भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 6.194

6.194.1

इच्छाविषविकारस्य प्रयोगं योगनामकम् ।
शान्तये शृणु भूयो ऽपि पूर्वम् उक्तम् अपि स्फुटम् ॥

6.194.2

आत्मनो व्यतिरिक्तं चेद् विद्यते तद् इहेच्छया ।
इष्यताम् असति त्व् एवं स्वात्मान्यत्वे किम् इष्यते ॥

6.194.3

निर्भागावयवा सूक्ष्मा व्योम्नश् शून्यतरैव चित् ।
सैवाहं जगद् आशाश् च सती किं तत् तयेष्यते ॥

6.194.4

सा व्योमरूपा व्योम्न्य् एव वेत्तीवावेद्यवेदना ।
व्योमात्म जगदाभासम् अत्रेच्छाविषयो ऽस्ति कः ॥

6.194.5

ग्राह्यग्राहकसम्बन्धẖ कुतश् चेद् इति तन् न नः ।
विद्यते ऽसौ प्रसक्तानां येषाम् अस्ति न वेद्मि तान् ॥

6.194.6

ग्राह्यग्राहकसम्बन्धस् स्वनिष्ठो ऽपि न लभ्यते ।
असतस् तु कथं लाभẖ केन लब्धो ऽसितश् शशी ॥

6.194.7

एषैव ग्राहकादीनां सत्ता यन् नाम निष्ठता ।
स्वभावप्रेक्षयासत्या न जाने क्व प्रयान्ति ते ॥

6.194.8

एष एव स्वभावो यद् द्रष्टृदृश्यदृशो ऽखिलाः ।
ज्ञात्वासत्या विनिर्वाणम् अहन्तात्मनि गच्छति ॥

6.194.9

निर्वाणे नास्ति दृश्यादि दृश्यादौ नास्ति निर्वृतिः ।
मिथो ऽनयोर् अनुभवो न च्छायातपयोर् इव ॥

6.194.10

उभे एते मिथो ऽसत्यम् असत्यैवात्र निर्वृतिः ।
यतो निर्वाणम् अजरम् अदुẖखम् अनुभूयते ॥

6.194.11

भ्रमभूतं तु दृश्यादि नित्यानन्तसुखप्रदम् ।
असच् च तद् भाव्यतां मा निर्वाणे स्थीयताम् अजे ॥

6.194.12

शुक्तिकारुप्यसदृशं प्रेक्षितं यन् न लभ्यते ।
अर्थकार्य् अपि तन् नास्ति किम् अत्रापह्नवेन वः ॥

6.194.13

तत्सद्भावान् महद् दुẖखम् असद्भावान् महत् सुखम् ।
अभावस् सोपपत्तिस् तु दृढतां याति भावनात् ॥

6.194.14

तत् किम् आत्मनि बन्धाय विदधध्वं नराधमाः ।
स्पष्ट एवोपचयदे वस्तुन्य् अस्तमितापदि ॥

6.194.15

कार्यकारणताद्य् अस्मिन् संविन्मात्रात्मके तते ।
मार्गयन्त्य् अप्रबोधाद्य् एतैर् मृगैर् अलम् अस्तु नः ॥

6.194.16

व्योमरूपे किलैकस्मिन् सर्वात्मनि तते सति ।
कार्यकारणताद्यानाम् उक्तीनाम् एव कẖ क्रमः ॥

6.194.17

यो हेतुस् स्पन्दने वायोर् द्रवत्वे सलिलस्य च ।
शून्यत्वे नभसस् सो ऽस्य सर्गादित्वे चिदात्मनः ॥

6.194.18

कार्यकारणभावादि ब्रह्मैव सकलं यदि ।
तदा ब्रह्मणि सर्गाणां कारणार्थी विलज्जताम् ॥

6.194.19

न दुẖखम् अस्ति न सुखं शान्तं शिवमयं जगत् ।
नास्ति विन्मात्रतान्यत्वम् अत इच्छोदयẖ कुतः ॥

6.194.20

मृद्देहयोधसेनायां न मृण्मात्रेतरद् यथा ।
न सज्जगदहन्तादौ दृश्ये ब्रह्मेतरत् तथा ॥

6.194.21

एवं चेत् तद् उदेत्व् इच्छा मा वोदेतु मुनीश्वर ।
सा तु ब्रह्मैव को ऽर्थस् स्याद् अस्या विधिनिषेधनैः ॥

6.194.22

ज्ञतायां सम्प्रबुद्धायाम् इच्छा ब्रह्मैव नेतरत् ।
यथासि बुद्धवान् राम तत् सत्यं किं त्व् इदं शृणु ॥

6.194.23

यदा यदा ज्ञतोदेति शाम्यतीच्छा तदा तदा ।
वस्तुस्वभावाद् उदयत्य् आदित्ये यामिनी यथा ॥

6.194.24

यथा यथोदयो ज्ञप्तेर् द्वैतशान्तिस् तथा तथा ।
वासनाविलयश् चैव कथम् इच्छोदयो भवेत् ॥

6.194.25

तस्याविद्योपशान्तेयं निर्मला मुक्ततोदिता ।
अशेषदृश्यवैरस्याद् यस्येच्छोदेति न क्वचित् ॥

6.194.26

विरक्ततास्य नो दृश्ये न चाप्य् अत्रास्य रक्तता ।
केवलं ज्ञाय दृश्यश्रीस् स्वदते न स्वभावतः ॥

6.194.27

काकतलीययोगेन परप्रेरणयाथ वा ।
यदि किञ्चित् कदाचिच् च सम्यग् इच्छति वा न वा ॥

6.194.28

तद् अस्य सेच्छानिच्छा च ब्रह्मैवात्र न संशयः ।
इच्छायां ज्ञायते ज्ञस्यावश्यम् एव तु तानवम् ॥

6.194.29

ज्ञता चेद् उदिता जन्तोस् तद् इच्छास्योपशाम्यति ।
नैतयोस् स्थितिर् एकत्र प्रकाशतमसोर् इव ॥

6.194.30

प्रतिषेधविधीनां तु तज्ज्ञो न विषयẖ क्वचित् ।
शान्तसर्वैषणेच्छस्य को ऽस्य किं वक्ति किंकृते ॥

6.194.31

एतद् एव ज्ञताचिह्नं यद् इच्छास्व् अतितानवम् ।
ह्लादनं सर्वलोकानाम् अथानुदय एव वा ॥

6.194.32

दृश्यं विरसतां यातं यदा न स्वदते क्वचित् ।
तदा नेच्छा प्रसरति तदैव च विमुक्तता ॥

6.194.33

बोधाद् अनैक्यम् अद्वैतं यश् शान्तम् अवतिष्ठते ।
इच्छानिच्छादयस् सर्वे भावास् तस्य शिवात्मकाः ॥

6.194.34

बोधाद् अस्तमितद्वैतम् अद्वैताद् ऐक्यवर्जितम् ।
यस् स्वच्छो विगतव्यग्रश् शान्त आत्मन्य् अवस्थितः ॥

6.194.35

नैव तस्य कृतेनार्थो न सता नासता सदा ।
न चात्मना न चान्येन नैतैर् मरणजीवितैः ॥

6.194.36

इच्छा च तस्य नोदेति निर्वाणस्य प्रबोधिनः ।
यदि वोदेति तत् स्वच्छा ब्रह्म शाश्वतम् एव सा ॥

6.194.37

न दुẖखम् अस्ति न सुखं शान्तं शिवम् अजं जगत् ।
इति यो ऽन्तश् शिलेवास्ते तं प्रबुद्धं विदुर् बुधाः ॥

6.194.38

दुẖखं सुखं भावनया कुर्वन् विषम् इवामृतम् ।
इति निश्चयधीरात्मा प्रबुद्ध इति कथ्यते ॥

6.194.39

तत् स्थितं व्योमनि व्योम शान्ते शान्तं शिवे शिवम् ।
शून्ये शून्यं सति च सद् यद् ब्रह्मणि जगत् स्थितम् ॥

6.194.40

असंवेदनसंवित्खे तते विश्वम् इति स्थिते ।
सोम्ये समसमे शान्ते शिवे ऽहन्ताभ्रमẖ क्षयी ॥

6.194.41

यद् इदं दृश्यते किञ्चिज् जगत् स्थावरजङ्गमम् ।
तत् सर्वं शान्तम् आकाशं परचिन्तापुरोपमम् ॥

6.194.42

परचिन्तापुरो मध्ये गतविघ्नं गमागमौ ।
यथा स्तस् तव शून्यत्वात् तथैवास्मिञ् जगद्भ्रमे ॥

6.194.43

अद्रिद्यूर्वीनदीशाभा शून्यतात्मनि जृम्भते ।
अद्रष्टृदृश्यकरणं मृगतृष्णाम्बुवीचिवत् ॥

6.194.44

स्वप्ननिर्माणपुरवद् बालवेतालतालवत् ।
यद् इदं दृश्यते तत्र किं किलासत्यतेतरत् ॥

6.194.45

असत्यम् एवाहम् इति भासते सत्यम् एव च ।
भ्रान्तिभाजं विनैवेयं भ्रान्तिस् स्फुरति सासती ॥

6.194.46

नासन् न सन् न सदसत् किम् अपीदम् अतीन्द्रियम् ।
अवाच्यं जगद् इत्य् एव भात्य् अविक्षुभितं खवत् ॥

6.194.47

इहेच्छानिच्छते ज्ञस्य शमाद् यद्य् अप्य् अलं समे ।
तथापि श्रेयसे मन्ये नन्व् अनिच्छोदयं स्फुटम् ॥

6.194.48

अहं जगद् इति ज्ञप्तिẖ खे खस्येवेयम् आस्थिता ।
चिदात्मनो यथा वायोस् स्पन्दो नात्रास्ति कारणम् ॥

6.194.49

चितश् चेत्योन्मुखत्वं यत् तच् चित्तं सैव संसृतिः ।
सेच्छा तन्मुक्तता मुक्तिर् युक्तिं ज्ञात्वेति शाम्यताम् ॥

6.194.50

इच्छा भवत्व् अनिच्छा वा सर्गो ऽस्तु प्रलयो ऽस्तु वा ।
क्षतिर् न कस्यचित् काचिन् न च किञ्चिद् इहास्ति हि ॥

6.194.51

इच्छानिच्छे सदसती भावाभावौ सुखासुखे ।
इत्य् अत्र कल्पना व्योम्नि सम्भवन्ति न काश्चन ॥

6.194.52

इच्छानां तानवं यस्य दिनानुदिनम् आगतम् ।
विवेकशमतृप्तस्य तम् आहुर् मोक्षभागिनम् ॥

6.194.53

इच्छाक्षुरिकया विद्धे हृदि शूलं प्रवर्तते ।
जयन्ति यत्र नैतानि मणिमन्त्रौषधानि वः ॥

6.194.54

यẖ कार्यकारणाद्यूहान् कृतवान् पूर्वम् एव तम् ।
सत्प्रेक्षया न पश्यामो मिथ्याभ्रमभराद् ऋते ॥

6.194.55

भ्रमभूतेन कुर्मश् चेद् व्यवहारम् अवस्तुना ।
तत् कस्मात् परचिन्ताद्रिẖ कवलत्वं न नीयते ॥

6.194.56

असता व्यवहारश् चेत् प्रेक्षामात्रविनाशिना ।
क्रियते शशशृङ्गेण तत् कथं च्छाद्यते न खम् ॥

6.194.57

अहम्भावाच् चिदाकाशो जाड्यातिशयतẖ क्षणात् ।
पाषाणतां जलम् इव मनस्त्वाद् याति देहताम् ॥

6.194.58

चित्त्वाद् अनुभवत्य् एताम् असत्याम् एव देहिताम् ।
अविनष्टैव चिच्छक्तिस् स्वप्ने स्वमरणं यथा ॥

6.194.59

व्योम्न्य् असत्यम् अवस्तुत्वात् सत्यं चानुभवाद् यथा ।
नीलत्वं तद्वद् ईशे ऽस्मिन् सर्गो नासन् न सन्मयः ॥

6.194.60

यथा शून्यत्वनभसोर् यथा स्पन्दनभस्वतोः ।
भेदो नास्ति तथा सर्गब्रह्मणोर् एकरूपयोः ॥

6.194.61

नेह सञ्जायते किञ्चिज् जगदादि न नश्यति ।
स्वप्नो निद्रागतस्येव केवलं प्रतिभासते ॥

6.194.62

अविद्यमाने पृथ्व्यादौ प्रतिभामात्ररूपिणि ।
सर्गे क इव संरम्भस् त्यागादानैश् चिदम्बरे ॥

6.194.63

न देहप्रतिभातो ऽस्ति बुद्ध्यादिकरणान्विता ।
केवलं ब्रह्म चिन्मात्रम् एवम् आत्मन्य् अवस्थितम् ॥

6.194.64

बुद्ध्यादेẖ करणत्वं च द्वैतैक्यासम्भवान् न सत् ।
अनेनेदं क्रियत इत्य् अस्यार्थस्यात्यसम्भवात् ॥

6.194.65

अहेतुर् अक्रमं भाति चिति कल्पक्रियागणः ।
क्षणेनैव यथा स्वप्ने मृतिजन्माब्धिसन्तराः ॥

6.194.66

खम् एव पृथ्वी खं शैलाẖ खम् एव दृढभित्तयः ।
खम् एव लोकास् स्पन्दẖ खं सर्गसंवेदने चितेः ॥

6.194.67

व्योमभित्तौ जगच्चित्रं चिद्रङ्गमयम् आततम् ।
नोदेति नास्तम् आयाति न ताम्यति न शाम्यति ॥

6.194.68

चिद्वारिणि जगत्तुङ्गतरङ्गद्रवरूपिणि ।
किं कदा कथम् उत्पन्नं किं शान्तं च कदा कथम् ॥

6.194.69

शान्ते महाचिदाकाशे जगच्छून्यत्वशालिनि ।
चेत्यासम्भवतस् सन्ति नोदयास्तमयोक्तयः ॥

6.194.70

पर्वता गगनायन्ते गगनं पर्वतायते ।
संवेदनप्रयोगेण ब्रह्मणस् सर्गतास्थितौ ॥

6.194.71

संविच्चूर्णप्रयोगेण निमेषार्धेन योगिनः ।
कुर्वन्ति जगद् आकाशम् आकाशं त्रिजगन्ति हि ॥

6.194.72

सिद्धसङ्कल्पनगराण्य् असङ्ख्यानि यथाम्बरे ।
तथा सर्गसहस्राणि सन्ति तानि तु चिन्नभः ॥

6.194.73

महार्णवे यथावर्ता अन्योऽन्यम् अपि मिश्रिताः ।
पृथग् एवावतिष्ठन्ते व्यतिरिक्ता न ते ततः ॥

6.194.74

सर्गात् सर्गान्तरालोको यḫ प्रबुद्धस्य योगिनः ।
सिद्धलोकान्तरप्राप्तिस् सैवेति विबुधोक्तयः ॥

6.194.75

अविनाशीनि भूतानि स्थितानि परमे शिवे ।
व्योम्नीव शून्यतोल्लासास् सर्गवर्गा निरर्गलाः ॥

6.194.76

परमार्थनिजामोदास् सहजास् सर्गविभ्रमाः ।
नोद्यन्ति नोपशाम्यन्ति लेखा इव शिलोदरे ॥

6.194.77

अन्योऽन्यं कुसुमामोदा मिलिता अप्य् अमिश्रिताः ।
व्योमरूपास् तथा सर्गा अन्योऽन्यं सिद्धभूमयः ॥

6.194.78

सङ्कल्पाकाशरूपत्वात् सर्वार्थानुभवस्थितेः ।
तनुसङ्कल्पमोहानां सत्याश् शापवरोक्तयः ॥

6.194.79

न ज्ञानवादिता सत्या न च बाह्यार्थवादिता ।
यथावेदनम् एतानि वेदनानि फलन्ति वः ॥

6.194.80

चिति चित्त्वं यद् अस्त्य् अन्तर् जगद् इत्य् एव भाति तत् ।
भेदो द्रवत्वपयसोर् इव नात्रोपपद्यते ॥

6.194.81

कालो जगन्ति भुवनान्य् अहम् अक्षवर्गस् त्व् एतानि तत्र च तथेति च सर्वम् एकम् ।
चिद्व्योम शान्तम् अजम् अव्ययम् ईश्वरात्म रागादयẖ खलु न केचन सम्भवन्ति ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc