् ।
व्यवहारो ऽस्तु ते मा वा स्पन्दास्पन्दैर् यथानिलः ॥
निर्वासना निष्कलना शान्ता पुरुषतास्तु ते ।
शास्त्रेण यन्त्रवाहेन वाह्या दारुमयी यथा ॥
भूतालोको ऽस्तु मान्तस् ते स चास्नेहस्य बाह्यगः ।
अनिर्देश्यपरालोकश् चित्रदीपवद् आस्यताम् ॥
निर्वासनस्य विरसस्य निरेषणस्य शास्त्राद् ऋते क इव वित्त्वविनोदहेतुः ।
शास्त्रार्थसञ्चलनम् अप्य् अलम् अस्य तस्य संवेदनेष्व् अनभिसन्धिम् अतẖ खरूपम् ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0